४० तप्तमाषविधिः

अत तप्तमाषविधिः

तत्र पितामहः ।

तप्तमाषस्य वक्ष्यामि विधिम् उद्धरणे शुभम् ।
कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥ इति ।

मण्डलं परिमण्डलं वर्तुलम् इति यावत् । एवंविधं पात्रं घृततैलाभ्यां गव्यघृतेनैव वा पूरयित्वा लौकिकम् अग्निं दिव्यदेशे प्रतिष्ठाप्य तत्र तापयेत् । तथा च स एव ।

पूरयेत् घृततैलाभ्यां विंशत्या वै पलैस् तु तत् ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥

केचिद् अत्र वाशब्दाद्यश्रपणात् (?) घृततैलगव्यघृतानां समुच्चयम् इच्छन्ति, तद् असत् । व्रीहियवयोर् इव निरपेक्षश्रुतिबलेनैव विकल्पावगतेः । अतो विंशतिपलं घृततैलं गव्यं वा घृतं पात्रे निक्षिप्य तापयेत् । पक्षद्वये ऽपि तापे वर्तमाने धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणविधिं विदध्यात् । ततःपरं पक्षद्वये प्रकारभेदः, तत्र तावत् घृततैलतापनपक्षे भेदम् आह स एव ।

सुवर्णमाषके तस्मिन् सुतप्ते निक्षिपेत् ततः ।
अङ्गुष्ठाङ्गुलयोगेन तप्तमाषकम् उद्धरेत् ॥
कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ।
शुद्धो भावति धर्मेण निर्विकारकराङ्गुलिघ् ॥ इति ।

माषकं कर्षषोडशांशप्रमाणम् । सुवर्णग्रहणम् अत्र द्विकृष्णलप्रमाणराजतमापनिवृत्त्यर्थम् (?), तस्याल्पत्वेन दुर्ग्रहत्वात् । ततश् च हैमं ताम्रं वा माषकं निक्षिपेद् इत्य् अर्थः । तस्मिन् घृततैले अङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्य् अर्थः । गव्यघृततापनपक्षे ऽपि कृते सर्वदिव्यसाधारणविधौ विशेषम् आह स एव ।

सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोधिताम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
भ्रमद्वीचीतरङ्गाढ्ये अनखस्पर्शगोचरे ।
परीक्षेतार्द्रपर्णेन चरुकारं सघोषकम् ॥
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ।
परं पवित्रम् अमृतं घृतं त्वं यज्ञकर्मसु ॥
दह पावक पापं त्वं हिमशीतं शुचौ भव ।
उपोषितं ततः स्नातम् आर्द्रवाससमागतम् ॥
ग्राहयेन् मुद्रिकां ताम् तु घृतमध्यगतां तथा ।
प्रदेशिनीं च तस्याथ परिक्षेरन् परिक्षकाः ॥
यस्य विस्फोटका न स्युः शुद्धो ऽसाव् अन्यथाशुचिः ॥ इति ।

अत्र प्रदेशिन्यैव मुद्रिकोद्धारणम्, तस्याः परीक्षाविधानात् ॥

**इति स्मृतिचन्द्रिकायां तप्तमाषविधिः **