२५ साक्षिवचोविषयाः

अथ साक्षिवचोविषयाणि कानिचित् वचनानि लिख्यन्ते । तत्र कात्यायनः ।

स्वभावोक्तं वचस् तेषां ग्राह्यंयद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥
स्वभावेनैव यद् ब्रूयुः यद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं यद् अपार्थकम् ॥

नारदो ऽप्य् अपार्थम् आह ।

निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥

साक्ष्य आगते सक्ष्यवादावसरे अक्षरसमम् अक्षरानुरूपं पृष्टार्थम् इति यावत् । अनेनापृष्टार्थसमर्पकम् अपार्थम् इत्य् उक्तम् । एवं पृष्टार्थन्यूनाधिकार्थं च व्यर्थम्, तथा च स एव ।

ऊनम् अभ्यधिकं वार्थं (?) विब्रूयुर् यत्र साक्षिणः ।
तद् अप्य् अनुक्तं विज्ञेयम् एष साक्षिविधिः स्मृतः ॥

यत्र ऋणादिस्थिरप्रायविवादेष्व् इत्य् अर्थः । तथा च कात्यायनः ।

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥

यावत् प्रतिज्ञातार्थसाधनार्थम् उद्दिष्टं साक्षिवाक्यम् ऊनाधिकं चेत् संदेहापादकम् एव , न पुनः प्रतिज्ञातार्थैकदेशसाधनार्थम् उद्दिष्टं साक्षिवाक्यम् अपि ततो न्यूनाधिकं चेत् एवम् एवाप्रमाणम् इत्य् एतस्माद् एव वचनाद् अवगन्तव्यम्, साध्यं न सिध्यतीति सामान्येनाभिधानात् । अस्थिरकर्मसु पुनः सिध्यत्य् एव साध्यम् इत्य् आह स एव ।

साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसंग्रहे साहसे चौर्य यत् साध्यं परिकल्पितम् ॥

यत् पुनः तेनोक्तम्,

ऊनधिकं तु यत्र स्यात् तत् साक्ष्यं तत्र वर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥

तत् स्थिरकर्मविषयम् । एवं निर्दिष्टार्थैकदेसविसंवादे ऽपि विफलं साक्षिवचनम् इत्य् आह स एव ।

देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद् यत्र साक्ष्ये तद् अनुक्तं विदुर् बुधाः ॥

नारदो ऽपि ।

देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि विप्लुतम् ॥

एवं च, ऋणादौ स्थिरकर्मणि अन्यूनातिरिक्तं पृष्टार्थसमर्पकं साक्षिवचनं प्रमाणं नान्यद् इत्य् अनुसंधेयम् । अत एव व्यासः ।

कालाकृतिवयोद्रव्यदेसजातिप्रमाणतः ।
अन्यूनं चेन् निगदितं सिद्धं साध्यम् विनिर्दिशेत् ॥

बृहस्पतिर् अपि ।

यत्राशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः ।
स जयी स्याद् अन्यथा तु सध्यार्थं न समाप्नुयात् ॥

प्रतिवर्णितः सत्यत्वेनेति शेषः । तथा च याज्ञवल्क्यः ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः ॥

साक्षिणः सर्वे यस्य वादिनः प्रतिवादिनो वा प्रतिज्ञां साध्योक्तिं सत्यां ऊचुर् इत्य् अर्थः । यस्य पुनः प्रतिज्ञां केचित् साक्षिणः सत्याम् ऊचुः, केचित् त्व् अन्यथा तत्राह मनुः ।

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥

नारदो ऽपि ।

साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः ।
तत्साम्ये शुचयो ग्राह्याः तत्साम्ये स्मृतिमत्तराः ॥
स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तयेत् ततः ॥ इति ।

शुचिग्रहणं गृहस्थत्वादिगुणवताम् उपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥

अत्र बृहस्पतिः ।

लिखिते साक्षिवादे च संदेहो जायते यदा ।
अनुमाने च संभ्रान्ते तत्र दैवं विशोधनम् ॥

**इति स्मृतिचन्द्रिकायां साक्षिविषयाणि **