१८ साक्षिभेदाः

अथ साक्षिभेदाः

तत्र कात्यायनः ।

लेख्यारूढश् चोत्तरश् च साक्षी मार्गद्वयान्वितः ॥ इति ।

प्रजापतिर् आह ।

साक्षी द्विभेदो विज्ञेयः कृत एको ऽपरो ऽकृतः ।
लेख्यारूढः कृतो ज्ञेय उत्तरो ऽकृत उच्यते ॥

लेख्यारूढो लिखितादिर् इत्य् आर्थः । तथा च नारदः ।

लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥

तथा अकृतसाक्षिभेदोऽपि तेनैव दर्शितः ।

अकृतः षड्विधः साक्षी सूरिभिः परिकीर्तितः ।
ग्रामश् च प्राड्विवाकस् च राजा च व्यवहारिणाम् ॥
कर्येष्व् अभ्यन्तरो यः स्याद् अर्थिना प्रहितश् च यः ।
कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्xइणः ॥ इति ।

तत्र तावत् कृतानां लक्षणम् आह बृहस्पतिः ।

जातिनामादि लिखितं येन स्वं पित्र्यम् एव च ।
निवासश् च स विज्ञेयः साक्षी लिखितसंज्ञिकः ॥
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके ।
स्मार्यते च मुहुर् यश् च स्मारितः स उदाहृतः ॥
क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।
अत्र साक्षी त्वव् अस्माकम् उक्तो यादृच्छिकस् तु सः ॥
कुड्यव्यवहितो यस् तु श्राव्यते ऋणिभाषितम् ।
विनिष्कृते तथाभूत (?) गूढसाक्षी स उच्यते ॥
यत्र साक्षी दिसं गच्छन् मुमूर्षुर् वा यथाश्रुतम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥ इति ।

लिखिते तु विशेषम् आह हारीतः ।

सुदीर्घेणापि कालेन लिखितः सिद्धिम् आप्नुयात् ।
आत्मनैव लिखेज् जानन्न् अज्ञस् त्व् अन्येन लेखयेत् ॥

यत् पुनस् तेनैवोक्तम्,

आष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ।
आपञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य च ॥
आतृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः ।
आ वत्सरात् तु सिद्धिं च वदन्त्य् उत्तरसाक्षिणः ॥

इति, तत् पूर्वपक्षत्वेनाभिहितम् इत्य् अवगन्तव्यम् । यतो ऽनन्तरम् आह स एव ।

अथ वा कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥
यस्य नोपहता बुद्धिः स्मृतिः श्रोतुश् च साक्षिणः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यम् अर्हति ॥ इति ।

बृहस्पतिनाप्य् अकृतसाक्षिणो निरूपिताः ।

घातितं मुषितं यत्र सीमायाश् च समन्ततः ।
अकृतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥
निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥
अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥
उभाभ्यां यत्र विस्वस्तं कार्यं चापि निवेदितम् ।
गूढधारी स विज्ञेयः कार्यमध्यगतस् तथा ॥
अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुर् दूतकः स उदाहृतः ॥
विभागादाव् अपि ऋणे ज्ञातिर् यत्रोपयुज्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥ इति ।

यत् पुनस् तेनोक्तम्,

लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ ।
यादृच्छिकश् चोत्तरश् च कार्यमध्यगतो ऽपरः ।
नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादसधा स्मृतः ॥

इति, तल् लिखितस्यावान्तरभेदं स्वनामादिलिपिकर्तृत्वकारयितृत्वरूपम् आश्रित्योक्तम् ।

एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।

इति नारदेनानादृत्योक्तम् ॥

**इति स्मृतिअन्द्रिकायां साक्षिभेदाः **