३२ ऋतुतो दिव्यव्यवस्था

अथर्तुतो दिव्यव्यवस्था

तत्र पितामहः ।

धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् ।
अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ॥
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ॥ इति ।

धटग्रहणं कोशस्यापि प्रदर्शनार्थम् । कोशस् तु सर्वदा देयः “तुला स्यात् सार्वकालिकः” इति नारदस्मरणात् । कोशग्रहणं तण्डुलप्रभृतीनां प्रदर्शनार्थम् इत्य् उक्तं तद् व्याख्यातृभिः । तेनाग्न्यम्बुविषाणाम् एवर्तुतो व्यवस्था । अत एव तेषाम् एव ऋत्वन्तरप्रतिषेधस् तेन दर्शितः ।

न शीते तोयसिद्धिः स्यात् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते तु तुलां नृपः ॥ इति ।

प्रवाते वातातिशय इत्य् अर्थः । विष्णुर् अपि - “न कुष्ठ्यसमर्थलोहकाराणाम् अग्निर् देयः, शरद्ग्रीष्मयोश् च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम्, प्रावृषि च न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनाम् अम्बुजीविनां चोदकम्, हेमन्तशिशिरयोश् च न नास्तिकेभ्यः कोशो देयः व्याधिमरणोपस्पृष्टे च” इति । हेमन्तग्रहणं पुष्यमासस्य प्रतिषेधार्थम्, न पुनर् मार्गशीर्षस्यापि, तस्य शीतातिशयाभावेनोदकदिव्यविरोधित्वाभावात् । अत्र पितामहः ।

चैत्रो मार्गशिराश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥ इति ।

अत एते मासाः सर्वदिव्यकाला भवन्तीत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां ऋतुतो दिव्यव्यवस्था