३१ विवादिजात्यादितो व्यवस्था

अथ विवादिजात्यादितो व्यवस्था

तत्र बृहस्पतिः ।

ऋणादिकेषु कार्येषु विसंवादे परस्परम् ।
द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥

पुरुषापेक्षया विवादिनोर् जात्याद्यपेक्षयेत्य् अर्थः । तत्र जात्यपेक्षया व्यवस्थाम् अह नारदः ।

ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव तु ।
साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ॥ इति ।

अनित्या चेयं व्यवस्था । यद् आह कात्यायनः ।

सर्वेषु सर्वदिव्यं वा विषवर्जं द्विजोत्तमे ॥ इति ।

लिङ्गसामर्थ्याभाववयोभ्यो ऽपि व्यवस्थाम् आह नारदः ।

क्लीबातुरान् सत्यहीनान् परितश् चार्दितान् नरान् ।
बालवृद्धस्त्र्यन्ध्कांश् च परीक्षेत धटे सदा ॥

नित्या त्व् इयं व्यवस्था, सदेत्य् अभिधानात् । धऋअग्रहणम् अग्न्यम्ब्य्विषाणां परिसङ्ख्यानार्थम्, न पुनः कोशादेर् अपि । यद् आह स एव ।

स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस् तासाम् अन्तस् तत्त्वं विचारयेत् ॥ इति ।

धटकोशादिभिर् इति वदन्न् अग्नेर् अपि प्रतिषेधं दर्सयति । दर्शितं च साक्षाद् अपि तेन ।

न मज्जनीयं स्त्रीबालं धर्मशास्त्रविचक्षणैः ।
रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः ॥
साहसे ऽप्य् आगतान् एतान् नैव तोये निमज्जयेत् ।
न चापि हारयेद् अग्निं न विषेण विशोधयेत् ॥ इति ।

यत् पुनः पितामनेनोक्तम्,

सव्रतानां कृशाङ्गानां बालवृद्धतपस्विनाम् ।
स्त्रीणां तु न भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥

इति, तद् अग्न्यम्बुविषयम्, धटकोशादीनाम् अपि प्रतिषेधे पूर्वोक्तवचनविरोधात् । एवं च क्लीबादीनाम् अग्न्यम्बुविषवर्ज्यानि द्व्यानि भवन्तीत्य् अनुसंधेयम् । तथा लोहकारादीनाम् अपि न सर्वाणि दिव्यानि भवन्तीत्य् आह कात्यायनः ।

न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच् च न क्वचित् ॥
तण्डुलैर् न नियुञ्जीत प्राणिनं मिखरोगिणम् ॥ इति ।

पितामहो ऽपि ।

कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ इति ।

नारदो ऽपि ।

महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥

महापराधे पूर्वसिद्धमाहापराधशालिनीत्य् अर्थः । एवं च क्लीबस्य अग्न्यादिवत् कोशो ऽपि वर्ज्य इत्य् अनुसंधेयम् । यत् पुनः कत्यायनेनोक्तम्,

मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥
एतेष्व् एवाभियोगेषु निन्द्येष्व् एव च यत्नतः ।
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥

इति, तत् तेषां साक्षाद् दिव्यकर्तृत्वनिषेधार्थम्, न पुनर् दिव्येन परीक्षायाः । यतो ऽनन्तरम् एवोक्तम् तेनैव ।

एतैर् एव नियुक्तानाम् साधूनां दिव्यम् अर्हति ।
नेच्छन्ति साधवो यत्र तत्र शोध्यः स्वकैर् नरैः ॥ इति ।

दिव्यम् अर्हति राजा कल्पयितुम् इति शेषः । तथा च स एव ।

एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत् स्वजनैस् तानि नाभिशप्तं त्यजेन् मनुः ॥

त्यजेत् उक्तप्रकारेण विशोधयेद् इति शेषः । यत् पुनस् तेनोक्तम्,

अस्पृश्यधनदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥
तत् प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥

इति, तत् तैर् नियुक्तस्वजनालाभविषयम् इत्य् अवगन्तव्यम् ।

इति स्मृतिचन्द्रिकायां विवादिजात्यादितो दिव्यव्यवस्था