३७ अग्निविधिः

अथाग्निविधिः

तत्र पितामहः ।

अग्नेर् विधिं प्रवक्ष्यामि यथावच् छास्त्रचोदितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥

प्रख्यातदेवतायतनादिविहितदेशे भूशुद्धिम् उद्धननावोक्षणाभ्यां कृत्वा तत्र नव मण्डलानि प्रागपवर्गाणि प्राड्विवाकः सोपवासो नृपाज्ञया प्रवृत्तः कुर्याद् इत्य् अर्थः । तानि च गोमयेन कार्याणि,

गोमयेन कृतानि स्युर् अद्भिः पर्युक्षितानि च ।

इति तेनैव स्मृतत्वात् । तेषाम् अन्तरालपरिमाणे उभे अपि याज्ञवल्क्येन दर्शिते ।

षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् । इति ।

मण्डलानि तेषाम् अन्तरालानि च प्रत्येकं षडशाङ्गुलपरिमाणानि कार्याणीत्य् अर्थः । मण्डलदेवतास् तु पितामहेन दर्शिताः ।

आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वसुदेवत्यं चतुर्थं यमदेवतम् ॥
पञ्चमं त्व् इन्द्रदेवत्यं षष्ठं कौबेरम् उच्यते ।
सप्तमं सोमदेवत्यं सावित्रं त्व् अष्टमं तथा ॥
नवमं सर्वदेवत्यम् इति दिव्यविदो (?) विदुः । इति ।

अग्निर् अत्र पूज्यत इत्य् आग्नेयम्, हविष्ट्वेन (?) सूक्तत्वेन वा वा मण्डलस्याग्रेयत्वासंभवात् । एवं वारुणत्वादिकम् अपि मण्डलस्य पूजाधिकरणतया द्रष्टव्यम् । तेन “प्रैतु होतुश् चमसः” इत्यादिप्रैषमन्त्रस्थया होतुश् चमस इत्यादिसमाख्यया होत्रादीनां तत्र चमसभक्षप्राप्तिवद् आग्नेयादिसमाख्ययैवाग्न्यादीनां तत्र तत्र मण्डले पूजनं कार्यम् इत्य् अस्माद् एव वचनात् प्रसिद्धम् । अतो मण्डलानां प्रोक्षणानन्तरं मण्डलाधिदेवतापूजनं कुर्यात् । ततः प्रतिमण्डलं प्रागग्रान् कुशान् क्षिपेत्,

मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।

इति तेनैव स्मृतत्वात् । ततः प्रथममण्दलाद् दक्षिणतो ऽनतिदूरे लौकिकाग्निं प्रतिष्ठाप्य शान्तिहोमं कुर्यात्,

शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् ।

इति स्मरणात् । होमश् च “अग्नये पावकाय स्वाहा” इत्य् अनेन मन्त्रेण कार्य इत्य् उक्तं व्याख्यातृभिः । ततस् तस्मिन् अग्नौ लोहपिण्डं तापयेत् । तथा च पितामहः ।

अश्रिहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलक्ं समम् ॥

समम् अनिम्नोन्नतम् । पुनः समग्रहणं समन्तात् तापयेद् इति विधानार्थम् । षोडशपलकं वा पिण्डं तपयेत् । “अथ सप्ताश्वत्थपर्णान्तरितं षोडशपलम् अग्निवर्णं लोहपिण्डम् अञ्जलिनादाय सप्तमर्यादां गच्छेत्” इति शङ्खलिखितस्मरणात् । तापनं तु लोहकारेण कार्यम् इत्य् आह नारदः ।

जात्यैव लोहकारो यः कुशलश् चाग्निकर्मणि ।
दृष्टप्रयोगश् चान्यत्र तेनायो ऽग्नौ तु तापयेत् ॥

दृष्टप्रयोगश् चान्यत्रेत्य् अनेन यथा लोके लोहशुद्ध्यर्थं सुतप्तं लोहम् उदके निक्षिप्य पुनः संताप्योदके निक्षिप्य पुनः संतापनं लोहेकार्यसिद्ध्यर्थं (?) क्रियते तथात्रापि कर्तव्यम् इति दर्शितम् । तत्र तृतीयतापे वर्तमाने धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणविधिं कुर्यात् । तथा च पितामहः ।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥ इति ।

तत्र धर्माराधनसाधनेषु विशेषम् आह स एव ।

तत्र पूजां हुताशस्य कारयेन् मनुजाधिपः ।
रक्तचन्दनधूपाभ्यां रक्तपुष्पैस् तथैव च ॥ इति ।

हुताशस्य लोहपिण्डाग्नाव् आवाहितस्य धर्मस्येति यावत् । रक्तचन्दनं च धूपश् च रक्तचन्दनधूपौ, ताभ्याम् । इन्द्राद्याराधनसाधनेषु नायं नियमः, हुताशस्येति विशेषितत्वात् । शिरस्यारोपिते प्रतिज्ञापत्रे सत्य् अनन्तरं शोध्यस्य कर्तव्यम् आह हारीतः ।

प्राङ्मुखस् तु ततस् तिष्ठेत् प्रसारितकराङ्गुलिः ।
आर्द्रवासाः शुचिश् चैव शिरस्य् आरोप्य पत्रकम् ॥

स्थितिश् चाध्यमण्डले कर्तव्या,

पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिः शुचिः ।

इति पितामहस्मरणात् । शोध्यस्य प्राड्विवाकस्य च कर्तव्यम् आह विष्णुः ।

करु विमृदितव्रीही तस्यादाव् एव लक्षयेत् । इति ।

विमृदिता व्रीहयो याभ्यां तौ विमृदितव्र्ही । अनेन कराभ्यां व्रीहिमर्दनं कृत्वा शोध्यः प्रसारितकराङ्गुलिः स्याद् इत्य् अर्थाद् उक्तम् । लक्षयेद् इत्य् अस्यार्थो नारदेन प्रपञ्चितः ।

लक्षयेत् तस्य चिह्नानि हस्तयोर् उभयोर् अपि ।
प्राकृतानि च गूढानि सव्रणान्य् अव्रणानि च ॥

अग्निधारणात् प्राक्तनान्य् एतानीति ज्ञापनर्थं तस्य शोध्यस्य करद्वयस्थितव्रणादिस्थानेषु अलक्तकादिरसेन हंसपदानि कुर्याद् इत्य् अर्थः । तथा च स एव ।

हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु । इति ।

ततः कर्तव्यम् आह याज्ञवल्क्यः ।

करौ विमृदितव्रीही लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पर्णानि तावत् सूत्रेण वेष्टयेत् ॥

विष्णुर् अपि - “ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थस्य पत्राणि करयोर् दद्यात्, तानि च करद्वयसहितानि सूत्रेण वेष्टयेत्” इति । उभयत्रापि ततः शब्देनेदं ज्ञायते - हस्ताङ्कनपत्रन्यसनयोर् मध्ये यत् स्मृत्यन्तरोक्तं होमादि तद् अस्मिन् मते न कर्तव्यम् इति । एवं च यद् उक्तं नारदेन -

कृत्वैवम् अभिशस्तस्य प्रथमं हस्तलक्षणम् ।
शान्त्यर्थं जुहुयान् मन्त्रैर् घृतेनाग्नौ यथाविधि ॥
तर्पितेष्व् अथ देवेषु लोकपालेषु चैव हि ।
आदित्याभिमुखो भूत्वा इमं मन्त्रम् उदीरयेत् ॥
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।
हव्यं वहसि देवानां हुतः शान्तिं प्रयच्छसि ॥
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽहं वह्ने तिष्ठामि संशये ।
तस्मान् मां संशयारूढं धर्मतस् त्रातुम् अर्हसि ॥
एवम् उक्तवतस् तस्य प्राङ्मुखस्य तु धीमतः ।
पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः स्मैः ॥ इति ।

मैत्रैः “आकृष्णेन” इत्यादिभिः नवभिः ग्रहप्रकाशकैः । देवेषु वस्वादित्यरुद्रेषु लोकपालेषु च तत्तन्नाम्ना हुतघृताद्याहुतिभिस् तर्पितेषु सत्स्व् इत्य् अर्थः । तद् एतत् सर्वं वैकल्पिकम् इति मन्तव्यम् । यत् तु पत्रविशेषणम् उक्तं समैर् इति तन् नित्यम्, तेन पक्षद्वये ऽपि समपरिमाणैः पत्रैर् भवितव्यम् । तथा वेष्टनसूत्रेष्व् अपि विशेषस् तेन दर्शितः ।

वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः । इति ।

सितैः श्वेतैर् इत्य् अर्थः । यत् तु स्मृत्यन्तरम्,

अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥

इति, तद् अश्वत्थपत्रालाभविषयम् । यद् आह पितामहः ।

पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
अतस् तस्य तु पत्राणि हस्तयोर् निक्षिपेद् बुधः ॥ इति ।

यस्मात् प्रशस्तो ऽश्वत्थः तस्मात् पत्राण्य् एव सति संभवे ग्राह्याणीत्य् अर्थः । शमीपत्रादीनि पुनः पूर्वोक्तपत्रैःसह समुच्चीयन्ते । तथा च स्मृत्यन्तरम् ।

सप्त पिप्पलपत्राणि समीपत्राण्य् अथापि वा ।
दूर्वायाः सप्त पत्राणि दद्यात् तांश् चाक्षतान् न्यसेत् ॥

तथा कुसुमानि च न्यसेत्,

सप्त पिप्पलपत्राणि अक्षतान् सुमनोदधि (?) ।

इति पितामहस्मरणात् । सुमनसः कुसुमानि । ततस् तप्तलोहपिण्डे प्राड्विवाकः “त्वम् अग्ने देवाः” इत्यदिना “महानल” इत्यन्तेन मन्त्रेण लोहपिण्डस्थम् अग्निम् अभिमन्त्रयेत् । तथा च पितामहः ।

तापिते तु ततः पश्चाद् अग्निम् आवाहयेच् छुचिः ।
आवाहनं तु देवानां कृत्वा पूर्वविधानवित् ॥
त्वम् अग्ने देवाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यसे ॥
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथ वा शुद्धभावेषु शीतो भव महानल ॥ इति ।

देवानां धर्मादीनाम् आवाहनग्रहणम् आवाहनादेः शोध्यकरसंस्कारकुसुमनिधानान्तस्य कर्मण उपलक्षणार्थम् । विष्णुस् तु लोहपिण्डस्थाग्न्यभिमन्त्रणे मन्त्रान्तरम् आह ।

त्वम् अग्ने सर्वभूतानाम् अन्तस् चरसि साक्षिवत् ।
त्वम् एवाग्ने विजानीषे न विदुर् यानि मानुषाः ॥
व्यवहाराभिशस्तो ऽयं मानुषः सुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

समुच्चयेनास्य मन्त्रस्य अभिमन्त्रणसाधनत्वं न पुनर् विकल्पेन, प्रार्थनीयार्थस्य शोध्यव्यक्तिविशेषनिष्ठतया प्रकाशकत्वेन भिन्नकार्यत्वात् । यत् तु,

तृतीयतापे संतप्तं ब्रूयात् सभ्यपुरस्कृतम् ।
शृण्व् इमं मानवं धर्मं लोकपालैर् अधिष्ठितम् ॥
त्वम् अग्ने सर्वदेवानां पवित्रं परमं मुखम् ।
त्वम् एव सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ॥
सत्यानृते च जिह्वा वा त्वत्तः समुपलभ्यते ।
देवादिभिर् इदं प्रोक्तं नान्यथा कर्तुम् अर्हसि ॥
अनेनासाव् इदं प्रोक्तो मिथ्यावादम् असौ वदेत् ।
सर्वथा च यथा मिथ्या तथाग्निं धारयाम्य् अहम् ॥
स एष त्वां धारयति सत्येनानेन मानवः ।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन ॥
मृषावाक्यस्य पापस्य दह हस्तौ च पापिनः ॥

इति, यत् तु नारदोक्तम् अग्न्यभिमन्त्रणम्, तत् विष्णुपितामहोक्तेनाग्न्यभिमन्त्रणेन विकल्प्यते, एकार्थत्वात् । यदा नारदोक्ताग्न्यभिमन्त्रणं क्रियते तदाभिमन्त्रणानन्त्रं कर्तव्यम् आह स एव ।

अमुम् अर्थं च पत्रस्थम् अभियुक्तं यथार्थतः ।
संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रियम् ॥

पूर्वोक्ताभिमन्त्रणमन्त्रार्थं शिरसि निहितपत्रस्थमन्त्रार्थं च संश्राव्य तत् पत्रं यथास्थानं निधाय लोहपिण्डो देय इत्य् अर्थः । यदा तु विष्णुपितामहोक्ताग्न्यभिमन्त्रणं क्रियते तदा तस्मिन् कृते कर्तव्यम् आह पितामहः ।

ततस् तं समुपादाय राजा धर्मपरायणः ।
संदंशेन नियुक्तो वा हस्तयोस् तस्य निक्षिपेत् ॥

संदंशेन तं लोहपिण्डं समुपादायेत्य् अन्वयः । नियुक्तः प्राड्विवाकः । निक्षेपणात् प्राक् शोध्यस्य पक्षद्वये ऽपि कर्तव्यम् आह याज्ञवल्क्यः ।

त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥
तस्येत्य् उक्तवतो लोहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥

इत्युक्तवतः पूर्वोक्ताग्न्यभिमन्त्रणं कृतवतस् तस्य शोध्यस्येत्य् अर्थः । न्यस्ते लोहपिण्डे शोध्यस्य कर्तव्यम् आह स एव ।

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । इति ।

अस्यार्थो विष्णुना विवृतः - “तम् आदाय नातिद्रुतं न च विलम्बितं मण्डलेषु पदन्यासं कुर्वन् व्रजेत्” इति । मण्डलेषु द्वितीयादिष्व् अष्टमान्तेष्व् इत्य् अर्थः । तथा च नारदः ।

हस्ताभ्यां तं समादाय प्राड्विवाकसमीरितः ।
स्थित्वैकस्मिंस् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिह्मगः ॥
असंभ्रान्तः शनैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ।
न पातयेत् ताम् अप्राप्य या भूमिः परिकल्पिता ॥
न मण्डलम् अतिक्रामेन् न चार्वाक् स्थापयेत् पदम् ।
मण्डलं चाष्टमं गत्वा ततो ऽग्निं विसृजेन् नरः ॥ इति ।

एकस्मिन् आद्ये मण्डल इत्य् अर्थः । ततो ऽन्यानि द्वितीयादीनि । अग्निविसर्जनं च नवमे मण्डले कर्तव्यम्,

अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ।

इति पितामहस्मरणात् । निक्षेपानन्तरं परीक्षकस्य कर्तव्यम् आह नरदः ।

तस्यैव मुक्तपिण्दस्य कुर्यात् करनिरीक्षणम् । इति ।

शुद्ध्यशुद्धिपरिज्ञानार्थम् इति सेषः । तत्राशुद्धिप्रत्यायकानि लक्षणान्य् आह स एव ।

पूर्वदृष्टेषु चिह्नषु ततो ऽन्यत्रापि लक्षयेत् ।
मण्डलं रक्तसङ्काशं यत्रान्यच् चाग्निसंभवम् ॥
सो ऽविशुद्धस् तु विज्ञेयो ऽसत्यधर्मव्यवस्थितः ॥ इति ।

यस्य करतलद्वयमध्ये यत्रकुत्रचिद् आहारितं स्फोटकाद्युपलभ्यते तम् अशुद्धं विजानीयाद् इत्य् अर्थः । यस्य पुनर् नोपलभ्यते स शुद्धो विज्ञेयः । तथा च विष्णुः ।

यो हस्तयोः क्वचिद्दग्धस् तम् अशुद्धं विनिर्दिसेत् ।
न दग्धः सर्वथा यस् तु स विशुद्धो भवेन् नरः ॥

यदा तु दग्धादग्धसंदेहः तदाह नारदः ।

ज्ञानेन न विभागश् चेद् दग्धाव् इति करौ तदा ।
व्रीहीन् अतिप्रयत्नेन सप्तवारांस् तु दापयेत् ॥
मर्दितो यदि नो दग्धः सभ्यैस् त्व् एवं विनिश्चितम् ।
मोच्यः शुद्धस् तु सत्कृत्य दग्धो दण्ड्यो यथाक्रमम् ॥ इति ।

पितामहो ऽपि ।

हृते च मर्दयेत् पश्चाद् व्रीहीन् वा यदि वा यवान् ।
निर्विकारे दिनस्यान्ते शुद्धं तम् इति निर्दिशेत् ॥ इति ।

निर्विकारे करद्वये स्थिते शुद्धम् इति तं निर्दिशेद् इत्य् अर्थः । केचित् “निर्विकारौ यदा हस्तौ” इति पठन्ति । तन्मते हरणान्तरम् एव मर्दनेन शुद्धिर् अवधारणीया । ननु “दिनस्यान्ते शुद्धं तम् इति निर्दिशेत्” इति पाठे,

मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।

इति याज्ञवल्क्यवचनविरोधः स्यात् । मैवं वोचः, “प्रहृत्य परिधीन् जुहोति” इतिवद् आनन्तर्याभावे ऽपि क्त्वानिर्देशोपपत्तेः । यत् पुनस् तेनोक्तम्,

अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ।

इति, तत् व्रीहिमर्दने कृते ऽपि यत्र संदेहो नापैति तद्विषयम्, किं सत्यानृतवशाद् अदाहदाहौ उत दृष्टव्यवधानादिकारणवशाद् इति यत्र संदेहस् तद्विषयं च । “अन्तरा पतिते पिण्डे” इत्य् अत्र दग्धश् च नोपलभ्यते इति शेषो ऽवगन्तव्यः । दग्धस्योपलम्भे त्व् अशुद्धिनिश्चयेन पुनर्हरणानवकाशात् । अत एव नारदः ।

यस् त्व् अन्तरा पातयति दग्दश् च न विभाव्यते ।
पुनस् तं हारयेद् अग्निं स्थितिर् एषा दृढीकृता ॥

दग्धश् च न विभाव्यते करतलद्वयाभ्यन्तरे इति शेषः । अन्यत्र दग्धविभावने ऽपि पुनर् हारयेद् एव । तथा च कात्यायनः ।

प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥

भूयो ऽपि पुनर् अपीत्य् अर्थः । अत्र नारदः ।

अनेन विधिना कार्यो हुताशसमयः सदा ।
ऋते ग्रीष्माद् असाव् उक्तः काले ऽन्यस्मिंस् तु शीतले ॥ इति ।

**इति स्मृतिचन्दिकायाम् अग्निविधिः **