२९ अभियोगाल्पत्व-महत्त्व-ज्ञानम्

अथाभियोगाल्पत्व-महत्त्व-ज्ञानोपयोगीनि कानिचिद् वचनानि लिख्यन्ते

तत्र मनुः ।

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥

दण्डदिव्यशास्त्रार्थव्यामोहापनुपत्तये (?) ताम्रादीनां परिमाणनिबन्धनाः संज्ञाः प्रदर्श्यन्त इत्य् अर्थः । प्रतिज्ञातार्थं दर्शयति ।

जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥
सर्षपाः षड्यवो मधस् त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलको माषः ते सुवर्णस् तु षोडश ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥
ते षोडश स्याद् धरणं पुराणं चैव राजतम् ।
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतम् ।
चतुःसुवर्णको निष्को विज्ञेयस् तु प्रमाणतः ॥ इति ।

एतेषां श्लोकानां तात्पर्यार्थः प्रातिलोम्येनोच्यते । निष्कशतमानशब्दाव् एकपले रूप्यद्रव्ये वर्तेते । अत एव रूप्यसंज्ञाधिकारे,

शतमानं तु दशभिः धरणैः पलम् एव तु ।
निष्कः सुवराश् चत्वारः,

इति याज्ञवल्क्येनोक्तम् । पणकार्षापणसब्दौ पलचतुर्थांशकर्षस्य ताम्रद्रव्यस्य नामधेयम् । पुराणधरणशब्दौ पलदशमांशस्य रूप्यद्रव्यस्य नामनी । कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्य मापसंज्ञा । दशपलस्य धरणसंज्ञा । सा च रजतेतरद्रव्यविषये वेदितव्या । राजतधरणस्याल्पपरिमाणत्वात् पलसंज्ञा सर्वद्रव्यविषये ऽवगन्तव्या, विशेषास्मृतेः । सुवर्णशब्दस् तु काञ्वनकर्षवचनः “सुवर्णविस्तौ हेम्नोक्षे” इत्य् अमरसंहेन विशेषितत्वात् । अक्षेकर्ष इत्य् अर्थः “ते षोडशाक्षः कर्षो ऽस्त्री” इति तेनैवोक्तत्वात् ।कर्षषोडशभागस्य माषसंज्ञा । सा च रूप्यद्रव्याद् अन्यत्र विज्ञेया, रूप्यमाषकस्य कर्षचत्वारिंशत्तमांशत्वात् । कृष्णलशब्दस् तु कार्षाशीतिभागवाची, माषपञ्चमांशत्वात् । एवं सर्षपलिक्षात्रसरेणुपदार्थेष्व् अपि द्रव्येयत्ता स्वयम् ऊहनीया । “यवो मध्यः” इत्य् अत्र मध्यसब्दः श्लोकपूरणार्थ इत्य् उक्तं तद्भाष्ये । त्रसरेणौ पद्मरजःसंज्ञापि पुराणे दर्शिता ।

अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुः समाख्यातस् तत् पद्मरज उच्यते ॥ इति ।

माषशब्दः कार्षापणस्य विंशतितमे भागे वर्तत इत्य् आह कात्यायनः ।

माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागा माषकस्य पणस्य च ॥
पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी ॥ इति ।

सुवर्णशब्दो द्वादसपलवाचीत्य् आह बृहस्पतिः ।

ताम्रकर्षकृता मुद्रा विज्ञेयः काषिकः पणः ।
स एव चाण्डिका प्रोक्ता ताश् चतस्रस् तु धानका ॥
ता द्वादश सुवर्णास् तु दीनाराख्यः स एव तु ॥ इति ।

कात्यायनो ऽपि ।

कार्षापणो ऽण्डिका ज्ञेया ताश् चतस्रस् तु धानकः ।
ते द्वादश सुवर्णास् तु दीनारश् चित्रकः स्मृतः ॥ इति ।

पले तु विकल्पो याज्ञवल्क्येन दर्शितः ।

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् । इति ।

राजतो ऽपि कार्षापणो ऽस्तीत्य् आह नारदः ।

कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । इति ।

व्यासस् तु सौवर्णनिष्कस्य प्रमाणम् आह ।

पलान्य् अष्टौ सुवर्णस्य सुवर्णाश् च चतुर्दश ।
एतन् निष्कप्रमाणं तु व्यासेन परिकीर्तितम् ॥ इति ।

अत्र मनूक्तप्रमाणान्तरमाxआदिः दिव्यदण्डविषये देशव्यवहारविरोधे ऽपि ग्राह्य एव । तथा च बृहस्पतिः ।

संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्तो सा दिव्ये नियोज्या विनये तथा ॥ इति ।

कार्षापणान्तग्रहणं निष्कप्रमाणे तु नायं नियम इति प्रतिपादनार्थम् । तेन निष्कान्तरेण दिव्यं किंचिद् उत्तरत्रोच्यमानम् अविरुद्धम् ।

**इति स्मृतिचन्द्रिकायाम् अभियोगालपत्वमत्त्वज्ञानोपयोगीनि **