३४ धट-निर्माण-विधिः

अथ धट-निर्माण-विधिः

तत्र नारदः ।

खादिरं कारयेत् तत्र निर्व्रणं शुक्लवर्जितम् ।
शिंशुपां तदलाभे तु सालं वा कोटरैर् विना ॥
अञ्जनस् तिन्दुकीसारं निमिशो रक्तचन्दनम् ।
एवंविधानि काष्ठानि धऋआर्थं परिकल्पयेत् ॥ इति ।

एवंविधानीति वदन् पूर्वोक्तानाम् अलाभे यज्ञियं वृक्षान्तरम् अपि भवतीति दर्शयति । दर्शितं च पितामहेन ।

छित्वा तु यज्ञियं वृक्षं विधिवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥
मन्त्रस् सोम्यो वानस्पत्यच्छेदने जप्य एव तु ॥ इति ।

सौम्यवानस्पत्ययोर् विकल्पः तुल्यकार्यत्वाद् इति कैश्चिद् उक्तम् । तुलाग्रहणं तत्परिकरस्यापि प्रदर्शनार्थम्, तेन पादस्तम्भाद्यर्थम् अपि वृक्षच्छेदनं कार्यम् । अत एव सपरिकरायास् तुलायाः प्रमाणम् उक्तं तेनैव ।

चतुर्हस्ता तुला कार्या पादौ कार्यौ तथाविधौ ।
अन्तरं तुलयोर् हस्तौ भवेद् अध्यर्थ एव वा ॥

पादौ तुलाधारकाष्ठाधारार्थौ स्तम्भौ, तथाविधौ चतुर्हस्तप्रमाणाव् इत्य् अर्थः । एतच् च पादयोः प्रमाणं निखननीयहस्तद्वयाद् उपरितनभागस्य वेदितव्यम् । अतो निखननीयभागेन सह षड्ढस्तौ भवतः । तथा च व्यासः ।

हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोर् द्वयोः ।
षड्ढस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥

अक्षस्य तु प्रमाणं पादयोर् अन्तरालाभिधानेनैवार्थसिद्धम् इति न पृथग् उक्तम् । तेन पादस्तम्भमस्तकदेशात् बहिर् अनिःसृतो यथा भवति तथा हस्तद्वयात् सार्धहस्ताद् वाभ्यधिको ऽक्षः कार्य इत्य् अवगन्तव्यम् । हस्तः पुनश् चतुर्विंशत्यङ्गुल इति स्मृत्यन्तरे दर्शितः ।

तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
हस्तो वितस्तिद्वितयम् । इति ।

यावति तु स्थौल्ये कृते दार्ढ्यं भवति तावत् स्थौल्यं तुलादीनां कार्यम्, विशेषास्मृतेः(?) । आचाराद् वा विशेषः स्थौल्ये वेदितव्यः । तुलायां त्व् अपरे विशेषाः पितामहेन दर्शिताः ।

चतुरश्रा तुला कार्या दृढा ऋज्वी तथैव च ।
कटकानि च देयानि त्रिषु स्थानेष् यत्नतः ॥

कटकानि लोहवलयानि । त्रिषु स्थानेषु उपान्तयोर् मध्ये च । कटकानीत्य् अयोमयानाम् अन्येषाम् अप्य् उपलक्षणार्थम्, तेनोपान्तयोर् आयसकीलकौ शिक्यपाशधारणार्थाविपुवद् (?) वक्राग्रौ कर्कटकशृङ्गसंनिभौ देयौ । मध्ये त्व् आयसपाशो ऽक्षकाष्ठे तुलायोजनार्थो देयः । तथा च नारदः ।

चतुरश्रा स्थितिस्थानैर् धटकर्कटकादिभिः । इति ।

धटशब्देनात्र तुलामध्यसंबन्धी पाशो लक्ष्यते । कर्कटकशब्देनात्र उपान्त्यकीलकौ सादृश्याद् उच्येते । तेनायम् अर्थः - अयोमयैः पाशप्रभृतिभिः स्थितिहेतुभिस् तुलायां भवितव्यम् इति । आदिशब्देनाक्षमध्ये ऽप्य् एकेन कर्कटकेन भवितव्यम् इति दर्शयति । तथा स्तम्भादिस्थापनप्रकारो ऽपि तेन दर्शितः ।

दक्षिणोत्तरसंस्थानाव् उभाव् एकाग्र (कत्र) संयतौ ।
अन्तौ कृत्वा समे देशे तयोः संस्थापयेत् तुलाम् ॥

अस्यार्थः - समायां भूमौ दक्षिणोत्तरभावेन स्थितयोः पादस्तम्भयोर् उभाव् अन्तौ एकत्र अक्षकाष्ठे संघाटितौ कृत्वा तयोः घटकाक्षकाष्ठमध्ये तुलां स्थपयेद् इति । स्थापनं च तत्र कथं कार्यम् इत्य् अपेक्षिते स एवाह ।

आयसेन तु पाशेन मध्ये संगृह्य धर्मवित् ।
योजयेत् तु सुसंयुक्तां तुलां प्रागपरायताम् (?) ॥

प्रागपरायतां पूर्वपश्चिमदीर्घाम् इत्य् अर्थः । प्रागग्रता च कार्येत्य् आह पितामःअः ।

प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा । इति ।

निश्चलत्वसिध्यर्थम् आह नारदः ।

हस्तद्वयं निखेयं तु पादयोर् उभयोस् तथा । इति ।

तथेति वदन् अन्यद् अपि किंचिद् धटाङ्गभूतं तोरणादिकं कार्यम् इति दर्शयति । दर्शितं च पितामहेन ।

तोरणे तु तथा कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चरते स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बकौ ॥
धटं तु कारेयन् नित्यं पताकाध्वजशोभितम् ।
विश्लाम् उच्छ्रितां शुभ्रां धटशालां तु कारयेत् ॥
यत्रस्थो नोपहन्येत बहिश् चण्डालवायसैः ।
तत्रैव लोकपालादीन् सर्वदिक्षू निवेशयेत् ॥
त्रिसंध्यं पूजयेच् चैनान् गन्धमाल्यानुलेपनैः ।
कवाटबीजसंयुक्तां परिचारकरक्षिताम् ॥
मृत्पानीयाग्निसंयुक्ताम् अशून्यां कारयेन् नृपः ॥ इति ।

अत्र शालारचनादिकं धटधारणप्रयुक्तम् एव नोत्पत्तिप्रयुक्तम् इति, धारणानिच्छायाम् अननुष्ठेयम् एवेति कैश् चिद् उक्तम् ॥

**इति स्मृतिचन्द्रिकायां धटनिर्माणविधिः **