१९ असाक्षिभेदाः

अथासाक्षिभेदाः

तत्र नारदः ।

असाक्ष्य् अपि हि निर्दिष्टः शास्त्रे पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयम् उक्तिर् मृतान्तरः ॥

असाक्षित्वहेतूनां पञ्चविधत्वात् तद्वशेनासाक्ष्य् (?) अपि पञ्चविधो बुधैर् निर्दिष्ट इत्य् अर्थः । अत एव संग्रहकारः ।

दृष्टत्वात् प्रतिषिद्धत्वाद् अकृतत्वद् अनिस्चयात् ।
एकाङ्गविकलत्वाच् च स्याद् असाद्ष्य् अपि पञ्चधा ॥
स्तेनादिः श्रोत्रियादिश् च स्वंभूर् भिन्नगीर् मिथः ।
मुमूर्षुश्राविताद् अन्यः पञ्चमः स्यात् मृतान्तरः ॥ इति ।

दुष्टत्वाद् असाक्षी स्तेनादिः प्रतिषिद्धत्वाच् छ्रोत्रियादिः । अकृतत्वात् स्वयंभूः, अनिश्चयात् मथोभिन्नगीह् (?), एकाङ्गविकलत्वात् मृतान्तर इत्य् अर्थः । नारदो ऽपि ।

स्तेनाह् साहसिकाश् चड्णाः (?) कितवा वधकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥
श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजितादयः ।
असक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥
स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।
सूचीत्य् उक्तः स शास्त्रेषु न स साक्षीत्वम् अर्हति ॥
राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये ।
वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥
यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ इति ।

सूची सूचकः । यो ऽर्थ इत्य् अस्यायम् अर्थः - अस्मिन्न् अर्थे मयासौ साक्षी कृत इति यो ऽर्थो ऽर्थिना स्वस्यास्थिरत्वं मन्वानेन श्रवयितव्यः पुत्रादेर् ज्ञापयितव्यः, तस्मिन्न् अर्थे असत्यज्ञापिते ऽर्थिनि चासिति मृते, तत्साक्षित्वम् अर्थिना कृतं साक्षित्वम् अर्थिपुत्रादिः (?) क्व कस्मिन्न् अर्थे कस्य पुरुषस्य प्रमाणोक्तिकाले वदत्व् इत्य् अनवधृतेर् असाक्षी मृतान्तर इति । अर्थिग्रहणं प्रत्यर्थिनो ऽप्य् उपलक्षणार्थम् । अत एव व्यासः ।

अर्थी यत्र न विद्येत तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी वा मृतो यत्र तत्राप्य् एवं प्रकल्पयेत् ॥

अर्थिनि प्रथ्यर्थिनि वा मृते तदीयः साक्षी मुमूर्षुश्रावितद् अन्यो मृतान्तर इत्य् अर्थः,

मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ।

इति नारदस्मरणात् । मुमूर्षुग्रहणं स्वस्थस्याप्य् उपलक्षणार्थम् । अत एव स्मृत्यन्तरम् ।

श्रावितो ऽनातुरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृते ऽपि तत्र साक्षी स्यात् षट्सु त्व् अन्वाहितादिषु ॥

एवं च यद् उक्तं स्मृत्यर्तरं (ए?),

न्यासान्वाहितविर्क्रीते हृते दत्ते ऽथ याचिते ।
मुमूर्षुश्रावितर्णे च पृच्छेत् साक्ष्यं मृतान्तरम्

इति, तच् छ्रावितस्य साक्षित्वं मृते ऽपि श्राविते ऽर्थिनि नापैतीति ज्ञापनार्थम्, न पुनर् मृतान्तरस्यापि क्वचित् साक्षित्वविधानर्थम् इत्य् अवगन्तव्यम्, मृतान्तरस्य साक्षित्वासंभवात् ।

यथा श्रावितस्य साक्षित्वं नापगतं तथा साक्षिद्वैधे ऽप्य् उत्कृष्टकोटेः साक्षित्वम् अक्षतम् एव । तथा च याज्ञवल्क्यः ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥

संग्रहकारस् त्व् अस्यार्थम् आह ।

बहुत्वेन गुणानां वा तारतम्येन निश्चयः ।
साक्षिविप्रतिपत्तौ स्यात् सर्वसाम्ये प्रमाणता ॥

अनिश्चयाद् असाक्षित्वं कोट्योः विशेषाग्रहण् एवेत्य् अर्थः । यत् तु कात्यायणेनोक्तम्,

साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥

इति, तत्र सर्वशब्देनान्यथावादिसहितानाम् एव बहूनाम् असाक्षित्वम् उक्तं न पुनः केवलानाम् इत्य् अवगन्तव्यम्, अन्यथा “द्वैधे बहूनां वचनम्” इत्यादिवचनविरोधात् । तथा स्वयमुक्तित्वेनासाक्षित्वं मा भूद् इति येन केनचित् साक्षिनिर्देशो न कार्यम् इत्य् आह स एव ।

अन्येन हि कृतः साक्षी नैवान्यस् तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥

अर्थी तदीयो वा साक्षिणं निर्दिशेन् नान्य इत्य् अर्थः । एवं चान्येन निर्दिष्टो ऽनिर्दिष्टवद् एवासाक्षीत्य् अवगन्तव्यम् । अत्र प्रसङ्गाद् अन्यद् अपि किंचिद् उक्तं नारदेन ।

द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥
आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवादिनः ॥ इति ।

अत्रोदाहरणम् - यत्रैकं क्षेत्रं प्रतिग्रहेण प्राप्य भुक्त्वा त्यक्त्वा देशान्तरं सकुटुम्बो गतः, पुनर् अन्येन लब्धं भुक्तं च, सो ऽइ देशविभ्रमादिना देशान्तरं सकुटुम्बो गतः । पुनस् तौ द्वाव् अपि चिरन्तनकालापगमे स्ववृत्तिलोभेन स्वस्थानम् आगत्य क्षेत्रविवादे निर्णयार्थं धर्मस्थानं युगपद् आगतौ, ततैकः प्रतिजानीते - “जयतिचन्द्राख्येन राज्ञा स्वराज्यकाले मह्यं दत्तम् इत्य् अस्मदीयम् एवैतत् क्षेत्रम्” इति । इतरो ऽपि प्रजानीते - “हरिचन्द्राख्येन राज्ञा जयतिचन्दाख्यसुतेन राज्यार्थम् अभिषिक्तेन मह्यं दत्तम् अस्मदीयम् एवैतत् क्षेत्रम्” इति । अथ वा इतरस्यैवं प्रतिज्ञा - “सत्यं जयतिचन्द्रेणास्मै दत्तं किं त्व् एतस्य हस्ताद् धरिचन्द्रेण तत् क्षेत्रं क्रयेण गृहीत्वा मह्यं दत्तम् इत्य् अस्मदीयम् एव” इति । सन्ति च द्वयोर् अपि विवादिनोः साक्षिणः । तत्रेदम् उक्तम् “द्वयोर् विवदतोर् अर्थे” इति । अयम् अर्थः - यस्य विवदमानस्य पूर्वपक्षो भवेत् पूर्वकालिकस्य दानस्य स्वत्वहेतुतयोपन्यासेन पक्षो भवेत् तस्य साक्षिणः सभ्यैः प्रष्टव्या भवेयुर् नेतरस्य साक्षिणः, तेषाम् उत्तरकालदनसाक्षित्वेनासाक्षिप्रायत्वात् । यदा पुनर् इतरप्रतिज्ञातार्थवशेनैतस्य हस्तात् क्रीत्वा मह्यं दत्तम् इत्यदिना पूर्वदानोपन्यासपक्षस्याधर्यम् अकिंचित्करतं भवेत् तदा पश्चात् प्रतिजानानस्य साक्षिणः प्रष्टव्याः । न पूर्वं प्रतिजानानस्य, सिद्धसाध्यत्वेन वैयर्थ्यात् । किं त्व् असाक्षिवद् उपक्षणीयास् त इति ॥

**इति स्मृतिचन्द्रिकायाम् असाक्षिभेदाः **