२८ दिव्यनिरूपणम्

अथ दिव्यनिरूपणम्

तत्र पितामहः ।

यस्मिन् यस्मिन् विवादे तु साक्षिणां नास्ति संभवः ।
साहसेषु विशेषेण तत्र दिव्यानि दापयेत् ॥

साक्षिग्रहणं मानुषप्रमाणोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

प्रमाणं लिखितं भुक्त्ः साक्षिणश् चेति कीर्तितम् ।
तेषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥

एषाम् अन्यतमाभाव इति युक्त्यभावस्याप्य् उपलक्षणार्थम् । अत एव नारदः ।

युक्तिष्व् असमर्थासु शपथैर् एव निर्णयेत् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥

अर्थापेक्षं सिषाधयिपितार्थाल्पत्वमहत्त्वरूपम् इत्य् अर्थः । तथा च व्यासः ।

अर्थानुरूपाः शपथाः स्मृताः सत्यधटादयः ॥ इति ।

तत्रार्थाल्पत्वानुरूपाः सत्यादय इत्य् आह बृहस्पतिः ।

सत्यं वाहशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादाश् च पुत्रदारशिरांसि च ॥
एते तु शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकराः सदा ॥ इति ।

स्वल्पे ऽर्थे इति स्वल्पपीडाया अप् सिषाधयिषितायाः प्रदर्शणार्थम् । अत एव सामान्येनोक्तं नारदेन ।

सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादाश् च दत्तानि सुकृतानि च ।
इत्य् एते शपथाः प्रोक्ताः मनुना स्वल्पकारणे ॥ इति ।

स्वल्पकारणे स्वल्पापराध इत्य् अर्थः । सुकृतानि चेति चशब्देनान्ये ऽपि लोकप्रसिद्धाः शपथाः संगृह्यन्ते । अत एव शङ्खलिखितौ “इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत्” इति । यत् पुनर् नारदेनोक्तम्,

कारणे महति प्रोक्तं दिव्यं वादार्थिनां नृणाम् ।

इति, यद् अपि पितामहेन,

महापराधे दिव्यानि दापयेत् पृथिवीपतिः ।

इति, तत् तुलादिदिव्यविषयम् । यद् आह याज्ञवल्क्यः,

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥ इति ।

अग्निशब्देन तप्तायःपिण्डस् तप्तमाषस् तप्तफालं च निर्दिस्यते सामान्येनाभिधानात् । तेन तप्तमाषफाले अप्य् अस्माद् एव वचनात् महाभियोगे शीर्षकस्थे चाभियोक्तरि विहिते इति बोद्धव्यम् । शीर्षकं विवादपराजयनिबन्धनो दण्डः, व्यवहारशिरस्थानीयत्वात्, तत्र तिष्ठतीति शीर्षकस्थः । एतद् उक्तं भवति “न महाभियोगमात्रे तुलादीनि भवन्ति, किं तु यत्रैतस्य जये ऽहम् इत्थं दण्ड्य इति शरीरदण्डम् अर्थदण्डं वा मिथ्याभियोगिनो विहितम् अभियोक्ता स्वकृताभियोगदार्ढ्यख्यापनायाङ्गीकुरुते तत्रैव, इति । अत एव नारदः ।

शिरोवर्ती यदा न स्यात् तदा दिव्यं न दीयते । इति ।

शिरोवर्ती यदा न स्याद् अभियोक्तेत्य् शेषः । तथा च पितामहः ।

अभियोक्ता शिरस्थाने दिव्येषु परिकल्प्यते ।
अभियुक्ताय दतव्यं दिव्यं स्रुतिनिदर्शनात् ॥

दिव्यं धटादिपञ्चकेष्व् अन्यतमम्, “एतानि” इति याज्ञवल्क्येन विशेषितत्वात् । अत एव नारदः ।

यथाविधानेन सदा पञ्च दिव्यानि धर्मतः ।
ददद् राजाभियुक्तानां प्रेत्य चेह च नन्दति ॥

अनेन अभियोक्तॄणाम् एतानि दिव्यानि भवन्तीत्य् अर्थाद् उक्तम् । उक्तं च कात्यायनेन ।

न काश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥

कश्चित् सभापत्यादिः । दिव्यविशारदाः प्राड्विवाकादयः । अनेनार्थिप्रत्यर्थिनोर् अन्यतरेच्छया दिव्याङ्गीकारे नायं नियम इत्य् अर्थाद् उक्तम् । उक्तं च याज्ञवल्क्येन ।

रुच्या वान्यतरः कुर्याद् इतरो वरतेच् छिरः । इति ।

नारदेनाप्य् उक्तम् ।

अभियोक्ता शिरस्थाने सर्वत्रैव प्रकल्पितः ।
इच्छया त्व् इतरः कुर्याद् इतरो वर्तयेच् छिरः ॥

सर्वत्र शिरोवति दिव्यपञ्चक इत्य् अर्थः । अभियुक्तस्य शिरोवर्तनम् अनपलापदार्ढ्यख्यापनार्थम् । अत एव एतस्य जये ऽहम् इत्थं दण्ड्य इत्य् अपलापिनो विहितदण्डाङ्गीकरः । तथा क्वचिद् विषये न को ऽपि शिरो वर्तयेद् इत्य् आह स एव ।

शिरोऽवस्थायिनि नरे अभियोक्तर्य् उपस्थिते ।
दिव्यप्रदानम् उचितम् अन्यत्र नृपशासनात् ॥

नृपशासनात् नृपाज्ञया त्व् अशिरांस्य् अपि धटादीनि भवन्ति । तथा च स एव ।

अशिरांसि च दिव्यानि राजा भृत्येषु दापयेत् । इति ।

याज्ञवल्क्यस् त्व् अपराधविशेषे शिरोऽवस्थाननियमस्याप्य् अपवादम् आह ।

विनापि शीर्षकात् कुर्यात् नृपद्रोहे ऽथ पातके ।

शीर्षकात् शीर्षकवर्तनाद् इत्य् अर्थः । तथा विष्णुः - “राजद्रोहसाहसेषु विना शीर्षकवर्तनात्” इति । तुलादीनि नियोज्यानीति शेषः । तथा च कात्यायनः ।

पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।
आत्मशुद्ध्विधाने च न शिरस् तत्र कल्पयेत् ॥
लोकापवाददुष्टानां शङ्कितानां च सस्युभिः ।
तुलादीनि नियोज्यानि न शिरस् तत्र वै भृगुः ॥ इति ।

दस्युभिः सह वासेन शङ्कितानाम् इत्य् अर्थः । यत् पुनस् तेनोक्तम्,

न शङ्कासु शिरः कोशे कल्पयेत् तु कदाचन ।

इति, तच् छङ्काभियोगे कोशस्य ऋणादाव् अप्य् अशिरस् त्व् अनियमार्थम्, कदाचनेत्य् अभिधानात् । शङ्काभियोगे च कोशो व्यासेनाभिहितः ।

धटो ऽग्निर् विषतोयं च प्रमाणं तु चतुर्विधम् ।
दैविकस्य प्रभेदो ऽयं कोशः शङ्कासु पञ्चमः ॥

शङ्कास्व् इति विश्वासादीनां प्रदर्शनार्थम् । अत एव कात्यायनः ।

शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥

पितामहो ऽपि ।

विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥

कोशः शिरोरहित इति शेषः । तथा च स एव ।

शिरःस्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
धटादीनि विषान्तानि कोश एको ऽशिराः स्मृतः ॥

शङ्काभियोगादिविषय इति शेषः । महातत्त्वाभियोगे कोशो ऽपि शिरःस्थायिविहीनो वर्ज्य एव । “शीर्षकस्थे ऽभियोक्तरि” इति पञ्चदिव्यशेषतया याज्ञवल्क्येनोक्तत्वात् । महातत्त्वादियोगेष्व् अपि राजप्राड्विवाकेतरसभायां तु न धटादिदिव्यपञ्चके शिरःकल्पनम् अस्ति ।

वाग्दण्डो धिग्दमश् चैव विप्रायत्ताव् उभौ स्मृतौ ।
अर्थदण्डवधाव् उक्तौ राजायत्ताव् उभाव् अपि ॥ इति ।

राजप्राड्विवाकसभायाम् एव दण्डस्य् व्यवहारशिरःस्थानीयस्योक्तेः । ततश् च,

शिरःस्थायिविहीनानि दिव्यानि परिवर्जयेत् ।

इत्यादिवचनं राजप्राड्विवाकसभाविषयम् एवेति मन्तव्यम् । एवं च यत् पितामहेन “मिथ्याक्रिया पूर्ववादे” इत्य् अस्यान्यथाकरनार्थम् उक्तम्,

अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् ।

इति, तद् अपि राजप्राड्विवाकसभाविषयम् एवेत्य् अवगन्तव्यम्, न तद्व्यतिरिक्तसभायाम् । अत एव “मिथ्याक्रिया पूर्ववादे” इति वचनोक्तार्थानतिक्रमेण सभैर् दिव्याभिधानं क्रियमाणं युक्तम् इति लिखितादिवद् एव भवतीति मन्तव्यम् । न च,

तण्डुलाश् चैव कोशश् च शङ्कास्व् एतौ नियोजयेत् ।

इति पितामहवचने तण्डुलसाहचर्याच् छङ्कास्व् एव कोश इति शङ्का कार्याः । “शीर्षकस्थे” इत्यादिपूर्वोक्तयाज्ञवल्क्यवचनविरोधापत्तेः । तण्डुलसाहचर्यं त्व् अल्पाभियोगे ऽपि कोशो भवतीति ज्ञापनार्थम् । अत एव नारदः “कोशम् अल्पे पि दापयेत्” इति । एवं च “महाभियोगेष्व् एतानि” इति याज्ञवल्क्येनोक्तो नियमस् तुलादिविषान्तविषय एवेत्य् अनुसंधेयम् । कोशस्यापि नियमे पूर्वोक्तनारदवचनविरोधः स्यात् । अत एव संग्रहकारः ।

धटादीनि विषान्तानि गुरुष्व् अर्थेषु दापयेत् । इति ।

यत् पुनस् तेनोक्तम्,

कोशादीनि पुनस् त्रीणि लघ्वर्थेषु यथाक्रमम् ।

इति, तदपहार एव लघ्वर्थनियमकथनार्थम्, न पुनर् अपह्नवे ऽपि (?), कोशतण्डुलतप्तमाषाणां गुर्वर्थापह्नवे विहितत्वेन लघ्वर्थेष्व् एवेति नियमासंभवात् । लघ्वर्थेष्व् अपि शङ्कास्व् एव तण्डुलाः

तण्डुलाश् चैव कोशश् च शङ्कास्व् एतौ नियोजयेत् ।

इति पितामहस्मरणात् । तप्तमाषो ऽपि लघ्वर्थेषु शङ्कायाम् एव,

अल्पचौर्यादिशङ्कायां तप्तमाषकम् आदिशेत् ।

इति तेनैव स्मृतत्वात् । फालम् अपि क्वचिल् लघ्वर्थे प्रदातव्यम् । तथा च बृहस्पतिः ।

गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः । इति ।

एवं च,

महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ।

इति नियमो ऽग्नाव् उच्यमानो ऽयःपिण्डाग्निविषयो न तप्तमाषफालाग्निविषय इत्य् अवगन्तव्यम् । अत एवाग्निदिव्यानां पृथङ्निर्देशो बृहस्पतिना कृतः ।

धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमम् ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥
अष्टमं फालम् इत्य् उक्तं नवमं धर्मजं भवेत् ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥ इति ।

धर्मजं तु महाभियोगबहिष्कृतत्वाल् लघ्वर्थेष्व् एव नियतम् इति मन्तव्यम् । यत् तु पितामहेनोक्तम्,

हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।
संदिग्धे ऽर्थे ऽभिशस्तानां धर्माधर्मपरीक्षणम् ॥

तस्यायम् अर्थः । हिंसाधनपातकाद्यभियोगेष्व् अल्पेष्व् अभिशस्तानां धर्मजं दिव्यम् इति ॥

इति स्मृतिचन्द्रिकायां दिव्यनिरूपणम्