४२ धर्मजविधिः

अथ धर्मजविधिः

तत्र पितामहः ।

अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् ॥
लिखेत् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृक् ।
एवं विधायोपलिप्य पिण्डयोस् तु निधापयेत् ॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समन्ततः ।
मृद्भाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
आवाहयेत् ततो देवान् लोकपालांश् च पूर्ववत् ॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ।
यदि पापविमुक्तो ऽहं धर्मस् त्व् आयातु मे करे ॥
अभियुक्तस् ततश् चैकं प्रगृह्णीताविलम्बितः ।
धर्मे गृहीते शुद्धः स्याद् अधर्मे तु स हीयते ॥
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ इति ।

सीसकायसं सीसकमिश्रायसनिर्मितम् । आयसनिर्मितं वेति वर्णयन्ति । पिण्डयोस् तौ निधपयेत् पिण्डयोर् अभ्यन्तरे तौ स्थापयेद् इत्य् अर्थः । पिण्डौ समपरीमाणौ कर्तव्यौ,

समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ।

इत्य् बृहस्पतिस्मरणात् ।

यदि पापविमुक्तो ऽहं धर्मस् त्व् आयातु मे करे ।

इति मन्त्रं शोध्यो ब्रूयात्, अहम् इति मन्त्रलिङ्गात् । अन्यत् सर्वं व्यक्तार्थम् ॥

इति स्मृतिचन्द्रिकायां धर्मजविधिः

समाप्तं च दिव्यप्रकरणम्

क्रियापादश् च समाप्तः