३५ सर्वदिव्यसाधारणविधिः

अथ सर्वदिव्यसाधारणविधिः

तत्र बृहस्पतिः ।

स्नेहात् क्रोधाल् लोभतो वा भेदम् आयान्ति साक्षिणः ।
विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥

अतो दिव्यं विधिवद् देयम् इत्य् अभिप्रायः । विधिश् च पितामहेन दर्शितः ।

दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥

सर्वकार्याणि साधारणान्य् असाधारणानि चेत्य् अर्थः । तत्र साधारणानि तेनैव दर्शितानि ।

तत आवाहयेद् देवान् विधिनानेन धर्मवित् । इति ।

अनेन वक्ष्यमाणेनेत्य् अर्थः । तम् एव विधिं दर्शयति ।

प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ।
एह्य् एहि भवन् धर्म अस्मिन् दिव्ये समाविश ।
सहितो लोकपालैश् च वस्वाइत्यमरुद्गणैः ॥ इति ।

ततः दिव्योपकल्पनानन्तरम् इत्य् अर्थः, अस्मिन् दिव्य इति मन्त्रलिङ्गात्,

आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ।

इति तेनैवाभिधानाच् च । धटग्रहणम् उपकल्पितदिव्योपलक्षणार्थम्, सर्वदिव्येषुधर्मावानस्याङ्गविन्यासस्य च वक्ष्यमाणत्वात् । अङ्गानि विन्यसेद् इत्य् अस्यार्थः तेनैव दर्शितः ।

इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥
कुबेरस् तु सुवर्णाभः ह्य् अग्निश् चापि सुवर्णभः ।
तथैव निऋतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः ॥
धरो ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ।
प्रत्यूपश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर् मध्य आदित्यानां तथायनम् ।
धातार्यमा च मित्रश् च वरुणो ऽंशुर् भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥
वीरभद्रश् च शम्भुश् च गिरिशश् च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥
भुवनाधीश्वरश् चैव कपाली च विशांपतिः।
स्थाणुर् भगश् च भगवान् रुद्राश् त्व् एकादश स्मृताः ॥
प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
गगनस्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ।
धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥ इति ।

अत्रापि पूर्ववद् धटग्रहणम् उपकल्पितदिव्योपलक्षणार्थम् । एवं यथास्थानम् आवाहितानां देवानां पूजनं कुर्यात् । तथा च स एव ।

एतासां देवतानां तु स्वनाम्ना पूजनं विदुः । इति ।

तत्र च क्रमम् आह स एव ।

भूषावसानं धर्माय दत्वा चार्घ्यादिकं क्रमात् ।
अर्ध्यादि पश्चाद् अङ्गानां (?) भूषान्तम् उपकल्पयेत् ॥

अङ्गीनाम् इन्द्रादिदुर्गान्तानाम् इत्य् अर्थः । तेषाम् अर्ध्याद्युपकल्पनं पदार्थानुसमयेन कार्यम्, न काण्डानसमयेन, तथात्वे प्रयोगवचनावगतसहत्वबाधापत्तेः । दुर्गायौ भूषणं दत्वा धर्मस्येन्द्रादिदुर्गान्तानां च गन्धादिपरिचर्यां पूर्ववत् कुर्यात् । तथा च स एव ।

गन्धादिकां निवेद्यान्तां परिचर्यां कल्पयेत् । इति ।

ततश् चतसृषु दिक्षु चतुर्भिर् होमः कर्तव्यः । तथा च स एव ।

चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥ इति ।

लौकिकम् अग्निं चतुर्दिषु प्रतिष्ठाप्यैकैकस्यां दिश्य् एकैकः ऋत्विक् समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं तत्सवितुर् इति मन्त्रेणोभयतः प्रणवेन स्वाहाकारान्तेन जुहुयाद् इत्य् अर्थः । यद्य् अप्य् अत्र संख्या नोक्ता, तथापि,

अनुक्तसंख्या यत्र स्याच् छतम् अष्टोत्तरंस्मृतम्।

इति स्मृत्यन्तरात् सिद्धेत्य् अवधेयम् । एतत् सर्वं पूर्वाह्णे कर्तव्यं तस्य प्रधानकालत्वात् । तथा च नारदः ।

अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे ।
पूर्वाह्णे सर्वदिव्यानां प्रदानम् अनुकीर्तितम् ॥

यत् तु याज्ञवल्क्येनोक्तम्,

सचेलस्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥

इति, तत्र सूर्योदयपदेन पूर्वाह्ण एव वचोभङ्ग्या विहित इत्य् अवगन्तव्यम् । पूर्वाह्णश् चादित्यवारान्वित एव ग्राह्यः शिष्टाचारबलात् । होमाद् अनन्तरं पितामहः ।

यं चार्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥

अनेन वक्ष्यमाणेनेत्य् अर्थः । तम् एव मन्त्रं दर्सयति ।

आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ इति ।

अयं च विधिः सर्वदिव्यसाधारण इत्य् आह स एव ।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकीर्तितम् ॥

धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं सर्वदिव्येषु कर्तव्यम् इत्य् अर्थः । तथा सर्वदिव्येषु प्रयोगावसाने ऋत्विगादिभ्यो दक्षिणां तुष्टिकरीं दद्यात् । तथा च स एव ।

ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ॥ इति ।

**इति स्मृतिचन्द्रिकायां सर्वदिव्यसाधारणविधिः **