२४ साक्ष्यवादविधिः

अथ साक्ष्यवादविधिः

तत्र कात्यायनः -

सभान्तस्थैस् तु वक्तव्यं साक्xयं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ह्य् अन्यत्र स्थावरेषु तु ॥

अन्यत्र स्थावस्योपरीत्य् अर्थः । तथा च स एव ।

अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् ।
चतुष्पदेष्व् अयं धर्मो द्विपदस्थावरेषु च ॥

तयोः पूर्वोक्तस्थानयोः । ते स्थाने विनापि क्वचिद् वधरूपविवादे साक्ष्यं वक्तव्यम् इत्य् अर्थः । तथा च स एव ।

वधे वेत् प्राणिनां साक्ष्यं वादयेच् छिवसंनिधौ ।
तदभावे तु चिह्नस्य तान्य् अथैव प्रवादयेत् ॥

चिह्नस्य सृङ्गादेः । सक्ष्यवादप्रकारम् आह वसिष्ठः ।

प्राङ्मुखो ऽस्वस्थितः साक्षी शपथैः शापतिअः स्वकैः ।
हिरण्यं गोशकृद् दर्भान् तान् संस्पृश्य वदेद् ऋतम् ॥

बृहस्पतिर् अपि ।

विहायोपन्दुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।
हिरण्यगोशकृद्दर्भान् समादाय ऋतं वदेत् ॥

दक्षिणं पाणिम् उद्धरेत् प्रावृतं वस्त्रं यज्ञोपवीतवत् कुर्याद् इत्य् अर्थः । ऋतं वदेद् इत्य् अस्य क्वच्द् विषये ऽपवादम् आह मनुः ।

शूद्रविट्क्षत्रविप्राणां यथोक्ते तु भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥

बृहस्पतिर् अपि ।

सकृत् प्रमादापराधिविप्रं व्यापदि पीडितम् ।
भटादिभिर् विध्यमानं रक्षेद् उक्त्वानृतान्य् अपि ॥

अपिशब्दाद् अत्राप्य् अनृतोक्त्या किंचिद् पापं भवतीति गम्यते । अत एव प्रायश्चित्तम् आह याज्ञवल्क्यः ।

वर्णिनां हि वधो यत्र तत्र साक्ष्यम् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यः चरुः सारस्वतो द्विजैः ॥

मनुर् अपि ।

वाग्देवत्यैस् तु चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तत्र कुर्वाणाः निष्कृतिं पराम् ॥
कूश्माण्डैर् वाथ जुहुयात् घृतम् अग्नौ यथविधि ।
उदित्यृचा वा वारुण्या तृचेनाब्देवतेन वा ॥ इति ।

विष्णुर् अपि - “तत्पावनाय कूश्माण्डीभिर् द्विजो ऽग्नौ जुहुयात् । शूद्रश् चैकाहिकं गोदशकस्य ग्रासं दद्यात्” इति । यत् त्व् गौतमेनोक्तम्, “नानृतवचने दोषो जीवनं चेत् तदधीनम्” इति, यद् अपि व्यासेन -

न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु नित्यं न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्य् आहुर् अपातकानि ॥

इति, तयोर् अयम् अर्थः - “साक्षिधर्मे विशेषेण” इत्यादिभिर् वचनैर् यद् अधिकपातकम् उक्तम्, तद् अत्र नास्तीति । अन्यत्र अस्त्य् एव । तथा च गौतमः - “नासमवेताः पृष्टाः प्रब्रूयुर् अवचने न दोषिणः स्युः” इति । चशब्दाद् अनृतवचने चेत्य् अवगम्य इत्य् उक्तं व्याख्यातृभिः । असमवेतप्रतिषेधः समवेतानां साक्षिभाव एव न सर्वत्र । अत आह वसिष्ठः ।

समवेतैस् तु यद् दृष्टं वक्तव्यं तु तथैव तत् ।
विभिन्नेनैव यत् कार्यं वक्तव्यं तत् पृथक् पृथक् ॥
भिन्नकाले तु यत् कार्यं ज्ञातं वा यत्र साक्षिभिः ।
एकैकं वादयेत् तत्र विधिर् एष प्रकीर्तितः ॥ इति