२७ असाक्षिप्रत्ययाः

अथासाक्षिप्रत्ययाः

तत्र नारदः ।

असाक्षिप्रत्ययास् त्व् अन्ये षड्विवादाः प्रकीर्तिताः ।
लक्षणान्य् एव साक्षित्वम् एषाम् आहुर् मनीषिणः ॥

अग्निदत्वादिविवादेषूल्काहस्तत्वादिचिह्नान्य् एव साक्षिकर्यंकुर्वन्तीत्य् अर्थः । तथा च स एव ।

उल्काहस्तो ऽग्निदो ज्ञेयः सस्त्रपाणिस् च घातुकः ।
केशाकेशी गृहीतश् च युगपत्परदारिकः ॥
कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारपाणिस् तु वनच्छेत्ता प्रकीर्तितः ॥
प्रत्यग्रचिह्नैर् विज्ञेयो दण्डपारुष्यकृन् नरः ।
असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥ इति ।

प्रत्यग्रचिह्नैः नूतनक्षतादिभिः । असाक्षिप्रययाः विनापि साक्षिभिश् चिह्नैर् एव विगतसंशयाः, पारुष्ये तु परीक्षणं दण्डपारुष्ये कृत्रिमचिह्नविवेकाय परीक्षणं कर्तव्यम् इत्य् अर्थः । तथा च स एव ।

कश् चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् उपद्रवेत् ।
युक्तिहेत्वर्थसंबन्धैस् तत्र युक्तं परीक्षणम् ॥

तत्र पारुष्य इत्य् अर्थः ।

नन्व् इदम् अनर्थकं वचः,
तलवद् दृश्यते व्योम खद्य्तो हव्यवाड् इव ।
न तलं विद्यते व्योम्नि न खद्योतो हुताशनः ॥
तस्मात् प्रत्यक्षदृष्टे ऽपि युक्तम् अर्थण् परीक्षितुम् ।
परीक्ष्य ज्ञापयन्न् अर्थान् अधर्मात् परिहीयते ॥

इति, उल्काहस्तादौ सर्वत्र परीक्षणस्य तेनैव विहितत्वात् ।

सत्यम् । तत्रैवोपायविधानार्थं परीक्षणम् अनूद्यत इत्य् अदोषः । एवं चौर्यविवादो ऽपि काचिद् असाक्षिप्रत्ययो ऽवगन्तव्यः । तथा व शङ्खलिखितौ - “केशाकेशी सङ्ग्रहणात् पारदारिकः उल्काहस्तो ऽग्निदः शस्त्रपाणिर् घतुकः लोप्त्रहस्तश् चोरः” इति । लोप्त्रम् अपहृतैकदेशादिलिङ्गम्, अत्रापि परीक्षणं कार्यम् । तथा च नारदः ।
यात्य् अचोरो ऽपि चोरत्वं चोरश् चायात्य् अचोरताम् ।
अचोरश् चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ इति ।

अतः परीक्षणम् आवश्यकम् इत्य् अभिप्रायः । अत एव बृहस्पतिः ।

लिखिते साक्षिवादे च संदेहो यत्र जायते ।
अनुमाने च संभ्रान्ते तत्र दैवं विशोधनम् ॥

अनुमानम् उल्खाहस्तत्वादियुक्तिः ।

अनुमानं विदुर् हेतुस् तर्कश् चेति मनीषिणः ।

इति व्यासस्मरणात् ॥

**इति स्मृतिचन्द्रिकायाम् साक्षिप्रत्ययाः **