३० धनपरिमाणतो दिव्यव्यवस्था

अथ धनपरिमाणतो दिव्यव्यवस्था

तत्र कात्यायनः ।

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । इति ।

अपह्नवो ऽपलापः । कथं कल्पयेद् इत्य् अपेक्षिते स एवाह ।

सर्वं द्रव्यप्रामाणं (?) तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णस्य सतनाशे विषं स्मृतम् ।
अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दसविनाशे तु कोषपानं विधीयते ॥
पञ्चाधिकस्य वै नाशे तदर्हार्धस्य तण्डुलाः ।
तदर्थार्धविनाशे तु स्पृशेत् पुत्रादिमस्तकम् ॥
तदर्धार्थविनाशे तु लौकिक्यश् च क्रियाः स्मृताः ॥ इति ।

सर्वत्र विनाशशब्दस्यापह्नवार्थता प्रत्येतव्या, “दत्तस्यापनवो यत्र” इत्य् उपक्रान्तत्वात् । विंशद्दशविनाशे त्रिंशद्विनाशे विंशद्नाशे वेत्य् अर्थः । पञ्चभ्यो ऽधिकः पञ्चाधिकः षट्प्रभृतिर् (?) इति यावत् । तदर्धार्धस्य सार्धसुवर्णप्रसृतेर् विनाशे तण्डुलाः । तदर्धार्धविनाशे त्व् अष्टांशोनसुवर्णार्धप्रसृतेर् विनाशे तण्डुलाः । तदर्धार्धविनाशे त्व् अष्टांशोनसुवर्णार्धप्रसृतेर् विनाशे पुत्रदारशिरःस्पर्शनम् । तदर्धार्धविनाशे तु सार्धसप्तकृष्णलप्रसृतेर् विनाशे तु द्रव्याष्टगुणवचनादयो लौकिकाः शपथाः । चशब्दः स्मार्थशब्दानां संग्रहार्थः । अत एव विष्णुः - “सर्वेष्व् एवार्थजातेषु मूल्यं कनकं कल्पयेत् तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत्, द्विकृष्णलोने तिलकरम्, त्रिकृष्णलोने रजतकरम्, चतुःकृष्णलोने सुवर्णकरम्, पञ्चकृष्णलोने सीरोद्धृतमहीकरम्, द्विगुणे ऽर्थे यथाभिहिता समयक्रिया वैश्यस्य, त्रिगुणे ऽर्थे राजन्यस्य, चतुर्गुणे ऽर्थे ब्राह्मणस्य” इति ।सीरोद्धृतमहीकरं लाङ्गलोद्धृतहस्तम् इत्य् अर्थः । ऊनग्रहणम् अधिके शापविनिवृत्त्यर्थम् । शापे तु विशेषम् आह मनुः ।

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥

अस्यार्थः - यद्य् अहम् अर्थापह्नवी स्यां तदा सत्याभिधानधर्मो मम निष्फलः स्याद् इति शपथकारिणं ब्राह्मणं वाचयेत् । एवं क्षत्रियादीन्, सत्याभिधानधर्मो मम निष्फलः स्याद् इत्य् अस्य स्थाने वा हनायुधानि मम निष्फलानि स्युर् इति क्षत्रिये । गोबीजकाञ्चनानि निष्फलानि स्युर् इति वैश्ये । सर्वाणि पातकानि मम स्युर् इति शूद्रे विशेष इति । पादस्पर्शादीनां विषयः स्मृत्यन्तरे दर्शितः ।

निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
ऊनत्रिके तु पुष्पं स्यात् कोशपानम् अतः परम् ॥

निष्कशब्देनात्र काञ्चनकर्षचतुर्थांशो मुद्रामुद्रितः प्रतिपाद्यते । तत्रापि क्वचिद् देशे निष्कस्य व्यवहारात् ।

ननु मनूक्तो माषादिः दिव्यादिविषये ग्रहीतव्य इति नियमान् न व्यावहारिकनिष्कप्रतिपादनं युक्तम् ।
मैवम्, निष्के मनूक्तग्रहणनियमो नास्तीत्य् उक्तत्वात् । किं च तत्र मनूक्तनिष्कस्य राजतपलात्मकस्य मूल्यं काञ्चनकार्षार्धाद् अधिकं भवति । तत्र सत्यवचनविधौ (?) “चतुर्गुणे ऽर्थे ब्राह्मणस्य” इति विष्णुवचनविरोधः स्यात् । चतुर्गुणस्य हि कृष्णलपञ्चकस्य कर्षचतुर्थांशत्वात् । तस्माद् व्यावहारिकनिष्काश्रयेण सत्यवचनादिव्यवस्थोकेति मन्तव्यम् । पारिशेष्याद् इष्टापूर्तादिसुकृतदानम्, जातिशपथविषयाद् अधिके धर्मजदिव्यविषयाद् ऊने धने ऽवगन्तव्यम् । धर्मजस्य तु विषयम् आह बृहस्पतिः ।
शते हृते ऽपह्णुते च दातव्यं धर्मशोधनम् । इति ।

कार्षापणशतप्रभृति निकृष्टस्य, द्विशतप्रभृति मध्यमस्य, चतुःशतप्रभृत्य् उत्तमस्य, धर्मजं दिव्यं भवतीत्य् अर्थः ।

एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु

इति तेनैवाभिधानात् । कार्षापणमूल्यं व्यावहारिकनिष्कस्याशीतितमो भागो भवति । कृष्णलं तु व्यावहारिकनिष्कस्य विंशतितमो भागः । सुवर्णः पुनर् व्यावहारिकनिष्कचतुष्कं भवति । एवं च सर्वदिव्यानां व्यावहारिकनिष्कतो व्यवस्थैवं वेदितव्या । चतुःशतनिष्कप्रभृति विषम्, विंशत्युत्तरत्रिशतनिष्कप्रभ्र्त्य् अग्निः, चत्वारिंशदुत्तरदिविशतनिष्कप्रभृति जलम्, षष्ट्युत्तरशतनिष्कप्रभृति धटः । विंशत्युत्तरशतनिष्कप्रभृति वा चत्वारिंशन्निष्कप्रभृति वा चतुर्विंशतिनिष्कप्रभृति वा भवति । षण्णिष्कप्रभृति तण्डुलाः । पञ्चनिष्कप्रभृत्य् उत्तमस्य धर्मजं दिव्यम्, त्रिनिष्कप्रभृति तण्डुलाः । पञ्चनिष्कप्रभृत्य् उत्तमस्य धर्मजं दिव्यम्, त्रिनिष्कप्रभृत्य् अल्पाभियोगविहितः कोशः, किंचिद् ऊनत्रिनिष्कप्रभृति पुष्पम्, सार्धद्विनिष्कप्रभृति धर्मजं दिव्यम्, मध्यमस्य द्विनिष्कप्रभृति देवताप्रतिमायाः पितुर् ब्राह्मणस्य् पादस्पर्शनम् । सार्धनिष्कप्रभृति पुत्रदारशिरःस्पर्शनम् । पादाधिकनिष्कप्रभृति निकृष्टस्य मध्यमं दिव्यम्, निष्कप्रभृतीष्टापूर्तादिसुकृतदानम्, निष्कदसमांशचतुष्टयप्रभृति लौकिकाः शपथः निष्कविंशतितमांशप्रभृति जातिशपथाः । तेषु दूर्वाकरत्वादिधर्माः यथाविष्णुवचनं बोद्धव्याः । सैषा व्यवस्था धर्मजेतरेषां धटादीनां न धनापहारविषये कल्पनीया । प्रकारान्तरेण धनापहारविषये तेषां यतो व्यवस्थाम् आह बृहस्पतिः ।

विषं सहस्रे ऽपहृते पादोने च हुताशनः ।
त्रिभागोने च सलिलम् अर्धे देयो धटः सदा ॥
चतुःशताभियोगे तु दातव्यस् तप्तमाषकः ।
त्रिशते (?) तण्डुला देयाः कोशश् चैव तदर्धके ॥
शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥ इति ।

अत्र महाभियोगे नियतधटस्य पञ्चशतादिकार्षापणापहारे ऽभिधानात् तदादिकार्षापणसंबन्ध्यभियोगो महाभियोगस् तदादिकोन्यूनकार्षापणसंबन्धी त्व् अल्पाभियोग इत्य् अवगन्तव्यम् । अत एव संग्रहकारः ।

ऋणं वा यदि वा दण्डः प्रायश्चित्तम् अथापि वा ।
यत्र पञ्चशतादिः स्यात् तत् कार्यं गुरु कीर्त्यते ॥
यत्रारभ्य दशभ्यस् एव् एतान्य् आ सैकचतुःशतात् ।
कार्यं तल् लघु निर्दिष्टं स्मृतितन्त्रविशारदैः ॥ इति ।

आ सैकचुअत्ःशताद् आ पञ्चशताद् इत्य् अर्थः । ऋणम् इति विवादास्पदं धनम् अनास्थयोक्तम् । अधनाभियोगमहत्त्वाल्पत्वे तत्र विहितदण्डधनप्रायश्चित्तप्रत्यान्(?)मानधनयोर् अन्यतरसंख्यया प्रत्येतव्ये इति तात्पर्यार्थः । यत् तु याज्ञवल्क्येनोक्तम्,

नासहस्राद् धरेत् फालं न विषं न तुलां तथा ।

इति, तच् चरित्रादितो मध्यमपुरुषा ये भवन्ति तेषां प्रतिषेधार्थम् । अधमानां सहस्राद् अर्वाग् अपहारे ऽपह्नवे वा महाभियोगाभावात् । एवं चोत्तमानां द्विसहस्राद् अर्वाग् अल्पाभियोगत्वाद् धटादिप्रतिषेधो ऽवगन्तव्यः । यत् पुनः पितामहेनोक्तम्,

सहस्रे तु धटं दद्यात् सहस्रार्धे तथायसम् ।
अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥

इति, तत् प्राग्द्ट्ष्टदोषपुरुषविषयम् । यद् आह विष्णुः - “प्राग्दृष्टदोषं स्वल्पे ऽप्य् अर्थे दिव्यानाम् अन्यतमम् एव कारयेत्” इति । एवं चोत्तमस्यापि प्राग्दृष्टदोषस्य सहस्रे ततुर्गुणात् स्वल्पे ऽर्थे धटो भवतीति पितामहवचनस्य तात्पर्यार्थः प्रत्येतव्यः । एवं नृपद्रोहेषु महापातकाभियोगे च स्वल्पे ऽप्य् अर्थे दिव्यानि भवन्तीत्य् आह याज्ञवल्क्यः ।

नृपार्थेष्व् अभिशापे च वहेहुः शुचयः सदा । इति ।

विष्णुर् अपि - “अथ समयक्रिया राजद्रोहे साहसेषु यथाकामम्” इति । समयक्रिया धऋआदिदिव्यकरणम् । तथा च गोबलीवर्दन्यायेन धटादिकम् एवात्राह बृहस्पतिः ।

एते तु शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकराः सदा ।
साहसेष्व् अभिशापेषु दिव्यान्य् आहुर् विशोधनम् ॥ इति ।

एवं च साहसादौ सत्यादयः शपथाः कदाचिद् अपि न भवन्तीति मन्तव्यम् । अपहारे ऽपि व्यावहारिकनिष्कसंख्यया व्यवस्था व्याख्यास्यते -

उत्तमस्य पुरुषस्य पञ्चाशन्निष्कप्रभृति विषम्, निष्ङार्धाधिकसप्तत्रिंशन्निष्कप्रभृत्य् अग्निः, यवोनसप्तकृष्णलाधिकत्रयस्त्रिंशन्निष्कप्रभृतु जलम्, पञ्चविंशन्निष्कप्रभृति धटः, विंशतिनिष्कप्रभृतितप्तमाषः, पञ्चदशनिष्कप्रभृति तण्डुलाः, निष्कार्धाधिकसप्तनिष्कप्रभृति कोशः, पञ्चनिष्कप्रभृति धर्मजं दिव्यम्, गोव्यक्तिचतुष्टयम्प्रभृति पालम् ।
मध्यमस्य तु पुरुषस्य पञ्चविंशतिनिष्कप्रभृति विषम्, सपादनिष्कोनविंशतिनिष्कप्रभृत्य् अग्निः, यवसहितत्रयोदशकृष्णलाधिकषोडशनिष्कप्रभृति जलम्, निष्कार्धादिकद्वादशनिष्कप्रभृति धटः, दशनिष्कप्रभृति तप्तमाषः, निष्कार्धाधिकसप्तनिष्कप्रभृति तण्डुलाह्, निष्कपादोनचतुर्निष्कप्रभृति कोशः, सर्धद्विनिष्कप्रभृति धर्मजं दिव्यम्, गोव्यक्तिद्वयप्रभृति फालम् ।
निकृष्टस्य तु पुरुषस्य सार्धद्वादशनिष्कप्रभृति विषम्, सार्धसप्तकृष्णलाधिकनवतिनिष्कप्रभृत्य् अग्निः, यवोनसप्तकृष्णलाधिकाष्टनिष्कप्रभृति जलम्, सपादषण्णिष्कप्रभृति धटः, पञ्चनिष्कप्रभृति तप्तमाषः, पादोनचतुर्निष्कप्रभृति तण्डुलाः, पादार्धोनद्विनिष्कप्रभृति कोशः, सपादनिष्कप्रभृति धर्मजं दिव्यम्, एकगोव्यक्तिप्रभृति फालम् ।
प्राग्दृष्टदोषाणाम् उक्तावधिभ्यो ऽल्पधने ऽपि तत् तद् दिव्यं देयम् । नृपद्रोहाभिशापसाहसेषु च तथैव देयम् । सत्यादिपुष्पादिशपथानां तु व्यवस्थाविशेषस्य अत्रादर्शनाद् अपह्नव (?) इव व्यवस्थास्थेया, विष्णुवचने स्मृत्यन्तरवचने चापह्नव इति विशेषस्मरणाच् चेति ॥

इति स्मृतिचन्द्रिकायां धनपरिमाणतो दिव्यव्यवस्था