२० साक्ष्युद्भावनम्

अथ साक्ष्युद्भावनम्

तत्र गौतमः - “विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था” इति । तेनोत्तरानन्तरम् अर्थिना साक्षिणः सन्ति चेन् निर्देष्टव्या इत्य् अभिप्रायः । ते च निर्दिष्टाः सदोषाश् (?) चेद् दूषयितव्याः । तथा च बृहस्पतिः ।

सक्षिणो ऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।
अदुष्टान् दूषयन् वादी तत्समं दण्डम् अर्हति ॥

तसमो दुष्टसाक्षिदण्डसमः । यैर् द्वेष्यत्वादिहेतुभिर् असाक्षित्वम् उक्तं ते साक्षिदोषाः । ते यद्य् अर्थिनिर्दिष्टसक्षिषु निगूढाः सन्ति तदा प्रत्यर्थिना प्रख्यापनीया इत्य् अर्थः । यदि पुनः प्रकटाः सन्ति तदा सभ्यैर् एव वक्तव्याः । तथा च कात्यायनः ।

प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥
प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्सनात् ॥

प्रमाणस्य प्रमाणतया निर्दिष्टस्य काले निर्णयकाले इत्य् अर्थः । तथा च बृहस्पतिः ।

साक्षिभिर् गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः ।
पुनर् विवादं कुरुते तस्य राजा विचारयेत् ॥

गदितैर् अर्थिनिर्दिष्टैः प्रकटदोषरहितैः साक्षिभिर् निर्णये प्रक्रान्त इत्य् अर्थः । प्रक्रान्तग्रहणं निर्णयाद् ऊर्ध्वं दूषणाभिधानकाल इति प्रतिपादनार्थम् । अत एव कात्यायनः ।

लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥

उक्तात् पश्चाद् दूषयतो दण्डम् आह स एव ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्डः स्यात् साध्यार्थाच् चापि हीयते ॥

दोषेणैव तु दूषयेत् न तु गुणाभावेन, तस्य वचनप्रामाण्यविघातकारित्वाभावाद् इत्य् अभिप्रायः । अत् एवापै गुणरहितस्यापि निषिद्धेतरस्य ऋणादौ साक्षित्वम् उक्तम् । अतो न गुणाभावोद्भावनमात्रेण ऋणादौ निर्दिष्टसाक्षिणाम् असाक्षित्वसिद्धिः, किं तु दासत्वादिनिषिद्धनिमित्तोद्भावनेनेत्य् अवगन्तव्यम् । साहसादौ न तेनापि (?) किं त्व् अज्ञत्वासत्यशीलत्वादिदोषोद्भावनेनैवेत्य् अनुसंधेयम् । अत एव व्यासेनापि दोषोद्भावनेनैवासाक्षित्वम् उक्तम् ।

साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान् सर्वान् वाच्याः प्रत्युत्तरं तु ते ॥
प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कदाचन ।
अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥ इति ।

प्रतिपत्तिर् दोषाङ्गीकारः । क्रियया साक्षिव्यतिरिक्तयेति शेषः । तथा च स एव ।

अन्यैस् तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद् दोषस् तेषाम् अप्य् अन्यसंभवात् ॥

एवं प्रतिवादिना दूषणप्रतिपादनं न प्रकटे दूषणे कार्यम्, वैयर्थ्यात् । किं तु सभ्यैर् एव तथाविधदूषणं ग्राह्यम् इत्य् आह स एव ।

सभासदां प्रसिद्धं यल् लोक्कसिद्धम् अथापि वा ।
साक्षिणां दूषणं ग्राह्यम् असाध्यं दोषवर्णनात् ॥

ग्राह्यं परीक्षकैर् इति शेषः । असाध्यं च प्रतिवादिना तत्र दूषणम्, प्रसिद्धदोषाद् वर्जनसिद्धेर् इत्य् अर्थः । यत्र पुनर् अप्रसिद्धं दूषणं कीर्तितं तत्र तद् असाधयतो दण्डम् आह स एव ।

असाधयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भविताः साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥

स्फुटं यथा भवति तथा साक्षिदोषम् असाधयन्न् इत्य् अर्थः । दोषत्वेन साधिताः साक्षिणो वर्ज्याः, न तु दण्ड्या इत्य् अभिप्रायः । वर्जितेषु साक्षिषु यद्य् अर्थी प्रमाणान्तरं प्रति निराकाङ्क्षस् तदासौ जितो दण्ड्य इत्य् आह स एव ।

जितस्य विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसभ्येष्व् अवस्थितः ॥

निराकाङ्क्षः प्रमाणान्तरं प्रतीति शेषः । यदा तु साकाङ्क्षः तदा मानुषाभावे दिव्येनापि जयावधरणं कार्यम् इत्य् अभिप्रायः । यदा तु निर्दोषिणः साक्षिणो भवेयुस् तदा तैर् एव जयावधारणं कार्यम् । तथा च बृहस्पतिः ।

साक्षिणां दूषणे कायं पूर्वं साक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात् कार्यं विशोधयेत् ॥

ततः शुद्धसाक्षिभ्य इत्य् अर्थः । अनेन पूर्वव्यवहारमध्य एव प्रमाणदोषविवादनिर्णयः कार्यः । न पुनर् व्यवहारान्तरनिर्णयवत् पूर्वव्यवहारसमाप्त्यनन्तरकाल इत्य् उक्तम् । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्यानुचितत्वाद् अयुक्तम् इति वाच्यम् । प्रमाणदोषविवादनिर्णयस्य पूर्वव्यवहारशेषत्वेन तत्रैव कर्यत्वात्, पृथक्फलाभावेन व्यवहारान्तरत्वाभावाच् च । तथा च स एव ।

लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न सिध्येत् तु यावत् तन् न विशोधयेत् ॥

व्यासो ऽपि ।

अन्तरप्रभवो वादः सर्वसाक्षिसमुद्भवः ।
न याति निर्णयं यावत् तावत् पूर्वं विवर्जयेत् ॥
प्रत्यर्थिनो ऽर्थिनो वापि साक्षिदूषणसाधने ।
न तु साक्ष्यभियोगः स्याद् व्यवहारान्तरं तथा ॥ इति ।

अतः प्रमाणदोषविवादनिर्णयः पूर्वव्यवहारमध्य एव कर्तव्य इति स्थितम् ।

इति स्मृतिचन्द्रिकायां साक्ष्युद्भावनम्