२६ साक्षिविषयान्तरम्

अथान्यान्य् अपि साक्षिविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र याज्ञवल्क्यः ।

न ददाति हि यत् साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥

यो विप्रतिपन्नम् अर्थं परमार्थतो जानन्न् अपि दौरात्म्यात् साक्ष्यं नाङ्गीकरोति असौ कूटसाक्षिवत् पापी दण्ड्यश् चेत्य् अर्थः । नारदो ऽपि ।

श्रावयित्वा ततो ऽन्येभ्यः साक्षित्वं यो विनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥

यदा पूर्वम् अहं साक्षीति स्रावितः साक्षिणाम् आगमनकाले अहं न साक्षीत्य् अपलपति असाव् अत्यर्थं दण्ड्य इत्य् अर्थः । बृहस्पतिर् अपि ।

अहूतो यस् तु नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥

वसिष्ठो ऽपि ।

यः साक्षी नैव निर्दिष्टो नाहूतो नैव चोदितः ।
ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ऽपि नराधमः ॥

कात्यायनः ।

अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।
साक्षिणः संनिरोद्धव्याः गर्ह्या दण्ड्याश् च धर्मतः ॥
वाक्पारुष्ये छले वादे दाप्याः स्युस् त्रिशतं दमम् ।
ऋणादिवादेषु धनं ते स्युर् दाप्या ऋणं तथा ॥ इति ।

धनं दण्डधनम् । त इत्य् सरनाम्ना प्रश्नस्योत्तरम् अकथयन्त एव प्रत्यवमृश्यन्ते, तेषाम् अत्यर्थं प्रकृतत्वात् । अत एवाह स एव ।

साक्षी साक्ष्यं न चेद् ब्रूयात् समदण्डं वहेद् ऋणम् ।
अतो ऽन्येषु विवादेषु त्रिशतं दण्डम् अर्हति ॥

अन्येषु ऋणादितो ऽन्येष्व् इत्य् अर्थः (?) । तथा च मनुः ।

त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दसबन्धं च सर्वतः ॥

अगदः स्वस्थः, तद् ऋणं साक्षिरूपप्रमाणसाध्यं धनम्, सर्वं सवृद्धिकं प्राप्नुयात् दाप्य इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्याच् छट्चत्वारिंशत्तमे ऽहनि ॥ (??)

दशबन्धशब्धेन दशम्ॐश उच्यते । स च दण्डत्वाद् राज्ञा ग्राह्यम् इत्य् उक्तं व्याख्यातृभिः । अत्राधमर्णेन न किंचिद् दातव्यम्, तद् देयम् एव अब्रुवन् साक्षी दाप्य इति पूर्ववचनस्य तात्पर्यार्थत्वात् । न चाब्रुवता साक्षिणा स्वेन दत्तम् अधर्मणतो ग्राह्यम्, स्वापराधेन दत्तत्वात् । षट्चत्वारिंशत्तमे ऽहनीति ग्रहणात् ततो वार्ब्रुवन् (?) न दाप्य इति गम्यते । अत एव कात्यायनः ।

सम्यक्क्रियापरिज्ञाने देयः कालस् तु साक्षिणम् ।
संदिग्धं यत्र साक्ष्यं तु सद्यः स्पष्टं विवादयेत् ॥

एवं च यद् उक्तं तेन,

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥

इति, तत् स्पष्टसाक्षिविषयम् इत्य् अवगन्तव्यम्, संदिग्धसाक्ष्ये कालदानविधानात् । यः पुनः साक्षी प्रश्नवाक्यं श्रावितः सन् वादकाले रागद्वेषान्धो नाहम् अत्र साक्षी भवमीति स्वसाक्षित्वम् अपलपति तस्य दण्डम् आह याज्ञवल्क्यः ।

यः साक्ष्याम् श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः ।
स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥

विवादाद् इत्य् अनुषज्यते । तेन विवादपराजयो दण्डः, तम् अष्टगुणं दाप्य इत्य् अर्थो ऽवगन्तव्यः । विवासयेद् इत्य् अस्य नग्नीकरणं गृहभङ्गः, स्वराष्ट्रबहिष्कारो वार्थः । अत्र तु दण्डाविवृद्धिसाहचर्यात् स्वराष्ट्रबहिष्काररूपो ऽर्थः प्रत्येतव्यः । कात्यायनस्मृत्या साक्ष्यं पुनर् अन्यथा पुनर् अन्यथा ब्रुवाणा अपि साक्षिणो दण्ड्या इत्य् आह ।

उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः । इति ।

गौतमस् तु प्रथमत एव “अन्यथा ब्रुवाणो गर्ह्यो दण्ड्य्श् च” इत्य् आह । “मिथ्यावचने दाप्यो दण्ड्यस् च साक्ष्ये” इति । याज्ञवल्क्यस् त्व् एवंविधसाक्षिणो दण्डे विशेषम् आह ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥

कृटं साक्ष्यं कुर्वन्न् इति कूटकृतः मिथ्यावादिन इति यावत् । ते राज्ञा पृथक् पृथग् दण्डनीयाः । विवादपराजयनिबन्धनदमात् द्विगुणं दमम् इत्य् अर्थः । विवास्यो ब्राह्मण इत्य् अविशेषेणोक्ते ऽपि यत्र क्षत्रियादीनाम् अल्पधनेन द्विगुणो दमः सम्पद्यते, तत्र ब्राह्मणस्य नग्नीकरणरूपविवसनं दण्डः । यत्र तु बहुधनेन क्षत्रियादीनाम्, तत्र स्वराष्ट्रबहिष्काररूपविवासनं ब्राह्मणस्येति मन्तव्यम्, दण्डतारतम्यस्य दोषतारतम्यानुविधायित्वात् । अत एव मनुनानृतबीजनिबन्धनदोषतारतम्यानुसारेण दण्डवैचित्र्यम् उक्तम् ।

लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥
तेषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।
भयाद् वै मध्यमो दण्डो मैत्रात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानात् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥
एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिणः ॥ इति \

लोभो ऽर्थपर्तवम् । मोहः सम्यक्प्र**र्थानवधारणम् । भयम् अनिष्टप्राप्तिशङ्का । मैत्री स्नेहातिसयः । कामो रतिविषयाभिलाषः । क्रोधो ऽमर्षः । अज्ञानं समक्षदर्शनश्रवणसमय एवान्यथाज्ञानम् । बालिश्यम् अप्राप्तबुद्धिस्थैर्यम् । अत्र लोभभयमैत्रनिमित्तानृते तुल्यदोषे वचोभङ्ग्योत्तमसाहस उक्तः । कामतो ऽनृते तु ततो दोषबाहुल्यात् सार्धोत्तमसाहसद्वयम् उक्तम् । क्रोधनिमित्ते पुनस् ततो ऽपि दोषबाहुल्याद् उत्तमसाहसत्रिकम् उत्तमम् । मोहे त्व् अल्पदोषत्वात् प्रथमसाहस उक्तः । अज्ञाने तु ततो ऽल्पदोषत्वात् कार्षापणशतद्वितयम् उक्तम् । बालिश्ये पुनस् ततो ऽप्य् अल्पदोषत्वात् तदर्थम् एवोक्तम् इति मन्तव्यम् । इदं च दण्डवैचित्र्यं ब्राह्मणस्यापि कूटसाक्षिणो ज्ञेयम् “एतान् आहुः कौटसाक्ष्ये” (म्ध् ८।१२२) इत्य् अविशेषस्मृतेः ।

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ इति ।

कौटसाक्ष्यावृत्तिविषये ब्राह्मणस्य विशेषस्मरणाच् च । कः पुनर् अत्र विशेषः । न तावद् दण्डयित्वा प्रवासनं क्षत्रियादेः । ब्राह्मणस्य तु प्रवासनमात्रम् इति विसेषो युक्तः, सकृत् कृते ऽपि कौटसाक्ष्ये ब्राह्मणस्य याज्ञवल्क्येन प्रवासनविधानात् अभ्यासे ऽधिकदण्डानुक्तिप्रसक्तेः । अतो यत् कैश्चिद् उक्तं तुसब्दो ब्राह्मणे धनदण्डनिवृत्त्यर्थ इति, तद् अपास्तम् । कथं तर्हि ब्राह्मणे दण्डविशेष उक्तः (?) । उच्यते । प्रवासशब्देनात्र दन्तछन्द्च्छेदनं (?) जिह्वाच्छेदो मारणं चोच्यते । विवासशब्देन तु नग्नीकरणादिकम् । तेन दण्डयित्वेत्य् अस्यानुषङ्गे ऽपि विशेषोक्तिर् युक्ता । प्रवासनविवासनावान्तरभेदाद् दन्तच्छदद्धेदादयो नग्नीकरणादयश् च कौटसाक्ष्यविषयानुसारेणाभ्याससंख्याविवृद्ध्यनुसारेण चनुसंधातव्याः । अनवधारितहेतुके कौटसाक्ष्ये सकृत् कृते “पृथक् पृथक्” इत्यदिवचनोक्तो याज्ञवल्कीयो दण्डः, अन्यत्र मानव इति चानुसंधेयम् । यत् पुनर् विष्णुनोक्तम् “कूटसाक्षिणां सर्वस्वापहारः कार्यः” इति, तद् भूम्यनृतविषयम् इति कैश्चिद् उक्तम्, शूद्राद्यस्हर्मजातिविषयं वा द्रष्टव्यम् । कूऋअसाक्षिग्रहणं तन्निर्देसकस्यापि प्रदर्शनार्थम् । अत एव कात्यायनः ।

येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥

निर्विषयं स्वदेशान् निर्वासनम् । येन पुनः निर्दिष्टसाक्षिणां कूटत्वायोद्यमः कृतः स हीनो भवतीत्य् आह नारदः ।

न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः ।
भेदयेत न चान्येन हीयेतैवं समाचरन् ॥

तेन तथा चरन्तं हीनदण्डेन दण्डयेद् इत्य् अभिप्रायः । एवं कूटसाक्षिणं तन् निर्देशकं दण्डयित्वा च कूटसाक्षिवचनान् निर्णीतं कार्यं निवर्तनीयम् । तथा च मनुः ।

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥

कस्मिन् पुनः कार्ये कौटसाक्ष्यं भवतीत्य् अपेक्षिते याज्ञवल्क्यः ।

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥

अस्यार्थः - यत्रार्थिना संनिहिता असंनिहिताश् च बहवः साक्षिणो निर्दिष्टाः, तत्रासंनिहितानयने क्लेशम् आलोच्य यदा संनिहितैर् एवालम् इत्य् अङ्गीकृत्य तद्वचनान् निर्णीतम् अर्थिनः पराजय इति तं च पराजयं कौटसाक्ष्यनिबन्धनम् इति मन्यमानो ऽर्थी पुनः पूर्वम् उद्दिष्टान् असंनिहितान् संनिहितेभ्यो गुणवत्तरान् द्विगुणान् वानीय विजयी भवति, तदा पूर्वसंनिहिताः साक्षिणः कूटाः स्युर् इति । कात्यायनो ऽपि ।

यत्र वै भावितं कार्यं साक्षिभिर् वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत् कार्यम् अन्यथा ॥
बहुभिश् च कुलीनैर् वा पूर्वाः स्युः कूटसाक्षिणः । इति ।

अस्यार्थः - अर्थिना निर्दिष्टेषु साक्षिष्व् अर्थिपक्षानुकूलम् अभिहितवत्सु यदा प्रत्यर्थी संख्यया गुणैर् वाधिकान् साक्षिणः पूर्वोक्तविपरीतं वादयति, तदार्थिसाक्षिणः कूटाः स्युर् इति ।

ननु च एकस्मिन् व्यवहारे कथम् अर्थिप्रत्यर्थिनोः साक्षिसंभवः,
न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः । (क्स्म् १९०)

इति प्रतिषिद्धत्वात् । अत एव “यत्र वै भावितम्” इत्यादिवचनस्य पुनर् बाधविषयत्वम् आश्रीयते । तेन न कश्चिद् विरोधः । एकस्य साक्षित्वविषये तु मनुर् आह ।

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥

सप्ताहावधिकं दैविकव्यसनोद्भावेनैकस्य साक्षिणः परीक्षणं कर्तव्यम् इत्य् अर्थः । एतच् च परीक्षणं दूतकादेः साक्षिणः कार्यम्, न पुनर् गुणान्वितस्य नृपाध्यक्ष्योर् वा, तत्रैकैकस्याप्य् अनृतसंभावनासंभवात् । अत एव व्यासः ।

मणिमन्त्रौषधिबलात् प्रदत्तं चाविधानतः ।
विसंवदेद् दिव्यम् अपि न तु साक्षी गुणान्वितः ॥

अत एव बृहस्पतिना दूतकादेः नृपाध्यक्षयोः व्यवधानं कृतम् ।

सूतको घटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥ इति ।

घटिकाग्राही गणकः । इतरौ कात्यायनेन दर्सितौ ।

अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्य् एको ऽपि दूतकः ॥

**इति स्मृतिचन्द्रिकायां साक्षिविषयाणि **

साक्षिप्रकरणं समाप्तम्