३८ जल-विष-विधि-स्थाने कोशविधिः

अथ जल-विषयोर् उत्सन्नानुष्ठानत्वात् तद्विधिम् अनाख्याय कोशविधिर् उच्यते

तत्र याज्ञवल्क्यः ।

देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् । इति ।

उग्रा देवा रुद्रदुर्गादित्यादयः । तेषाम् अन्यतमं देवं प्राड्विवाकः कृतोपवासो गन्धपुष्पादिभिः संपूज्य स्नापयित्वा तत्स्नानोदकं दिव्यदेशं नयेद् इत्य् अर्थः । नरं तत्र निधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणविधिं विधाय शोध्यं च प्राङ्मुखं कृत्वा पूर्वनिहितोदकात् प्रसृतित्रयं पाययेत् । प्रसृतित्रयमण्डलं च तस्मिन्न् एव काले गोमयेन कार्यम् इति व्याख्यतृभिर् उक्तम् । आदित्याभिमुखं कृत्वा संश्राव्य पाययेत् । तथा च याज्ञव्ल्क्यः ।

संश्राव्य पाययेत् पश्चाज् जलात् तु प्रसृतित्रयम् । इति ।

किं संश्राव्येत्य् अपेक्षिते नारदः ।

एनश् च श्रावयित्वा तु पाययेत् प्रसृतित्रयम् । इति ।

एनः पापं तच् च तत्फलाभिधानमुखेन तेनैव दर्शितम् ।

स्वेच्छया यः पिबेत् कोशं कस्चिच् छेद् दूषितो नरः ।
विसंवदेन् नरो लोभाच् छली भवति दुर्मतिः ॥
आत्मनः कामकारेण कोशं पीत्वा विसंवदेत् ।
दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते ॥
बलात् कोशं हि यो दत्वा हितम् इच्छेन् न चात्मनः ।
स विनाशी भवेत् तस्य तच् च कार्यं न सिध्यति ॥ इति ।

अत्रान्त्यश्लोकम् अभियोक्ता श्रावयितव्यः सामर्थ्यात् । शोध्यस् तु श्रावितं श्रुत्वेदं मत्या न कृतम् इति वदन् पिबेत् । तथा च विष्णुः - “उग्रान् देवान् अभ्यर्च्य तत्स्नानोदकात् प्रसृतित्रयं पिबेद् इदं मत्या न कृतम् इति व्याहरन् देवताभिमुखः” इति । एवं यस्य कस्यचिद् उग्रदेवस्य स्नानोदकम् आहृत्य कोशानुष्ठाने प्राप्ते नियमार्थम् आह पितामहः ।

भक्तो यो यस्य देवस्य पाययेत् तस्य तज्जलम् ।
समभावे तु देवानाम् आदित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच् चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥ इति ।

तथा स्नापनीयप्रदेसनियमम् आह स एव ।

दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
अन्येषाम् अपि देवानां स्नापयेद् आयुधानि तु ॥ इति ।

प्रसृतित्रयपानाद् अनन्तरं कात्यायनः ।

अथ दैवविसंवादः त्रिसप्ताहात् तु दापयेत् ।
अभियुक्तं प्रसन्नेन तम् अर्थं दण्डम् एव च ॥

दैवविसंवादो दैविकव्याधीनाम् आविर्भावः । दैविकाश् च व्याधयस् तेनैव दर्शिताः ।

क्षयातिसारविस्फोटास् ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश् च तथोन्मादः प्रजापते ॥
शिरोरुक् भुजभङ्गश् च दैविका व्याधयो नृणाम् ॥ इति ।

अन्यान्य् अपि पराजयनिमित्तानि विष्णुना दर्सितानि ।

यस्य पस्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्नेर् ज्ञातिमरणं राजदण्डम् अथापि वा ॥
तम् अशुद्धं विजानीयात् तथा सुद्धं विपर्यये ॥ इति ।

नारदेनार्थभ्रंशादयो ऽपि पराजये उक्ताः ।

सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः ।
रोगो ऽग्निर् ज्जातिमरणम् अर्थभ्रंशो धनक्षयः ॥
प्रत्यात्मिकं भवेद् यस्य विद्यात् तस्य पराजयम् ॥ इति ।

प्रत्यात्मिकं न समुदायप्रयुक्तम् । अर्थो ऽत्र पुत्रादिर् अभिप्रेतः, अन्यथा धनशब्दवैयर्थ्यात् । अत एव बृहस्पतिः ।

सप्ताहाद् वा द्विसप्ताहाद् यस्यार्तिर् न प्रजायते ।
पुत्रदारधनानां च स शुद्धः स्यान् न संशयः ॥

पितामहेनावध्यन्तरम् अप्य् उक्तम् ।

त्रिरात्रात् सप्तरात्राद् वा द्विसप्ताहाद् अथापि वा ।
वैकृतं यस्य दृश्येत पाककृत् स तु मानवः ॥

यस्य शोध्यस्येत्य् अर्थः । न केवलं शोध्यस्य विकृतत्वापत्तौ पापकृत्त्वम्, अपि तु स्वकीयजनस्य विकृतत्वापताव् अपीत्य् आह स एव ।

तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं सैव तस्य विभावना ॥

तद् रोगादिवैकृतं कृतकोशपानस्यैकस्य यदि भवेत् तद् एव पापकृत्त्वम् इति न, किं तु तदीयजनस्य सर्वस्य मध्ये यदा यस्य कस्यचिद् भवेत् तदापीत्य् अर्थः । मनुनाप्य् अवध्यन्तरम् उक्तम् ।

न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथैः शुचिः ॥ इति ।

आर्तिः पूर्वोक्तो रोगादिः । क्षिप्रं शीघ्रम्, एकरात्राद् अर्वाग् इति यावत् । अयं चावधिः स्वल्पकार्यनिर्णायकसत्यादिसपथविषयः स्वल्पकालीनायाः शुद्धिभावनायास् तत्रैवोचितत्वात्, सत्यादिशपथान् प्रस्तुत्याभिहितत्वाच् च । त्रिरात्राद्यवधयस् तु कोशविषयाः, कोशम् अधिकृत्याभिधानात् । तत्रापि त्रिरात्रावधिस् तण्डुलविषयद्रव्याद् अर्चाचीनद्रव्यविषयः । द्विसप्ताहावधिस् तु महाभियोगविषयः । त्रिसप्ताहावधिस् तु,

विंशद्दसविनाशे तु दोशपानं विधीयते ।

इति प्रतिपादितकोशविषय इत्य् अवगन्तव्यम् औचित्यात् । सर्वत्रावधौ ऊर्ध्वम् अवधेर् वैकृतदर्शने ऽपि न पापकृच् छोध्यः, अवधिसामर्थ्यात् । ऊर्ध्वकालीनस्य रोगादेर् निमित्तानन्तरकारित्वात् । अत एव नारदः ।

ऊर्ध्वं यस्य द्विस्पताहाद् वैकृतं सुमहद् भवेत् ।
नाभियोज्याः स विदुषा कृतकालव्यतिक्रमात् ॥

द्विसप्ताहाद् इति पूर्वोक्तावधीनाम् उपलक्षणार्थम्, “कृतकालव्यतिक्रमात्” इति हेतोर् अवध्यन्तरे ऽपि समानत्वात् ॥

**इति स्मृतिचन्द्रिकायां कोशविधिः **