४१ फालविधिः

अथ फालविधिः

तत्र बृहस्पतिः ।

आयसं द्वादशपलं घटितं फालम् उच्यते ।
अष्टाङ्गुलं भवेद् दीर्घं चतुरङ्गुलविस्तरम् ॥

एवंविधं दिव्यदेशप्रतिष्ठापितागौ निक्षिप्य धर्मावाहनादौ शोध्यशिरसि पत्रारोपणान्ते सर्वदिव्यसाधारणविधाव् अनुट्ष्ठिते सुतप्तं कुर्यात् । सुतप्ते कृते कर्तव्यम् आह स एव ।

अग्निवर्णं तु तच् चोरो जिह्वया लेहयेत् सकृत् ।
न दग्धश् चेच् छुचिम् इयाद् अन्यथा तु स हीयते ॥

चोरग्रहणं शोध्योपलक्षणार्थम् ॥

इति स्मृतिचन्द्रिकायां फालविधिः