३९ तण्डुलविधिः

अथ तण्डुलविधिः

तत्र पितामहः ।

तण्डुलानां प्रवक्ष्यामि विधिं लक्षणचोदितम् ।
चौर्ये तु तण्डुला देया नान्यस्मिन्न् इति निश्चयः ॥

अन्यस्मिन् स्त्रीसंग्रहणाद्यधनविवादे (?) इत्य् अर्थः । धनविवादे तु चौर्याद् अन्यत्रापि तण्डुला देयाः “तदर्थार्धस्य तण्डुलाः” इति कात्यायनेनोक्तत्वात् । न च तद्वचनं चौर्यविषयम् एवास्त्व् इति वाच्यम् “दत्तस्यापह्नवो यत्र” इत्य् उपक्रमविरोधापत्तेः । अतश् चौर्यग्रहणम् अर्थविवादप्रदर्सनार्थम् इति मन्तव्यम् । अत्र प्रयोगो द्व्यहकालः । तत्र पूर्वेद्युर् यत् कर्तव्यं तद् आह स एव ।

तण्डुलान् क्षालयेच् छुक्लान् शालीयान् यस्य कस्यचित् ।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः सुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
आवाहनादि पूर्वं तु कृत्वा रात्रौ विधानतः ॥ इति ।

शुचिर् भूत्वा प्राड्विवाको रात्राव् आदित्यस्य पुरतो ऽनतिदूरे तण्डुलान् उपकल्प्य, धर्मावाहनादि हेमान्तं सर्वदिव्यसाधारणविधिं विधायादित्यस्नानोदकेन यथास्थितांस् तण्डुलान् आप्लुत्य, प्रभातपर्यन्तं तथैव स्थापयेद् इत्य् अर्थः । प्रभाते च यत् कर्तव्यं तद् अपि तेन दर्शितम् ।

प्रभाते कार्यिणे देयास् त्रिः कृत्वा प्राङ्मुखाय तु । इति ।

रात्राव् अधिवासितास् तण्डुलाः शोध्याय भक्षणार्थं त्रिवारं देया इत्य् अर्थः । शोध्यस्य च यद् अनुष्ठेयं तद् अप्य् अनुवादव्याजेन स एव दर्शयति ।

प्रामुखोपोषितं स्नातं सिरोरोपितपत्रकम् ।
तण्डुलान् भक्xअयित्वा तु पत्रे निष्ठीवयेत् त्रिधा ॥ इति ।

प्राङ्मुखत्वादि निष्ठीवनान्तं प्राड्विवाकेन कारयितव्यम् । शोध्येन च कर्तव्यम् इत्य् अर्थः । पत्रे च विशेषस् तेनैव दर्सितः ।

भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु । इति ।

एतच् च प्रभातकृत्यं भक्षणादि सूर्यग्रहे कर्तव्यम् इत्य् आह बृहस्पतिः ।

सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच् छुचिः । इति ।

तथा शुद्ध्यशुद्धिनिमित्तानि च तेन दर्शितानि ।

शुद्धिः स्याच् छुक्लनिष्ठीवे रक्तमिश्रे च दोषभाक् । इति ।

न केवलं रक्तमिश्रे दोषभाक् अपि तु निमित्तान्तरे ऽपीति चशब्दार्थः । अत एव पितामहः ।

शोणितं दृश्यते यस्य हनुस् तालु च शीर्यति ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥

**इति स्मृतिचन्द्रिकायां तण्डुलविधिः **