१७ साक्षिलक्षणानि

अथ साक्षिलक्षणानि

तत्र मनुः ।

यादृशा धनिभिः कर्या व्यवहारेषु साक्षिणः ।
तादृशांत् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥

साक्षिणां लक्षणानि अनुयोजनविधिं च वक्ष्यामीत्य् अर्थः । तत्रादौ लक्षणानि दर्शयति ।

गृहिणः पुत्रिणो मौलाः क्षत्रविट्छूद्रयोनयः ।
अर्थजाः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥

मौलाः प्रतिष्ठिताः । अर्थज्ञाः साद्यम् अर्थं विदितवन्तः,

समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।

इति तेनैवोक्तत्वात् । गृहिण इत्यादिषु पुल्लिङ्गनिर्देशो विवक्षितः, उपादेयगतत्वात् । अत एव नारदः ।

कुलीना ऋजवः शुद्धाः जन्मतः कर्मतो ऽर्थतः ।
साक्षिणः सुचयो ऽनिन्द्याः पुरुषाः स्युः सुवृद्धयः ॥

एवंविधाः पुरुषाः ऋणादिषु साक्षिणः स्युर् इत्य् अर्थः । तथा च व्यासः ।

धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः ।
श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ॥
श्रोत्रिया नपराधीणाः (?) सूरयश् चाप्रवासिनः ।
युगानः साक्षिणः कार्या ऋणादिषु विजानता ॥ इति ।

श्रोत्रियाः श्रुतिपाठकाः । एवम् उक्तविधा न जातु कूटतां प्रतिपद्यन्त इत्य् अह स एव ।

ज्ञात्वा कार्यं देसकालकुसलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं नैते स्युः साक्षिणो यथा ॥

कात्यायनो ऽपि ।

प्रख्यातकुलशीलाश् च लोभमोहविवर्जिताः ।
आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यम् असंशयम् ॥

तेषाम् इति बहुवचनं द्व्येकसंख्यासाक्षिवाक्यम् एवं न निश्चायकम् इति प्रतिपादनार्थम् । अत एव मनुः ।

त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ । इति ।

भाव्यः साधनीयः त्रयः अवरा निकृष्टा येषां ते त्र्यवराः, त्रित्वाद् ऊनसंख्या साक्षिष्व् अप्रशतेत्य् अर्थः । यत् तूक्तं बृहस्पतिना,

नव सप्त पञ्च वा स्युः चत्वारस् त्रय एव वा ।
उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदाचन ॥

इति, तत्रोभाव् इति लिखितगूढसाक्षिविषयम् । यतो ऽनन्तरम् आह स एव ।

लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः ।
यदृच्छास्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥ इति ।

लिखितादीनां भेद उपरिष्टाद् वक्ष्यते । यत् पुनस् तेनोक्तम्,

दूतको घटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥

इति — घटिकाग्राही गनकः । अध्यक्षः प्राड्विवाकः — यद् अपि व्यासेन,

शुभक्रियश् च धर्मज्ञः साक्षी यत्रानुभूतवान् ।
प्रमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ॥

इति, यद् अपि कात्यायनेन,

अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्य् एको पि दूतकः ॥
संस्तुतं येन संन्यस्तं तत् तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥

इति, तद् एतत् सर्वम् उभयानुमतसाक्षिविषयम् । बहुत्ववद् उभयसंमतत्वस्याप्य् अनाप्तत्वशङ्काव्युदासकत्वात् । अत एव नारदः ।

अथ वानुमतो यस्य द्वयोर् विवदमानयोः ।
स साक्ष्य् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् तु संसदि ॥ इति ।

एवं च त्र्यवरा इति संख्यानियमो लिखितगूढोभयानुमतव्यतिरिक्तसाक्षिविxअय एवेत्य् अनुसंधेयम् । उभयानुमतसाक्षिविषये लिखितगूढसाक्षिविषये च न्यूनसंख्यापक्षस्यापि विहितत्वात् । अत एव संग्रहकारः ।

कर्तव्याः सर्वकार्येषु त्रिभ्य आरभ्य साक्षिणः ।
द्व्येकयोः प्रतिषेधः स्याद् एको ऽप्य् उभयसंमतः ॥ इति ।

साक्षिणो लिखितगूढव्यतिरिक्ताः । त्रिभ्य आरभ्य कर्तव्या इत्य् अर्थः । साक्षिण इत्य् अनुवृत्तौ नारदः ।

ब्राह्मणः क्षत्रियो वैशः शूद्रा ये चाप्य् अनिन्दिताः ।
प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा पुनः ॥

सति संभवे व्यवहर्तुः सवर्णाः साक्षिणः इत्य् अर्थः । एवं वर्णेतरजाताव् अपि व्यवहर्तृसजातीया भवेयुः,

यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ।

इति याज्ञवल्क्यस्मरणात् । जातिग्रहणं श्रेण्यादेर् अप्य् उपलक्षणार्थम् । अत एव नारदः ।

श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥ इति ।

अत्रापवादम् आह स एव ।

श्रेण्यदिषु तु वर्गेषु कश्चिद् चेद् द्वेष्यताम् इयात् ।
तस्य तेभ्यो न साक्ष्यं स्यात् द्वेष्टारः सर्व एव ते ॥

श्रेण्यादिषु ये यस्य द्वेषं कुर्वन्ति ते तस्य न साक्षिण इत्य् अर्थः । श्रेण्यादिग्रहणं वर्णादिप्रदर्शनार्थम्, द्वेषग्रहणं चायथार्थकथनकारणवताम् उपलक्षणार्थम् । अत एव मनुः ।

आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धाः विपरीतांस् तु वर्जयेत् ॥

आप्ताः विप्रलम्भकव्यतिरिकाः । विपरीतान् अयथार्थवादकारणोपेतान्य् अर्जयेद् इत्य् अर्थः । तान् एवाह स एव ।

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्घेभ्यो विनिर्गतः ॥
नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शुशुर् नैको नान्यो न विअकलेन्द्रियः ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ इति ।

अर्थसंबन्धिनः विप्रतिपद्यमानार्थस्य संबन्धिनः । आप्तास् तु कात्यायनेन दर्शिताः ।

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास् ते तु न साक्षिणः ॥ इति ।

सहायाः प्रतिभूप्रभृतयः । वैरिणः विप्रतिपन्नयोर् अन्यतरस्य दृष्टदोषाः कूटसाक्षित्वेनान्यत्र ज्ञाताः । दूषिताः सहापातकादिदोषेण । नृपतिः बहुव्यापारव्यकुलत्वात् प्रतिषिध्यते । कारुकः शिल्पोपजीवी हेमकारादिः । कुशीलव रङ्गावतारी, तयोर् अर्थप्रवणत्वात् प्रतिषेधः । श्रोत्रियो ऽत्र कर्मानुष्ठाननिष्ठो विवक्षितः, न पुनः श्रुतिपाठकः, तस्य साक्षित्वेनोक्तत्वात् । लिङ्गस्थो ब्रह्मचारी यतिश् च । सङ्घेभ्यो विनिर्गतः वानप्रस्थादिः । एतेषु श्रोत्रियादिष्व् अयथार्थवादहेत्वभावे ऽपि वचनबलेनैव प्रतिषेधो ऽध्यवसेयः । आध्यधीनो मानसव्याधिविह्वलः । वक्तव्यः कुष्टादीना कुत्सितदेहः । दस्युः क्रूरचेष्टः । विकर्मकृत् शास्त्रविरुद्धकर्मकृत् । वृद्धः जरावशेन स्खलितबुद्धिः । शिशुः अपूर्णषोडशवर्षः । एको विवदमानाभ्याम् अननुमतः । अन्त्यः चण्डालादिः । विकलेन्द्रियो बधिरादिः । आर्तादयो व्यक्ताः । तेषां भेदः पूर्वम् उक्तो ऽत्राप्य् अनुसंधेयः । नारदो ऽपि वर्जनीयान् आह ।

दासनैकृतिकाश्राद्धवृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥
महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।
युग्मैकश्रोत्रियआचारहीनक्लीबकुशीलवाः ॥
नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ।
एकस्थालिसहायारिचरज्ञातिसनाभयः ॥
प्राग्दृष्टदोषशैलूषविषजीव्याहितुण्डिकाः ।
गरदाग्निदकीनाशशूद्रापत्युपपातकाः ॥
क्लान्तसाहसिकाशान्तनिर्धूतान्तावसायिनः ।
भिन्नवृत्तासमावृत्तजडतैलिकपौषिकाः ॥
भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥
कुनखी स्यावदन् श्वित्री मित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥
वधकृच्चित्रकृन्मूर्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितः तस्करो राजपूरुषः ॥
मनुष्यविषमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।
विक्रेता ब्राह्मणस् चैव द्विजो वार्धुषिकस् च यः ॥
च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।
पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥ इति ।

नैक्र्तिकः पररन्ध्रान्वेषणशीलः । चाक्रिको वैतालिकः । सामुद्रवणिक् वहित्रयायी (?) । युग्मौ द्वित्वविशिष्टौ । एकस्थालीत्य् अस्य द्वेधा विग्रहः, एकपाकसधनस्थाली यस्य पुरुषस्य, विप्रतिपन्नयोर् अन्यतरेण पुरुषेण सह यस्य वा एकं भोजनस्हालम् स एकस्थ्ताली एकपाकः सहभोजनो वेति यवत् । अरिषु चरतीत्य् अरिचरः शत्रुसंबन्धीति यावत् । सनाभयस् तु कात्यायनेन दर्शिताः ।

मातृष्वसृसुताश् चैव सोदयीसुतमातुलाः ।
एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् ॥ इति ।

शैलूषो नटः । विषजीवी विषस्य संग्रहणरक्षणादिव्यापारे नियुक्तः । आहितुण्डिकः सर्पग्राही । गरदो विषदः । अग्निदो गृहदाहकः । कीनाशः कृपणः । क्लान्तः खिन्नः । निर्धूतो बहिष्कृतः । अन्तावसायी प्रतिलोमजः । भिन्नवृत्तो दुराचारः । असमावृत्तो नैष्ठिकब्रह्मचारी । जडो मन्दबुद्धिः । तैलिकः तिलघाती, महायन्त्रिक इति यावत् । पौपिकः अपूपादिविक्रयी । वर्षसूचको वृष्टिसूचकः, नैमित्तिक इति यावत् । नक्षत्रसूचको ज्यौतिषवृत्तिः । अघसंसी परदोषप्रकाशकः । भगवृत्तिः स्ववृत्तये भार्यावेश्यात्वकारी । शौण्डिको मद्यविक्रयी । मूर्खो देवतां गृहीत्वा याचकः । कुहको दाम्भिकः । प्रत्यवसितः प्रव्रज्यातो निवृत्तः । सूचकः परदोxअसूचनर्थं राज्ञा नियुक्तः । भेदकृत् पिशुनः । अन्ये प्रसिद्धाः । कात्यायनो ऽपि कतिपयान् असाक्षिजनान् आह ।

कुल्याः संबन्धिनश् चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश् च श्वसुरो गुरवस् तथा ॥
नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।
वल्लभाश् च न पृच्छेयुर् भक्तास् ते राजपूरुषाः ॥ इति ।

ये कुल्यादयो राजपुरुषान्ताः कीर्तिताः ते साक्xयं कर्तुं न पृच्छेयुः न साक्षिणः स्युर् इत्य् अर्थः ।

नन्व् अयम् असाक्षिकथनप्रपञ्चो व्यर्थः । लक्षणोक्त्यैवार्थाद् विलक्षणानाम् असाक्षित्वसिद्धेः, सत्यम् एवं तथापि यत्र सर्वधा विहितसाक्षिणाम् अलाभः तत्र मनुष्यमात्रस्य साक्षित्वम् “न ये केचिद् अनापदि” इति मनुवचनतो ऽर्थात् प्राप्तम्, तत्र केषांचित् प्रतिषेधार्थम् “नार्थसंबन्धिनो नाप्ताः” इत्यादिवचनरचना कृतेत्य् अर्थवान् एवायं प्रपञ्चः । एवं च लक्षणान्वितसाक्xइनाम् अलाभे प्रतिषेधराहित्यमात्रशालिनां साक्षित्वं विहितम् इत्य् अनुसंधेयम् । अत एव तेषाम् अपि प्रशंसा व्यासेन कृता ।
दिव्यम् ओषधिभिर् मन्त्रैः प्रायेण व्यभिचार्यते ।
न खल्व् अदोषदुष्टानां व्यभिचारो ऽस्ति साक्षिणाम् ॥ इति ।

यत् पुनर् मनुनोक्तम् ।

अनुभावी तु यः काश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा सरीरस्यापि वात्यये ॥
स्त्रियाप्य् असंभवे कार्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ इति ।

अनुभावी कार्याभिज्ञः । यद् अपि नारदेन,

असक्षिणो ये निर्दिष्टाः दासनैकृतिकादयः ।
कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥

इति — कार्यगौरवं कार्यस्य प्रशस्तज्ञातुः राहित्यम् — तद् एतद् सर्वं साहसाद्य्स्थिरकर्मविषयं तत्र प्रशस्तानां दुर्बलत्वात् । अत एव संग्रहकारः ।

उत्कृष्टमध्यमाभावे निषिद्धा अपि साक्षिणः ।
साहसादिषु मन्तव्याः कालकार्यानिबन्धनाः ॥ इति ।

अत्र विशेषम् आहोशना ।

दासो ऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः ।
एते ऽप्य् अनभिसंबन्धाः साहसे साक्षिणो मताः ॥

अनभिसंबन्धाः मित्रारिभावरहिताः । साहसे साहसादिष्व् इत्य् अर्थः । अभिसंबन्धाश् चेत् साहसादिष्व् अपि ते वर्जनीया एव । अत एव नारदः ।

तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥

तेषां दासनेइकृतिकादीनां मध्ये ऽपि व्यक्तानृतहेतुशालिनो बालादयो वर्ज्या इत्य् अर्थः । व्यक्तानृतहेतवो ऽपि तेषु तेन दर्शिताः ।

बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।
विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥

असत्यात् असत्यशीलत्वाद् इत्य् अर्थः । अनेनाज्ञत्वासत्यशीलत्वाद्यधर्मनिष्ठत्वात्यन्तोत्कटरागद्वेषशालित्वादीन्य् एव व्यकानृतहेतवो न पुनर् बालत्वाद् अयः इति दर्सितम् । एवम् एकस्मिन्न् अपि नैकत्वं व्यक्तानृतहेतुः अपि तु लुब्धत्वम् इत्य् आह मनुः “एको लुभस् त्व् असाक्षी स्यत्” इति । एवं चाज्ञात्वासत्यशीलत्वादिदोषाणां सद्भावे दासादयो ऽपि हेयाः, तदभावे तु बालादयो ऽप्य् उपादेयाः इति साहसादिविषये ऽनुसन्धेयम् । यत् पुनर् मनुनोक्तम्,

साहसेषु तु सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोस् च पारुष्ये न परीक्षेते साक्षिणः ॥

इति, यद् अपि कात्यायनेन,

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥

इति, तद् गृहस्थत्वादिगुणगणविषयपरीक्षाया निषेधकं न पुनर् अज्ञत्वादिदोषविषयपरीक्षाया अपि, पूर्वोक्तवचनविरोधात् । यत् पुनः कात्यायनेनोक्तम्,

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिकं चैव परीक्षा कुत्रचित् स्मृता ॥

इति, यद्य् अत्र साहसादौ पराजये वधादिगुरुतरदण्डप्राप्तिसंभावना, तत्र परीक्षाविधानार्थम् ऋणादिसाहचर्याद् अज्ञत्वादिदोषपरीक्षायाः सार्वत्रिकत्वेन कुत्रचिद् विधानासंबवाच् च । यत् तु याज्ञवल्क्येनोक्तम्,

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ।

इति, तद् अपि गुणपरीक्षामात्रनिवृत्त्यर्थम् इत्य् अवगन्तव्यम् ।

**इति स्मृतिचन्द्रिकायां साक्षिलक्षणानि **