२३ साक्ष्यप्रश्नविधिः

अथ साक्ष्यप्रश्नविधिः

तत्र मनुः ।

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥

द्विजान् इति साक्षिपुरुषोपलक्षणार्थम्, उपात्तविशेषणत्वात् । अत एव नारदः ।

आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥

भयावहैः शपथैः सत्यनिष्ठान् कृत्वा प्रत्येकं पृच्छेद् इत्य् अर्थः । ते च शपथास् तेन दर्शिताः ।

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैस्यं शूद्रं सर्वैस् तु पातकैः ॥

सत्यादीष्टविघातोपदर्शनेन विप्रादीन्, वक्ष्यमाणानिष्टापत्तिदर्शनेन शूद्रं शापयेद् इत्य् अर्थः । प्रश्ने तु विशेषो मनुना दर्शितः ।

ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ॥ इति ।

एवं चान्यथा ब्रुवतः सत्यं ते नश्यति, अतो ऽवधार्य ब्रूहीति ब्राह्मणे । क्षत्रिये तु अन्यथावदतस् तव वाहनायुधानि विफलानि भविष्यन्ति, अतो ऽवधार्य सत्यं ब्रूहीति प्रश्नो ऽवगन्तव्यः । वैश्ये तु प्रश्ने विशेषास्मृतेः गोबीजकाञ्चनैर् वियोगः स्यात् यद्य् अन्यथा भ्रूया इत्य् एवं शपथेन नियम्य यथाकामं पृच्छेत् । शूद्रे तु प्रश्नवाक्यप्रकारो मनुना प्रपञ्चितः ।

ब्रह्मघ्नो ये स्मृता लोकाः ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघन्स्य ते ते स्युर् वदतो मृषा ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यति ब्रूयास् त्वम् अन्यथा ॥
एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपपेक्षिता मुनिः ॥
यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा गुकून् गमः ॥
नगो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुगृहं गच्छेत् यः साक्ष्यम् अनृतं वदेत् ॥
अवाक्छिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यत् प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥
अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह ।
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥
पञ्च पश्वनृते हन्ति दश् हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातान् अन्जातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥
एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ॥ इति ।

कुरुः कुरुक्षेत्रम् । अञ्जसा शुद्धेन हृदयेन । अत्र केचित् - “नग्नो मुण्डः” इत्यादिश्लोकत्रयम् अपकृष्यानुयोजनविधौ निवेशनीयम्, अन्यथानन्वयः स्याद् इति मन्यन्ते । तदा “मा कुरून् गमः” इत्यभिधनानन्तरं “यावतो बान्धवान्” इत्याद्यभिधातव्यम् इत्य् अगन्तव्यम् । अयं च शूद्रप्रश्नविधिर् अनापदि हीनवृत्त्युपजीविनां द्विजानाम् अपि भवति, तेषाम् अल्पशपथेन नियन्तुम् अश्क्यत्वात् । अत एव मनुः ।

गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्दुषिकांश् चैव विप्राञ् छूद्रवद् आचरेत् ॥
ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकांक्षन्ति तांश् च शूद्रवद् आचरेत् ॥

द्विजत्वम् अभिकांक्षन्तीति (?) वदन्न् अद्विजातीनाम् अम्बष्टादीनां शूद्रवद् एव प्रश्नविधिं दर्शयति ।

इति स्मृतिचन्द्रिकायां साक्ष्यप्रश्नविधिः