३६ धटारोपणविधिः

अथ धटारोपणविधिः

तत्र नारदः ।

शिक्यद्वयं समासज्य धटकर्कटयोर् दृढम् ।
एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच् छिलाम् ॥

विधिवन् निर्मितधटकर्कटकद्वये शिक्यद्वयपाशौ समासज्येत्य् अर्थः । शिलाग्रहणं मृदादेर् उपलक्षणार्थम् । अत एव पितामहः ।

शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ।
प्रागग्रान् कल्पयेद् दर्भान् शिक्ययोर् उभ्योर् अपि ॥
पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ।
इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ॥ इति ।

इष्टकापाषाणयोर् मृदा सह समुच्चयो निवार्यते न तु विकल्पः, तयोर् अपि विहितत्वात् । तथा च नारदः ।

पिटकं पूरयेत् तस्मिन्न् इष्टकाग्रावपांसुभिः । इति ।

इष्टकाभिः ग्रावभिः पांसुभिर् वेत्य् अर्थः । माषैर् वा पिटकं पूरयेत्, “माषराशिम् अथापि वा” इति स्मृत्यन्तरवचनात् । एवं च शिलामृत्तिकेष्टकाग्रावपांसुमाषाणां प्रतिमानत्वे विकल्पो वेदितव्यः । अत एव नारदेनोक्तम् ।

मृत्पिण्डम् अभिशस्तं च तुलायां धारयेत् समम् ।
धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ॥ इति ।

उत्तरे पार्श्व इत्य् एतद् दक्षिणोदगायतत्वेन निर्मिततुलाविषयम् । यद्य् अपि तथा निर्माणं पूर्वम् अनुपदिष्टम्, तथाप्य् अस्माद् एव वचनात् पूर्वापरसंस्थानौ पादस्तन्भौ कृत्वोदगग्रा तुला कदाचित् कार्येत्य् अर्थात् सिद्धम् इति न कश्चिद् विरोधः । तुलां धारयेद् वणिगादीनाम् अन्यतम इति शेषः । तथा च विष्णुः - “तां च वणिक्सुवर्णकारकांस्यकाराणाम् अन्यतमो बिभृयात्” इति । तां तुलाम् इत्य् अर्थः । अन्यतमेन धृतायाः समतानिरीक्षणार्थं राज्ञा ते सर्वे नियोक्तव्याः । तथा च पितामहः ।

परीक्षका नियोक्तव्याः तुलामानविशारदाः ।
वणिजो हेमकाराश् च कांस्यकारास् तथैव च ॥

नियुक्ताश् च समताम् निरीक्षेरन् । तथा च नारदः ।

सुवर्णकारा वणिजः कुसलाः कांस्यकरकाः ।
तां तुलाम् अन्ववेक्षेरन् तुलाधारणकोविदाः ॥

न्रीक्षकान् प्रत्याह पितामहः ।

कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ।
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥ इति ।

तोरणयोर् लम्बमानौ मृण्मयाव् अवलम्बौ तयोः संबन्धः कटकद्वयोपरिभागेन समो यस्य सो ऽवलम्बसमो धटः । तथा च नारदः ।

प्रथमारोहणे ग्राह्यं प्रमाणं निपुणैः सह ।
तुलाशिरोभ्यां तुल्यं तु तोरणन्यस्तलक्षणम् ॥

समतावधारणान्तरं विष्णुः - “प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषम् अवतारयेत्” इति । सुचिह्नितौ समतादशायां येष्व् अवयवेषु श्क्यरज्जवः संयुक्तास् तत्र तत्र पाण्डुरेखाङ्किताव् इत्य् अर्थः । अवतारणानन्तरं पितामहः ।

तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥ इति ।

एवम् उपकल्पनानन्तरं धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणविधिं कुर्यात् । तथा च स एव ।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥ इति ।

तत्र धर्माराधनसाधनेषु विशेषम् आह नारदः ।

रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥ इति ।

धटं धटाधिष्ठितं धर्मम्, शिष्टान् इन्द्रादीन् । शोध्यशिरसि पत्रारोपणनन्तरं पितामहः ।

धटम् आमन्त्रयेच् चैवं विधिनानेन शास्त्रवित् ।
त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ॥
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ।
धृतो भावयसे यस्माद् धतस् तेनाभिधीयसे ॥ इति ।

शास्त्रवित् प्राड्विवाकः,

दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।

इति तेनैवोक्तत्वात् । ततः शोध्यो ऽपि तं धटम् आमन्त्रयेत् । तथा च याज्ञवल्क्यः ।

तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥
त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥
यद्य् अस्मि पापकृन् मातः ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ इति ।

त्वं तुले इत्यादिना ऊर्ध्वं माम् इत्य् अन्तेन मन्त्रेण पुनर् आरोपणात् प्राक् तुलाम् अभिमन्त्रयेत् शोध्य इत्य् अर्थः । ततस् तं प्राड्विवाकः पुनर् आरोपयेत् । तथा च नारदः ।

समयैः परिगृह्याथ पुनर् आरोपयेन् नरम् ।
निवाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् ॥

समयैः परिगृह्य तुलाधारकं शपथैर् नियम्येत्य् अर्थः । शपथाश् च तेनैव दर्शिताः ।

ब्रह्मघ्नो ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ये लोकास् तुलां धारयतो मृषा ॥ इति ।

पुनरारोपणानन्तरं नारदः ।

तस्मिन्न् एव कृते लक्ष्ये लक्ष्यं कृत्वा द्विजोत्तमः ।
धर्मपर्यायशब्देन धट इत्य् अभिधीयसे ॥
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः॥
व्यवहाराभिशस्तो ऽयं मानवस् तोल्यते त्वया ।
तद् एनं संशयारूढं धर्मतस् त्रातुम् अर्हसि ॥
देवासुरमनुष्याणां सत्ये त्वम् अतिरिच्यसे ।
सत्यसंधो ऽसि भगवञ् छुभाशुभविभावनैः ॥
आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ इति ।

शोध्यं शिक्ये यथासंनिवेशं निधाय धर्मेत्यादि वृत्तम् इत्यन्तं प्राड्विवाको वदेच् इत्य् अर्थः । मन्त्रोच्चारणानन्तरं पितामहः ।

ज्योतिर्वित् ब्राह्मणश्रेष्ठः कुर्यात् कालपरीक्षणम् ।
विनाड्यः पञ्च विज्ञेयाः परीक्ष्याः कालकोविदैः ॥
साक्षिणो ब्राह्मणश्रेष्टाः यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धाः नियोक्तव्याः नृपेण तु ॥
तेषां वचनतो गम्यः शुद्ध्यशुद्धिविनिर्णयः ॥ इति ।

त्रिशतगुर्वक्षरोच्चारणकालः पञ्चविनाड्यात्मको भवति । तथा च स्मृत्यन्तरम् ।

दशगुर्वक्षरः प्राणः षट्प्राणः स्याद् विनाडिका । इति ।

एवं च ज्योतिर्विद् ब्राह्मणो गुर्वक्षरोच्चारणेन पञ्चविनाड्यात्मककालमानं कुर्यात् । शोध्यस् तावत्कालं तुलाम् आरुह्यासीत । तस्मिन् काले जयपराजयलक्षणैः शुद्ध्यशुद्धिविनिर्णयं नियुक्ताः साक्षिणः कुर्युर् इति पूर्वोक्तवचनानाम् अर्थः प्रत्येतव्यः । कानि पुनर् जयपराजयलक्षणानीत्य् अपेक्षिते नारदः ।

तुलितो यदि वर्धेत विशुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥

यत् पुनः पितामहेनोक्तम्,

हीयमानो न शुद्धः स्याद् एकेषां तु समो ऽशुचिः ।
अल्पपापः समो ज्ञेयो बहुपापस् तु हीयते ॥ इति ।

तत्रैकेषाम् इति पूजनार्थम्, न तु स्वमते समस्थशुद्धित्वद्योतनार्थम् । अल्पपापिनो ऽप्य् अशुचित्वात् । तेन हीयमानसमयोः पराजये न कश्चिद् विशेषः । दण्डे प्रायश्चित्ते च परं विशेषः, दण्डप्रायश्चित्तयोर् दोषानुसारित्वात् । यत् तूक्तं बृहस्पतिना,

धटे ऽभियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।
तत्समस् तु पुनस् तोल्यो वर्धितो विजयी भवेत् ॥

इति, तस्यायम् अर्थः - समस्याश्चुत्वनिश्चयो न प्रथमतोलनपर्याये कार्यः, किं तु पुनस् तोल्यमानस्य तु यदि समस्तैव भवति तदानीम् अशुद्धिर् अवधारणीयेति । एवं शिक्यच्छेदादाव् अपि पुनस् तोल्यमानस्य शुद्धिर् अशुद्धिर् वावधारणीया । तथा च कात्यायनः ।

शिक्यच्छेदे तुलाभङ्गे तथापि तु गुणस्य वा ।
शुद्धेस् तु संशये चैव परीक्षेत पुनर् नरम् ॥

शुद्धेस् तु संशयो नारदेन प्रपञ्चितः ।

तुलाशिरोभ्याम् उद्भ्रान्तं विचलं न्यस्तलक्षणम् ।
यदा वायुप्रपन्नो ऽसौ गच्छत्य् ऊर्ध्वम् अधो ऽपि वा ॥
निर्मुक्तः सहसा वापि तदा नैकतरं व्रजेत् ॥ इति ।

अयम् अर्थः - यदा तुलान्तौ तिर्यक् प्रचलितौ, यदा च समताज्ञानार्थं न्यस्तम् उदकादि चलितम्, यदा च वायुनाप्रेरिता तुला ऊर्ध्वम् अधश् च कम्पते, यदा च तुला धारकेण हस्तात् प्रमुच्यते तदा जयं पराजयं वा न निश्चिनुयाद् इति । यत् पुनस् तेनोक्तम्,

कक्ष्यच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे च मूर्छितः शुद्धिम् आप्नुयात् ॥

इति, तद् अपरिदृश्यमानकारणकशिक्यच्छेदादिविषयम्, दैविकस्यैव शिक्यच्छेदादेः शुद्धिकाणत्वात् (?) । तत्र पितामहः ।

शंसन्ति साक्षिणः सर्वे शुद्ध्यशुद्धी नृपे तथा ।
सद्भिः परिवृतो राजा शुद्धम् आहूय पूजयेत् ॥
ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ।
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ॥
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते । इति ।

इति स्मृतिचन्द्रिकायां धटारोपणविधिः