२२ साक्ष्यनुयोजनविधिः

अथ साक्ष्यनुयोजनविधिः

तत्र मनुः ।

सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥

अनेन वक्ष्यमाणेन विधिना सर्वान् साक्षिणो ऽनुयुञ्जीत यथार्थकथनोन्मुखान् कुर्वीतेत्य् अर्थः । तम् एव विधिं दर्सयति ।

यद् द्वयोर् अनयोर् वित्थ कर्ये ऽस्मिन् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥
समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति पुष्कलान् ।
इह चानुत्तमाम् कीर्तिं वाग् एषा ब्रह्मपूजिता ॥
ब्राह्मणो वा मनुष्याणाम् आदित्यस् तेजसाम् इव ।
शिरो वा सर्वगात्राणां धर्माणां सत्यम् उत्तमम् ॥
सत्येन पूजते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते ।
तस्मान् न देवाः श्रेयांसं लोके ऽस्मिन् पुरुषं विदुः ॥ इति ।

ब्राह्मणो वा ब्राह्मण इवेत्य् अर्थः । एवं शिरो वेत्य् अत्रापि वाशब्द उपमानार्थो ऽवगन्तव्यः । यस्य साक्ष्यं वदतः साक्षिणः विद्वान् क्षेत्रज्ञो नतिशङ्कते, तस्मात् श्रेयांसम् अस्मिन् लोके देवा न विदुर् इत्य् अन्त्यश्लोकस्यार्थः । नारदो ऽपि ।

सत्यम् एव परं दानं सत्यम् एव परं तपः ।
सत्यम् एव परो धर्मो लोकानाम् इति नः श्रुतिः ॥
सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यम् एव वदेद् अतः ॥ इति ।

व्यासो ऽपि ।

साक्षिभावे नियुक्तानां देवता वियति स्थिताः ।
पितरश् चावलम्बन्ते वितथाख्यानशङ्कया ॥
सत्यवक्यैर् व्रजन्त्य् ऊर्ध्वम् अधो यान्त्य् अन्यथाकृते ।
तस्मात् सत्यं प्रवक्तव्यं भवद्भिः सभ्यसंनिधौ ॥ इति ।

मनुर् अपि ।

साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् नरः ।
विवशः शतम् आजातीस् तस्मात् साक्षी वदेद् ऋतम् ॥
आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थास् त्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥
मन्यन्ते वै पापकृतो न कस्चित् पस्यतीति नः ।
तांस् तु देवाः प्रपश्यन्ति यस्यैवान्तरपूरुषाः ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्या च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ इति ।

शतम् आजातीः सतम् यावज् जन्मानि । नारदो ऽपि ।

कुबेरादित्यवरुणशक्रवैवस्वतादयः ।
पश्यन्ति लोकपालाश् च नित्यं दिव्येन चक्षुषा ॥

तेन वञ्चनापि न सुकरेत्य् अभिप्रायः । उचथ्यो ऽपि । (?)

यः साक्षी कौटसाक्ष्यं तु विवदेद् भुवि निर्भयः ।
उभयोः सप्त गोत्राणाम् अस्हस्तान् नयति ध्रुवम् ॥
सप्तजन्मकृतं पापं स्रीरे यत् तु तिष्ठति ।
गृह्णाति तस्य सर्वस्वं यस् तु साक्ष्यं मृषा वदेत् ॥ इति ।

बृहस्पतिर् अपि ।

कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा वित्तहा चैषां नाधिकः समुदाहृतः ॥

मनुर् अपि ।

साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।
अवङ् नरकम् अभ्येति प्रेत्य स्वर्गाच् च हीयते ॥

वसिष्ठो ऽपि ।

अथ चेद् अनृतं ब्रूयात् सर्वतो ऽमेध्यभक्षणम् ।
मृतो नरकम् आयाति तिर्यग् गच्छेत् त्व् अनन्तरम् ॥

अमेध्यभक्षणयुतं नरकं मृतो गच्छतीत्य् अर्थः । कात्यायनो ऽपि ।

कालपाशावृतग्रीवं मुद्गराहतिविह्वलम् (?) ।
क्रुद्धः कण्डकिनीं भूमिं तं नयेद् यमकिङ्करः ॥
असिपत्रवनाघातशलल्यालिङ्गनातुराः ।
पूयशोणितसंपूर्णां नदीं पास्यन्ति दारुणाम् ॥ इति ।

कालपाशावृतग्रीवं कृष्णायसपासबद्धग्रीवम् । नारदो ऽपि ।

निरयेषु च ते शश्वज् जिह्वाम् उत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥
शूले मत्यान् इवाक्षिप्य क्रोशन्तम् अपरायनम् ।
अवाक्शिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्नौ ह्रदेषु च ॥
लोहयन्त्रादिपीडाभिः क्षुत्पिपासासुविह्वलः (?) ।
प्रक्षिप्यते तथा घोरे नरके संप्रतापने ॥ इति ।

उशनापि ।

लोहगृध्रमुखोत्खातलोचनाद्रीकृताननाः ।
पतिष्यन्त्य् अन्धतामिस्रे नरके पापमोहिताः॥

पितामहो ऽपि ।

गृहान्ततप्तसंदंशजिह्वात्रोटनमूर्छितम् ।
किङ्कराः पातयिष्यन्ति महारौरवरौरवे ॥

व्यासो ऽपि ।

बध्यन्ते वारुणैः पाशैः साक्षिणो ऽनृतवादिनः ।
षष्टिं वर्षसहस्राणि तिष्ठन्ति नरके ध्रुवम् ॥
तेषां वर्वशते पूर्णे पाश एकः प्रमुच्यते ।
काले ऽतीते मुक्तपाशः तिर्यग्योनिषु जायते ॥ इति ।

नारदो ऽपि ।

अपि चेन् नरके कल्पं वसेयुः कूटसाक्षिणः ।
परवित्तहरा ये च राजानश् चाप्य् अधार्मिकाः ॥
अनुभूय च दुःखार्ताः चिरं नरकवेदनाम् ।
इहायास्यन्त्यभव्यासु गृध्रकाकादियोनिषु ॥ इति ।

वसिष्ठो ऽपि ।

सूकरो दशवर्षाणि शतवर्षाणि गर्दभः ।
श्वा वै द्वादशवर्षाणि भासो वर्षाणि विंशतिः ॥
क्रिमिकीटपतङ्गेषु चत्वारिंसत् तथैव च ।
मृगस्तु दशवर्षाणि जायते मानवः स्मृतः ॥
मानुष्यं तु यद् आप्नोति मूको ऽन्धश् च भवेत् तु सः ।
दारिद्र्यं तु भवेत् तस्य पुनर् जन्मनि जन्मनि ॥ इति ।

व्यासो ऽपि ।

मानवो जायते पश्चात् संपरित्यक्तबान्धवः ।
पङ्ग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासितः ॥
बुभुक्षितः शत्रुगृहे भिक्षते भार्यया सह ।
ज्ञात्वा त्व् अनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान् ॥
श्रेयस्करम् (?) इहामुत्र सत्यं साक्ष्ये वदेद् अतः । इति ।

एवं संबोधनम् एतैर् एव वचनैः कार्यम्, न पुरुषान्तररचितैः । यत आह नारदः ।

पौराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् अपि ॥ इति ।

आर्षैः सस्तुतिकसत्यवादविधिवचनैः साक्षिणां प्रोत्साहनम्, अनृतप्रतिषेधवचनैः दुरितापूर्वफलसहितैर् अत्यर्थं भीषणम् अपि कुर्याद् इत्य् अर्थः ।

**इति स्मृतिचन्द्रिकायां साक्ष्यनुयोजनविधिः **