१६ भुक्तिनिरूपणम्

तत्र नारदः ।

श्रुत्वोत्तरं क्रियापादे लेख्यं सादनम् उद्दिशेत् ।
सामन्तलक्षणोपेता भुक्तिर् वा चिरकालिकी ॥

साधनशब्देनात्र गोबलीवर्दन्यायात् साक्षिण उच्यन्ते, तेनायम् अर्थः - लिखितं साक्षिणो वा गृहक्षेत्रादिविवादेषु उद्दिशेत् भुक्तिर् वा कीर्तनीयेति । अत एवानेन साक्षिषु विशेषो वर्णितः ।

गृहक्षेत्रादिवादेष सामन्तेभ्यो विनिर्णयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥
यद् वदन्ति नियोगस्थास् तद् ग्राह्यं व्यावहारिकम् ॥

एतद् उक्तं भवति - क्षेत्रादिस्थावरविवादे मानुषप्रमाणानाम् अन्यतमं प्रमाणम् उद्दिशेत् न नातु दिव्यम् इति । तत्रापि लिखितभुक्ती श्रेष्ठे इत्य् आह कात्यायनः ।

लिखितं साक्षिणो भुक्तिः प्रमाणत्रयम् इष्यते ।
प्रमाणेषु स्मृता भुक्तेः सल्लेख्यसमता नृणाम् ॥

नृणां प्रमाणेष्व् इत्य् अन्वयः । मानुषप्रमाणेष्व् इत्य् अर्थः । सल्लेख्यम् अनवद्यलेख्यम् । क्वचिद् भुक्तेर् एव श्रैष्ठ्यम् इतराभ्याम् आह स एव ।

रथ्यानिर्गमनद्वारजलवाहादिसंशये ।
भुक्तिर् एव तु गुर्वी स्यात् प्रमाणेष्व् इति निश्चयः ॥

रथ्यादिव्यतिरिक्तविषये ऽपि भुक्यनुग्रहम् अन्तरेण नेतरयोर् गुरुत्वम् इत्य् आह नारदः ।

विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
विशेषतः स्थावराणां यन् न भुक्तं तद् अस्थिरम् ॥

याज्ञवल्क्यो ऽपि ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ इति ।

आगमे लिखितसाक्षिपरिज्ञेयक्रयादाव् (?) इत्य् अर्थः । अनेनागमलेख्यादेत् दोषशङ्कापनोदकतया स्तोकभुक्तिर् अनुग्राहकमात्रम् एव न प्रमाणम् इत्य् अर्थाद् उक्तम् । उक्तं च कात्यायनेन ।

शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
दश वर्षाण्य् अतिक्रान्तं तल् लेख्यं दोषवर्जितम् ॥

बृहस्पतिनापि ।

यस्यैकशासने ग्रामक्षेत्रारामाश् च लेखिताः ।
एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥ इति ।

यत् पुनर् लेख्यम् अनिवारितप्रतिकूलदानस्य स्वामिनः तद् विफलम् एवेत्य् आह स एव ।

पश्यन्न् अन्यस्य ददतः क्षितिं यो न विचालयेत् ।
स्वामी सतापि लेखेयेन् न पुनस् ताम् समाप्नुयात् ॥

सतापि समीचीनेनापीत्य् अर्थः । क्षितिम् इति देयद्रव्योपलक्षणार्थम् । यद् आह स एव ।

रिक्थिभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चात् न स तल् लब्धुम् अर्हति ॥

समक्षदानेनाप्रतिषिध्यमानेन स्वाम्यनुमतिपूर्वकत्वसूचकेन स्वामिनो यदागमलेख्यं तस्य स्वत्वसाधकत्वे प्रतिहतिर् भवतीत्य् अर्थः । अनेनार्थलेख्येन स्वार्थसिद्धिम् इच्छता स्वामिना समक्षदानं प्रतिषेद्धव्यं यत्नत इत्य् उक्तं भवति । एवं समक्षभोगाप्रतिषेधे ऽपि द्रष्टव्यम् । तथा च व्यासः ।

वर्षाणि विंशतिं यस्य भुक्ता पृथ्वीपरैर् इह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥

सतापि लेख्येनेति शेषः । अत एव संवर्तः ।

भुज्यमाने गृहक्षेत्रे विद्यमाने तु राजनि ।
भुक्तिर् यस्य भवेत् तस्य न लेख्यं तत्र कारणम् ॥

तस्य भोक्तुर् भुज्यमानं भवेद् यतस् तत्रोपेक्षस्यागमलेख्यं न कारणं न साधनम्, भोगोपेक्षया स्वत्वापत्तिसूचिकया लेख्यसाधकत्वस्य प्रतिहतत्वाद् इत्य् अर्थः । एतच् च लेख्यवैयर्थ्यकथनार्थम् उक्तं न पुनर् भोक्तुः स्वामित्वप्रतिपादनार्थं तस्य भोगमात्रेण स्वामित्वासिद्धेः । अत एव कात्यायनः ।

नोपभोगबलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥

अत एव व्यासेन धेनुदृष्टान्तो दत्तः ।

डपेक्षिता यथा धेनुर् विना पालेन नस्यति ।
पश्यतो ऽन्यैस् तथा भूमिर् भुक्ता तेन तु हीयते ॥

याज्ञवल्क्येनापि एवम् उपेक्षकस्याहानिर् एवाभिहिता, न पुनर् भोक्तुः स्वत्वापत्तिः ।

पश्यतो ऽब्रुवतो भूमेः हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ इति ।

हानिश् चात्र लिखितबलेनात्मीयत्वप्रसाधनमात्रस्याभिप्रेता, न पुनर् भूम्यादौ तत्फले वा स्वत्वस्य, नोपेक्षामात्रेण स्वत्वम् अपैतीत्य् उक्तत्वात् । तेनात्र न धर्माख्यनिर्णयवशाद् उपेक्षकस्य हानिः, तद्वशेनात्मीयत्वप्रसाधनसंभवात्, किं तु द्वितीयव्यवहाराख्यनिर्णयाद् भोक्तुर् अनिन्द्यत्वं स्वामिनो निरुत्तरत्वेनास्वामिनो जितत्वात् । तद् आह मनुः ।

अजडश् चेद् अपौगण्डो विषये चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ इति ।

व्यवहारशब्दार्थम् आह बृहस्पतिः ।

प्रमाणनिश्चितो यस् तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥ इति ।

प्रमाणनिश्चितो मानुषप्रमाणनिश्चितः । वाक्ष्हलव्यवहारेण निरुत्तरत्वेन वा भग्नस्यापि वास्तवो व्यवहारो भवत्य् एव । प्रमाणराहित्येन भोक्तुर् जयस्य शिथिलत्वात्,

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।

इति याज्ञवल्क्येनाप्य् उक्तत्वात् । एवं प्रतिकूलदानभोगयोर् अप्रतिषेधे साक्षिणाम् अपि वैयर्थ्यं दण्डापूपन्यायसिद्धं बोद्धव्यम् । अत एव नारदः ।

उपेक्षां कुर्वतस् तस्य तूष्णींभूतस्य तिष्ठतः ।
काले ऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥

मानुषप्रमाणात् तस्य स्वार्थो न सिध्यतीत्य् अर्थः । संग्रहकारो ऽपि ।

अभुक्तिर् आगमो मोधो भुज्यमाने परैर् अपि । इति ।

आगमशब्देनात्र तत्प्रमाणभूतलिखितसाक्षिणाव् उक्तौ ¦ अत एव प्रायेण साक्षिसाध्येष्व् अपि हानिम् आह मरीचिः ।

धेनुवाह्यालंकरणं याचितं प्रीतिकर्मणा।
चतुःपञ्चाब्दिकं देयम् अन्यथा हानिम् आप्नुयात् ॥

अत्रापवादम् आह मनुः ।

संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥

दम्यो वत्सतरः । याचितके त्व् अपवादम् आह व्यासः ।

याच्ञाधर्मेण (?) यद् भुक्तं श्रोतियै राजपूरुषैः ।
सुहृद्भिर् बान्धवैर् वापि न तद् भोगेन हीयते ॥

“यत्” अलंकरादीत्य् अर्थः । अहानौ कारणम् अप्य् आह स एव ।

धर्मोक्षयश् श्रोत्रिये स्यात् भयं स्याद् राजपूरुषे ।
स्नेहः सुहृद्बान्धवेषु भुक्तम् एतैर् न हीयते ॥

भुक्तं पञ्चवर्षाद् ऊर्ध्वम् अपीति शेषः । अनेन सकारणोपेक्षायां न कदाचिद् धानिर् इत्य् उक्तम् । तेन दशवार्षिकविंशतिवार्षिकहान्योर् अपि अपवादः सकारणोपेक्षायाम् द्रष्टव्यः । अत एव मनुः ।

आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति ॥

सीम्नि तत्रत्यचिह्नैः सुसाधनत्वम् उपेक्षाकारणम् । स्त्रीष्व् अप्रागल्भ्यम् । राजश्रोत्रिययोर् दृष्टादृष्टकर्यवैयग्र्यम् । अविशेष्टेषूपेक्षारारणं व्यक्तम् । एवं संबन्धरूपोपेक्षाकारनसंभवे ऽप्य् अहानिः । तथा च व्यासः ।

सनाभिभिर् वान्धवैर् वा भुक्तं यत् स्वजनैस् तथा ।
भोगे तत्रे न सिद्धिः स्याद् भोगम् अन्यत्र कल्पयेत् ॥

तत्र सनाब्यादिभोगे संबन्धित्वेनोपेक्षासंभवात् । भूम्यादिहानेर् न सिद्धः स्याद् इत्य् अर्थः । पितामहो ऽपि ।

भुक्तिर् बलवतीं तत्र भोक्ता यत्र परो भवेत् ।
स्वगोत्रे भोगिनां भुक्तिर् न शक्ता शाश्वती नृणाम् ॥

बलवती स्वप्रतिकूललेख्यादेर् वैयर्थ्यकर्ती । स्वगोत्रे स्वमातापितृबन्ध्ष्व् इत्य् अर्थः । तथा च कात्यायनः ।

न भोगं कल्पयेत् स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ॥

देवानाम् अनिराकर्तृस्वभावत्वात् तद्धनस्यान्यभोगे न हानिः । श्रोत्रियग्रहणम् अन्यासक्तोपलक्षणार्थम् । अत एव नारदः ।

ब्रह्मचारी चरेत् कश्चित् व्रतं षट्त्रिंअदाब्दिकम् ।
अर्थार्थी वान्यविषये दीर्घकालं वसेन् नरः ॥
समावृत्तो व्रती कुर्यात् स्वधनान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस् तद्धनस्यापहारकः ॥
प्रतिवेदं द्वादशाब्दः कालो विधार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥
सुहृद्भिर् बन्धिभिश् चैषां यत् संभुक्तम् अपश्यताम् ।
नृपापराधिनां चैव न तत्कालेन हीयते ॥ इति ।

एतच् चापवादजातं भोक्तुर् आगमाभावे वेदितव्यम् । अत एव बृहस्पतिः ।

न स्त्रीणाम् उपभोगः स्याद् विना लेख्यं कथंचन ।
राजश्रोत्रियवित्ते च जडबालधने न च ॥

स्त्रीणां धन इति शेषः । विना लेख्यं विनागमप्रमाणं । नारदो ऽपि ।

स्त्रीधनं नरेन्द्राणां न कथंचन जीर्यते ।
अनागमं भुज्यमानं वर्षाणां तु शतैर् अपि ॥

नरेन्द्राणां च धनम् इत्य् अर्थः । तथा च स एव ।

प्रत्यक्षपरिभोगाच् च स्वामिनो द्विशताः समाः ।
आध्यादीन्य् अपि जीर्यन्ते स्त्रीनरेन्द्रधनाद् ऋते ॥

आध्यादीन्य् अपीति प्रौढिवादः, तेषाम् अपि भोगोपेक्षाकारणसंभवेन स्त्रीधननरेन्द्रधनतुल्यत्वात् । अनागमम् इति वदन्न् आगमसंभवे जीर्यत एवेति दर्शयति । दर्शितं च हारीतेन ।

भटचाटबलाद् भुक्तं हृतं गुप्तम् अथापि वा ।
स्नेहप्रणयदत्तं च प्रदत्तं भाटकेन वा ॥
तथा वसनरक्षार्थं याचितं प्रणयेन वा ।
एवं बहुविधे भोगे आगमो निर्णयः स्मृतः ॥ इति ।

वसनरक्षार्थं गृहरक्षणार्थम् । एवं चोपेक्षाकारणरहिता प्रतिकूला भुक्तिर् आगमाभावे ऽप्य् उक्तकाला लिखितसाक्षिणोर् वैयर्थ्यम् आपादयतीत्य् अनुसंधेयम् । अतो लिखितसाक्षिणाव् अनुकूलभुक्तियुक्तौ प्रतिकूलसमक्षदानादिरहितौ वृहक्षेत्रादिविषये प्रमाणतया कीर्तनीयौ । भुक्तिः पुनः कीदृग्विधा कीर्तनीयेत्य् अपक्षित उक्तम् ।

सामन्तलक्षणोपेता भुक्तिर् वा चिरकालिकी । इति ।

साध्यभूतक्षेत्रादेः समन्ततो यत् क्षेत्रादि तत् स्वामिनः सामन्ताः, तैर् विज्ञाता सामन्तोपेता । लक्षणोपेता तु पितामहेन दर्शिता ।

सागमा दीर्घकाला च विच्छिन्नोपरवोज्झिता ।
प्रत्यर्थिसंनिधाना च भुक्तिः पञ्चविधा स्मृता ॥

आगमा आगममूलिका । तथा च हारीतः ।

न मूलेन विना शाखा अन्तरिक्षे प्ररोहति ।
आगमस् तु भवेन् मूलं भुक्त्ः शाखा प्रकीर्तिता ॥

कः पुनर् आगम इत्य् अपेक्षिते नारदः ।

लब्धं दानक्रयप्राप्तं शौर्यं वैवाहिकं तथा ।
बान्धवाद् अप्रजाज् जातं षड्विधस् तु धनागमः ॥

लब्धं जन्मना लब्धं पैतृकादि, अथ वा दर्शनेन लब्धं निध्यादि । बृहस्पतिर् अपि ।

विद्यया क्रयबन्धेन शौर्याप्तं भार्ययान्वितम् ।
सपिण्डस्याप्रजस्यांशः स्थावरं सप्तधाप्य् एते ॥

बन्ध आधिः । सो ऽपि क्वचित् स्वत्वनिमित्तं भवतीति वक्ष्यामः । दीर्घकाला त्रिंशद्वर्षाद् अनल्पिका । तथा च स एव ।

अध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।
त्रिंशद्वर्षा त्व् अविच्छिन्ना तस्य तां न विचालयेत् ॥

अध्यासनं परिग्रहः । एवं च दीर्घकाला भुक्तिर् आगमानुगृहीतप्रमाणम्, अदीर्घकाला चेत् तद् अनुगृहीतागम इत्य् अनुसंधेयम् । अत एव पितामःअः ।

नागमेन विना भुक्तिः नागमो भुक्तिर् बीजतः ।
तयोर् अन्योन्यसंबन्धात् प्रमाणत्वं व्यवस्थितम् ॥

पूर्वोक्तव्यवस्थयेति शेषः । अनेनैवाभिप्रायेण बृहस्पतिर् अपि ।

भुक्त्या केवलया नैव भुक्त्ः सिद्धिम् अवाप्नुयात् ।
आगमेनापि शुद्धेन द्वाभां सिद्ध्यति नान्यथा ॥

केवलया आगमरहतयेत्य् अर्थः । एवं विशेषणान्तररहितयाप्य् असिद्धिः । अत एव व्यासः ।

सागमो दीर्घकालश् च विच्छेदोपरवोज्झितः (?) ।
प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग इष्यते ॥

पञ्चाङ्ग इति वदन् एकाङ्गवैकल्पे ऽप्य् अप्रामाण्यम् एव भोगस्येति दर्शयति । दर्शितं च नारदेन ।

संभोगं केवलं यस् तु कीर्तयेन् नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥

तेन सभ्यसंनिधाव् आगमाद्यङ्गम् अपि कीर्तनीयम् इत्य् अभिप्रायः । अत एव कात्यायनः ।

प्रणष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥

दानग्रहणम् आगमोपलक्षणार्थम् । चशब्दः सान्तत्यादिविसेषणसंग्रहार्थः । एवं चायर्मः (?) । भोगप्रमाणवदिना भोगाख्यं प्रमाणं तद्विशेषणानि आगमदीर्घकालदीनि च कीर्तनीयानि, कीर्तितानि च तद्विप्रतिपत्तौ साधनीयानि, कीर्तनमात्रे निश्चयाभावात् । तत्र दीर्थकालादिविशिष्टभुक्तिनिश्चयः साक्ष्यधीन इत्य् आह संग्रहकारः ।

भुक्तिप्रसाधने मुख्याः प्रथमं तत् कृषीवलाः ।
ग्रामण्यः क्षेत्रसामन्तास् तत्संधापयतः क्रमात् ॥

तत्संधपयतः दीर्घकालादिविशेषणंण् भुक्तिं चोद्भावयत इत्य् अर्थः । आगमम् उद्भावयतस् तु लिखितादित्रयं प्रमाणम् इत्य् आह स एव ।

लिखितं (?) साक्षिणो भुक्तिः क्रिया क्षेत्रगृहादिषु ।
आगमः क्रयदानादौ प्रत्याख्याते चिरन्तने ॥

उत्सन्नसत्ताप्रवादे क्रयाद्यागमे प्रत्याख्याते प्रतिवादिना निराकृते सति क्षेत्रादिष्व् आगमम् उद्भावयतो लिखितसाक्षिभुक्तयः प्रमाणम् इत्य् अर्थः । ननु कथं आगमे भुक्तिः प्रमाणम्, अनागममूलाया अपि भुक्तेर् परहारादौ दर्शनात् । मैवम्, दीर्घकालादिविशिष्टाया भुक्तेर् मूलान्तरादर्शने सत्य् आगममूलतैवावसीयते मन्वादिस्मृतेर् इव वेदमूलता । ननु तथापि स्मरणयोग्ये काले भुक्ताव् उपक्रान्तायां योग्यानुपलब्ध्या मूलभूतागमाभावनिश्चयात् कथं तत्र भुक्तिबलेनैवागमसिद्धिः । सत्यम्, अत एव तस्मिन् काले उपक्रान्तायां लिखितसाक्षिभ्याम् एवागमो ऽध्यवसीयते । स्मरणयोग्यकाले तु उपक्रान्तायां स्वबलेनापीति युक्तम् आगमे प्रमाणत्रयाभिधानम् । एतद् एव कात्यायनेनाप्य् उक्तम् ।

स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥ इति ।

अनुगमाभावात् योग्यानुपलब्ध्यात्मकबाधकाभावाद् इत्य् अर्थः । एतद् उक्तं भवति । स्मरणयोग्यपञ्चाधिकशतवर्षपर्यन्तातीतकालमध्ये प्रारब्धा भुक्तिः स्वेतरप्रमाणावगतागममूलैव स्वत्वे प्रमानम् इष्यते । स्वतः स्वमूलावगते योग्यानुपलब्ध्या वाध्यमानत्वात् । स्मरणायोग्ये पुनः पञ्चाधिकशतवर्षपर्यन्तातीतकालात् प्राचीनकाले प्रारब्धा स्वदार्ढ्यावगतागममूलिका विनापि मानान्तरावगतागममूलतां स्वत्वे प्रमाणम् इति । क्रमात् त्रिपुरुषागतेत्य् अस्य तु व्याख्या संग्रहकारेण कृता ।

स्वतन्त्रैः प्रेतपितृकैः भुक्ता या पूर्वजैस् त्रिभिः ।
भुक्तिस् त्रिपुरुषा ज्ञेया यावज्जीवम् अनुष्ठिता ॥

इयं च प्रायेणास्मार्तकालोपक्रमभुक्तेर् उदाहरणार्थम् उदिता, तेन भुक्तेर् आगमप्रमाणत्वे क्रमात् त्रिपुरुषागतत्वम् अनुपयोगि, अस्मार्तकालोपक्रमत्वम् एवोपयुज्यते । अत एव बृहस्पतिना पुरुषत्रयातिक्रमाभावे ऽपि कालत एव भुक्तेस् त्रिपुरुषत्वम् उक्तम् ।

पिता पितामहो यस्य जीवेच् च प्रपितामहः ।
त्रिंशत्समा या तु भुक्ता भूमिर् अव्याहता परैः ॥
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपौरुषी ।
त्रिपौरुषी च त्रिगुणा परतः स्याच् चिरन्तनी ॥

त्रिंशत् समा पञ्चोत्तरेति सेषः,

वर्षाणि पञ्चत्रिंशत् तु पौरुषो भोग उच्यते ।

इति स्मृत्यन्तर उक्तत्वात् । एवं चागमकर्त्रागमोद्भावनं लेख्यसाक्षिभ्याम् एव कार्यम्, भोगस्यास्मार्तकालीनोपक्रमवतो ऽसंभवात् । अत एव बृहस्पतिः ।

यत्राहर्ताभियुक्तः स्याल् लेख्यं साक्षी तदा गुरुः ।
तदभावे तु पुत्राणां भुक्तिर् एका गरीयसी ॥

तदभावे आहर्तृपुरुषाभावे । अनेनैवाभिप्रायेण कात्यायनो ऽपि ।

आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥

सुतग्रहणं पौत्रस्याप्य् उपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥

कृतागमेनागमोद्धरणं लेख्यसाक्षिभ्याम् एव कार्यम् । भुक्तेः स्मार्तकालीनोपक्रमत्वेनागमोद्भावने ऽपि क्षमत्वात् । एतत् कृतागमस्यागमो भोगात् पृथग् एव साध्यः । पुत्रपौत्रयोश् चाचिरन्तनभोगे तु भोगसाधननान्तरीयकतयापीत्य् अवगन्तव्यम् । तेन चिरन्तनोपभोगे तत्साधनेनैवालम् इत्य् आह बृहस्पतिः ।

आहर्ता साधयेद् भुक्तिम् आगमं चापि संसदि ।
तत्सुतो भुक्तिम् एवैकां (?) पौत्रादिस् तु न किंचन ॥

तत्पुत्रो भुक्तिम् एवैकां चिरन्तनीम् आद्यपुरुषेण भोक्तुम् उपक्रान्तकालाद् आरभ्य विवादात् प्राचीनकालपर्यन्तम् उपरवराहित्येन प्रतिपक्षतार्हपुरुषसमक्षम् अनुवर्तमानं साधयेद् इत्य् अर्थः । पुत्रग्रहणं पौत्रस्यापि प्रदर्शनार्थम् । पौत्रादिर् इत्य् अतद्गुणो बहुव्रीहिः । तेन पौत्रस्यापि पुत्रवद् एव द्रष्टव्यम् । अत एव स्मृत्यन्तरम् ।

आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरन् ।
न तत्सुतस् तत्सुतो वा भोगहानिस् तयोर् अपि ॥।

चिरन्तनभोगे ऽपीति शेषः । अनेन चिरन्तनभोगे प्रपौत्रादीनाम् आगमानुद्धरणे ऽपि न भोग्यहानिर् इत्य् अर्थाद् उक्तं भवति । उक्तं च विष्णुना ।

त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।
लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥

लेख्याभावे ऽपि क्रियाद्यागमप्रकाशकप्रमाणाभावे ऽपीत्य् अर्थः । अत एव बृहस्पतिः ।

राजान्तरैस् त्रिभिर् भुक्तं प्रमाणेन विनापि यत् ।
ब्रह्मदेयं न हर्तव्यं ताज्ञा तस्य कदाचन ॥

प्रमाणेन आगमप्रकाशकप्रमाणेनेत्य् अर्थः । नारदो ऽपि ।

यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

अत्यन्तं विनागमं भुक्त्याप्य् उपलभ्यमानम् आगमं विनेत्य् अर्थः । शङ्खो ऽपि । “पैत्रं विनाप्य् आगमेन पूर्वपूरुषाभ्यां भुक्तं लभेत” । पूर्ववचनसमानर्थम् एतत् । लभेत चतुर्थादिर् इति शेषः । तथा च बृहस्पतिः ।

भुक्तिस् त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता ।
तद्भोगः स्थिरतां याति न पृच्छेद् आगमं क्वचित् ॥

उक्तविधभोगे तन्मूलभूतागमं प्रति किम् अपि प्रमाणं क्वचिद् अपि न पृच्छेद् इत्य् अर्थः । सान्तत्यादिविसिष्टां भुक्तिं प्रति प्रमाणं पृच्छेद् एव । तथा च नारदः ।

आहर्तैवाभियुक्तः स्याद् अर्थानाम् उद्धरेत् पदम् ।
भुक्तिर् एव विशुद्धा स्यात् प्राप्तानां पितृतः क्रमात् ॥

पदं स्थानम् आगमम् इति यावत् । विशुद्धा सान्तत्यादिमत्तया प्रमाणतः सिद्धा । प्राप्तानां चतुर्थादीनाम् । बृहस्पतिर् अपि ।

अविच्छेदेन यद् भुक्तं पुरुषैस् त्रिभिर् एव तु ।
तत्र नैवागमः कार्यो भुक्तिस् तत्र गरीयसी ॥

तत्र चतुर्थादिष्व् आगमनिश्चयो नावश्यं कार्यः । यतस् तत्र भुक्तिः पूर्वपुरुषत्रयागता सान्तत्यादिविशेषणवत्तया साधिता गरीयसी, विनाप्य् आगमनिस्चयं स्वतन्त्रैव प्रमाणम् इत्य् अर्थः । तथा चाह स एव ।

स्थावरेषु विवादेषु भुक्तिस् त्रिपुरुषी च या ।
स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये ।

स्वतन्त्रा स्वमूलभूतागमनिश्चयानपेक्षेत्य् अर्थः । कात्यायनो ऽपि ।

भुक्तिस् तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपूरुषी या स्वतन्त्रानागमाल्पा तु सागमा ॥

सागमा निश्चितागमेत्य् अर्थः । ननु स्वतन्त्रापि निश्चितागमैव, स्वदार्ढ्येनैवागमनिश्चयात् । मैवम्, चिरन्तन्याः भुक्तेः अस्मार्तकालीनभोगस्य सान्तत्यादिविशेषणवत्तयोद्भावनाभावेन कृत्स्नाया दार्ढ्याभावात् । न च चतुर्थादीनां तद्भोगस्याप्य् उद्भावनं कार्यम् इति वाच्यम्, “पौत्रादिस् तु किंचन” (बृस्म् अबोवे) इत्य् अस्मार्थकालीनभोगस्योद्भावनिनिषेधात्,

भुक्तिर् एव विशुद्धा स्यात् प्राप्तानां पितृतः क्रमात् ।

इति स्मार्तकालीनभोगस्यैवोद्भावनविधानाच् च । अतः स्वतन्त्रा भुक्तिर् अनिश्चितागमा । कथं तर्हि तस्य स्वत्वे प्रामाण्यम् । उच्यते - आगमनिश्चयाभावे ऽपि एवं विधायाः प्रामाण्यम् इष्यते । सागमपक्षस्यात्यन्तासंभावितत्वात्, बाधकस्य चानागमनिश्चयस्याभावात् । तथा साहसादौ मिथ्यावादित्वनिश्चयाभावमात्रात् साक्षिणां प्रामाण्यम् इष्टम् ।

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे । इति ।

तथेहापि सर्वं सुस्थम् । अत एव कात्यायनः ।

चिरन्तनम् अविज्ञातं भोगं लोभान् न चालयेत् । इति ।

अविज्ञातम् अनागमतयेत्य् अर्थः । एतद् उक्तं भवति - यथा छलानुसारेण निर्णीतो ऽपि विंशतिवार्षिकभोगस्य पुनर् भूतानुसारेण चालनम् इष्टं न तथा चिरन्तनस्येति । हारीतो ऽपि ।

अन्यायेनापि यद् भुक्तं पित्रा भ्रात्राथ वापि च ।
न तच् छक्यं पराहर्तुं तृतीयं समुपागतम् ॥

तृतीयम् अतिक्रम्य समुपागतम् इत्य् अर्थः । अत एव नारदः ।

अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यं पराहर्तुं क्रमात् त्रिपुरुषागतम् ॥

पित्रा सह पूर्वतरैस् त्रिभिर् यद् भुक्तं तद् अन्यायेनेति वक्तुम् अशक्तम्, किं पुनर् अपहर्तुम् इत्य् अर्थः । यत् पुनस् तेनोक्तम्,

आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥

इति, तद् अत्रिपुरुषागतभोगविषयम्, भोगमात्रविषयत्वे पूर्वोक्तानेकवचनविरोधात्,

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।

इति याज्ञवल्क्यवचनविरोधाच् च । यत् तु बृहस्पतिनोक्तम्,

यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता ।
एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥

इति, तत् स्मार्तकालानतिक्रान्तत्रिपुरुषभोगविषयम् । यत् पुनर् नारदेनोक्तम्,

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥

इति, तद् येन केनचित् प्रमाणेन निश्चितानागमभोगविषयम्, अनागमम् इति सिद्धवन्निर्देशात् (?) । निश्चितानागमाश् च भोगास् तेनैव दर्शिताः ।

अन्वाहितं भृतन्यस्तं बलावष्टब्धयाचिते ।
अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥

अन्वाहितम् अन्यस्म्यौ (?) दातुम् अर्पितम् । याचितं परकीयद्रव्यम् अलङ्काराद्यर्थम् आनीतम् । बलावष्टब्धं राजप्रसादादिबलेन भुक्तम् । एवंविधस्य चिरन्तनस्यापि भोगस्य न प्रामाण्यम् । तथा च स एव ।

ग्रामक्षेत्रं गृहं चैव भुक्तं यस्य क्रमागतम् ।
राजप्रसादाद् अन्यत्र न तद् भुक्तं परं नयेत् ॥

राजप्रसादाद् अन्यायभूताद् इति शेषः । तथा च संवर्तः ।

या राज्ञा क्रोधलोभेन छलन्यायेन वा कृता ।
प्रदत्तान्यस्य (?) तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥

या खल्व् अन्यस्य भूः क्रोधादिना राज्ञा परभोग्यतया कृता, तुष्ट्या वान्यस्मै दत्ता, सा चिरन्तनभोगेनापि न भोक्तुः सिध्यतीत्य् अर्थः । एवं शासनविरोधेन भुक्तस्याप्य् असिद्धिर् द्रष्टव्या । तथा च बृहस्पतिः ।

यस्य त्रिपुरुषा भुक्तिः पारम्पर्यक्रमागता ।
न सा चालयितुं शक्या पूर्वकाच् छासनाद् ऋते ॥

यत् तु पितामनेनोक्तम्,

स्वहस्तकाज् जानपदं तस्मात् तु नृपशासनम् ।
ततस् त्रैपुरुषो भोगः प्रमाणतरम् इष्यते ॥

इति, तत् प्रवादपरम्परायातप्रसिद्धानिश्चितागमभोगविषयम्, अन्यथा पूर्वोक्तवचनविरोधात् । एवं पूर्वपुरुषप्रसाधितागमाया अपि भुक्तेः प्रमाणतरत्वम् अवगन्तव्यम् । तथा च बृहस्पतिः ।

भुक्तिर् बलवती शास्त्रे ह्य् अविच्छिन्ना चिरन्तनी ।
विच्छिन्नापि हि सा ज्ञेया यातु पूर्वं प्रसाधिता ॥

या चिरन्तनी पूर्वपुरुषप्रसाधितागमा सा विच्छिन्नापि बलवती ज्ञेयेत्य् अर्थः । व्यासो ऽपि ।

आहर्त्रा याभियुक्तेन प्रमाणेन प्रसाधिता ।
भूमिः सा तत्सुतात् प्राप्ता न हर्तव्या कदाचन ॥

तत्सुतात् न हर्तव्येत्य् अन्वयः । यदा त्व अभियुक्तेनाहर्त्रा न साधिता तदा तत्सुतेन चिरन्तनभोगारूढेनाप्य् आहर्तृवद् एव साध्या । तथा च ब्र्हस्पतिः ।

उद्धरेल् लेख्यम् आहर्ता तत्पुत्रो भुक्तिम् एव तु ।
अभियुक्तः प्रमीतश् चेत् तत्पुत्रस् तत् समुद्धरेत् ॥

पूर्वाभियोगेन भुक्तेर् अदार्ढ्यात् तदुद्धरणमात्रेणात्रागमसिद्ध्यभावद् आगमम् अप्य् उद्धरेद् इत्य् अर्थः । लेख्यग्रहणं साक्षिणो ऽपि प्रदर्सनार्थम् । तस्याप्य् आहर्तृकर्तृकागमोद्धरणे प्रमाणत्वात् । नारदो ऽपि ।

तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संसाध्यो न तद्भोगान् निवर्तते ॥

यथाहर्त्रा लिखितसाक्षिभ्याम् एवागमः संसाध्यो भवति तथेत्य् अर्थः । पुत्रग्रहणं धनग्राहिण उपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

सो ऽभियुक्तः परेतः स्यात् तस्य रिक्थं तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विनाकृता ॥

तम् आगमं चतुर्थादिर् अप्य् अवश्यं समुद्धरेत् । यस्मात् स्वतन्त्रा भुकिस् तत्राप्रमाणम्, अविगीतत्वाभावाद् इत्य् अर्थः । एवं च य (?) यद् उक्तं नारदेन,

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैकं संतता या चिरन्तनी ॥

इति, तद् आहर्तृनिर्णीताभियोगाभावविषयम् इति मन्तव्यम् । अक्षरार्थस् तु संग्रहकारेण दर्शितः ।

कृतागमस्योक्तकाले भुक्ते स्यात् प्रभुर् आगमः ।
तस्यैवात्मतृतीयस्य प्रभुर् भुक्त्ः स्फुटागमा ॥
भुक्तिर् या सा चतुर्थस्य प्रमाणं संततागता ।
परित्यक्तागमा भुक्तिः केवलैव प्रभुर् मता ॥ इति ।

कृतागमस्य आगमकर्तुः । उक्तकाले त्रिंशद्वर्षात्मक इत्य् अर्थः । प्रभुः प्रधानम् । स्फुटागमा प्रमाणपरिच्छिन्नागमा, या संततागता भुक्तिः चिरन्तनी चतुर्थादेः, प्रमाणं सा परित्य्क्तागमनिश्चया । प्रभुः स्वत्वनिर्णयक्षमेति द्वितीयश्लोकार्थः । यत् पुनर् व्यासेनोक्तम्,

वर्षाणि विंशतिं भुक्ता स्वामिनाव्यहता सती ।
भुक्त्ः सा पौरुषी भूमेर् द्विगुणा तु द्विपौरुषी ॥
त्रैपौरुषी च त्रिगुणा न ततो ऽन्वेष्य आगमः ।

इति, तच् चतुर्थादिभुक्तेष्व् अष्ट्याब्दिक्याः प्रारम्भकालीनपुरुषाणां जीवताम् अभावे चिरन्तनकालीनभोगतुल्यतापत्तौ सत्यां द्रष्टव्यम्, अन्यथा

स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।

इत्यादिवचनविरोधापत्तेः । एवं च पञ्चाधिकशतवर्षपर्यन्तस्य स्मार्तकालत्वाभिधानं प्रायिकाभिप्रायेणेति मन्तव्यम् ।

इति स्मृतिचन्द्रिकायां भुक्तिनिरूपणम्