१५ लेख्यपरीक्षा

अथ लेख्यपरीक्षा

तत्र कात्यायनः ।

राजा क्रियां समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥

सुव्यक्तवर्णवाक्यादिको लेख्याचारः । सो ऽपि तेनैव दर्सितः ।

वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत् सिद्धिम् आप्नुयात् ॥

क्रिया साध्यम् । चिह्नं मुद्रा सा राजकीयलेख्य एव । तथा च नारदः ।

राज्ञा स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥

तथा जानपदं प्रकृत्याह स एव ।

लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥

देशस्थितेः देशाचारानुसारेण । तयोः सिद्धिः प्रामाण्यम् इत्य् अर्थः । स्वहस्तकृते तु विशेषम् आह याज्ञवल्क्यः ।

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपाधिकृताद् ऋते ॥

विनापीत्य् अपिशब्दात् ससाक्षिकम् अपि स्वहस्तलिखितम् अस्तीति गम्यते । अन्यकृतं तु साक्षिकम् अपि स्वहस्तलिखितम् अस्तीति गम्यते । अन्यकृतं तु साक्षिमद् एव प्रमाणम् । तथा च पितामहः।

वादिभ्याम् अभ्यनुज्ञातं लेखकेन ससाक्षिकम् ।
लिखितं सर्वकार्येषु तत् प्रमाणं स्मृतं बुधैः ॥

कात्यायनो ऽपि ।

देशाचारयुतं वर्षमासपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यम् उच्यते ॥

वृद्दिह्ग्रहणम् आधेर् उपलक्षणार्थम् । अत एव आह नारदः ।

देशाचारविरुद्धं यत् व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥

व्यक्तम् आधिविधेर् आधिकरणस्य लक्षणं यस्मिन् लेख्ये तत् तथोक्तम् । यल् लेख्यम् अविलुप्तक्रमाक्षरादिलक्षणान्वितं तत् प्रमाणं कालान्तरे ऽपि वस्तुतत्त्वावबोधकम् इत्य् अर्थः । अनेवंविधम् अप्रमाणम् इत्य् अर्थाद् एव सिद्धम् । तथापि स्पष्टार्थम् आह कात्यायनः ।

स्थानभ्रष्टास् त्व् अपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।
यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥
देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतं च स्वामिना यच् च साध्यहीनं च दुष्यति ॥ इति ।

हारीतो ऽपि ।

यच् च काकपदाकीर्णं तल् लेख्यं कूटताम् इयात् ।
बिन्दुमात्रविहीनं यत् संहितं चरितं च यत् ॥

बृहस्पतिर् अपि ।

यद् उज्ज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।
भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥
मुमूर्षुशिशुभीतार्थस्त्रीमत्तव्यसनातुरैः ।
निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥ इति ।

नारदो ऽपि ।

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं तु यत् ।
तद् अप्रमाणं लिखितं भयोपाधिकृतं तथा ॥

कात्यायनो ऽपि ।

मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर् बालास्वतन्त्रैश् च कृतं लेख्यं न सिध्यति ॥

मुमूर्ष्वादिकृतम् अयथार्थशङ्कया न प्रमाणतां प्रतिपद्यत इति बार्हस्पत्यादिवचनानां तात्पर्यार्थः । एवं साक्ष्यादिवैगुण्ये ऽपि न प्रमाणम् । तथा च व्यासः ।

दूषितः कर्मदुष्टो वा साक्षी यत्र निवेशितः ।
कूटलेख्यं तु तत् प्राहुः लेखको वापि तद्विधः ॥

कात्यायनो ऽपि ।

साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्यापि वा दोषात् तथा धारणकस्य वा ॥

अत्र ये गूढदोषास् ते विवादिन वक्तव्याः । ये पुनः प्रकटास् ते सभ्यैर् इत्य् आह स एव ।

प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥

प्रमाणस्य प्रमाणतया कीर्तितस्य । काले प्रमाणपरीक्षाकाल इत्य् अर्थः । कालातिक्रमणोक्तास् तु दोषा न प्रामाण्यं विघ्नन्तीत्य् आह बृहस्पतिः ।

लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥

पश्चाद् उक्तात् प्रमाणपरीक्षापर्यवसानात् पश्चान् न दूषयेद् इत्य् अर्थः । गूढदोषोद्भावनप्रकारम् आह कात्यायनः ।

साक्षिलेखककर्तारः कूटतां यान्ति ते तथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर् लेख्यं प्रदुष्यति ॥

अथ वा, आरूढलेखकेन न लिखितम् आरूढसाक्षिभिर् वा न दृष्टं दुष्टम् इत्य् उद्भावनीयम् इत्य् आह स एव ।

न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥

उक्तेनार्थेनेति शेषः । तथा च स एव ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥

एवं दूषणवाद्युदितदोषसंभवे तान् दोषान् इतरस्य सभापतिः निरूपयेत् । तथा च स एव ।

एवं दुष्टं नृपस्थाने यस्मिन् तद् धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान् निरूपयेत् ॥

तत्र यदीतरेण ते दोषा न परिहृताः तदा दुष्टं लेख्यम्, परिहृताश् चेद् अदुष्टम् इत्य् आह स एव ।

येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल् लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥

उपगताख्यलेख्यस्य त्व् अधमर्णसंमत्या शुद्धिर् नो चेन् नेत्य् आह स एव ।

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत् कूटं न चेत् कर्ता कृतं हीति विभावयेत् ॥

कर्ता धनिको ऽधमर्णानुमत्या कृतम् इति यद् न विभावयेत् न साधयेत् तदा न जानामीत्य् अधमर्णेन लेख्यं कूटं भवेद् इत्य् अर्थः । यदा पुनः स्वहस्तनिह्नवेन लिखितं दूषयति तदा तदारूढसाक्ष्याद् इतो दुष्टम् अदुष्टं वेति निश्चेतव्यम् । तथा च स एव ।

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते ।
पत्रस्थैः साक्षिभिर् वाच्यो लेखकस्य मतेन वा ॥

अकृतत्वेन दूषिते ऽप्य् अयम् एव निश्चय इत्य् आह स एव ।

कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ॥ इति ।

साक्षिग्रहणम् उपलक्षणम्,

दूषिते पत्रके वादी तदारूढांस् तु निर्दिशेत् ।

इति तेनैवोक्तत्वात् । यत् पुनर् नारदेनोक्तम्,

यस्मिंस् तु संशयो लेख्ये भूताभूतकृतः क्वचित् ।
तत् स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिर् उद्धरेत् ॥

इति, यद् अपि याज्ञवल्क्येन,

संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥

इति, तद् असक्षिकस्वहस्तकृतलेख्यविषयम् । तत्र साक्ष्यादिस्पष्टनिर्नायकाभावात् । अत एव हारीतः ।

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत् स्वहस्तकृतैर् अन्यैः पत्रैस् तल् लेख्यनिर्णयः ॥

स्वहस्तकृतैर् इति पूर्वोक्तक्रियाद्युपलक्षणार्थम् । यत्र पुनर् अस्ति ससाक्षिकस्वहस्तकृतलेख्यादौ साक्ष्यादि स्पष्टनिर्णायकं न तत्र लेख्यान्तरसादृश्यात् स्पष्टनिर्णायकेन स्पष्टनिर्णायकेन निर्णयः । तद् आह कात्यायनः ।

प्रत्यक्षम् अनुमानेन न कदाचित् प्रबाध्यते ।
तस्माल् लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥
निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ॥ इति ।

साक्षिणां वचोभिर् न पुनर् अधर्णवचनतः, तस्याशयदोषसंभवाद् इत्य् अर्थः । अनेनैवाभिप्रायेण नारदेनाप्य् उक्तम् ।

लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् ॥ इति ।

अविद्यमानसाक्ष्यादिकं लिखितं तत्सजातीयलिखितादिना शोधयेद् इत्य् अर्थः । यत् पुनस् तेनोक्तम्,

साक्षिभ्यो लिखितं ज्ञेयं लिखितान् न तु साक्षिणः ।

इति, तल् लेख्यानारूढसाक्षि**पयम् (?) । अतः साक्ष्यादिमतो लेख्या रूढसाक्ष्यादिभिर् निर्णयः । असाक्षिमतः स्वहस्तकृतलेख्यान्तरसादृश्यादिभिर् इत्य् अनुसंधेयम् । कथं तर्हि मृतसाक्ष्यादिमतः निर्णय इत्य् अपेक्षिते कात्यायनः ।

अथ पञ्चत्वम् आपन्नो लेखकः सह साक्षिभिः ।
तत्स्वहस्तादिभिस् तेषां विशुध्येत् तु न संशयः ॥

तेषां मृतसाक्ष्यादीनाम् । तत् स्वहस्तादिभिः पत्रान्तरप्रसिद्धहस्तगोत्रवर्णसादृश्यप्रभृतीभिर् इत्य् अर्थः । विष्णुर् अपि ।

यतर्णी धनिको वापि साक्षिई वा लेखको ऽपि वा ।
म्रियते तत्र तल् लेख्यं तत् स्वहस्तैः प्रसाधयेत् ॥ इति ।

राजकीयं प्रत्याह कात्यायनः ।

पश्चात्कारनिबद्धं यत् तद् यत्नेन विचारयेत् ।
यदि स्याद् युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥
अन्यथा दूरतः कार्यं पुनर् एव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ॥
निवर्त्यं तत् प्रमाणं स्यात् यत्नेनापि कृतं नृपैः ॥

पश्चात्कारनिबद्धं पश्चात्काराख्यजपत्रनिवेशितम् इत्य् अर्थः । तथा,

समुद्रे तु यथा लेख्ये मृताः सर्वे ऽपि तत् स्थिताः ।
लिखितं तत् प्रमाणं तु मृतेष्व् अपि हि तेषु वै ॥

प्रमाणं मुद्रादिभिर् इति शेषः । अत एव शासनं मुद्राम् उदाहृत्याह प्रजापतिः ।

कार्यो यत्नेन महता निर्णयो राजशासने ।
राज्ञा स्वहस्ततन्मुद्रालेखकाक्षरदर्शनात् ॥

कात्यायनो ऽपि ।

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राज्ञः स्वहस्तसंशुद्धं शुद्धिम् आयाति शासनम् ॥

क्रियाशुद्धम् अपशब्दानन्वयादिरहितम् । जानपदलेख्यम् अपि क्वचिद् भुक्त्या शुद्धिम् आयातीत्य् आह स एव ।

शक्तस्य संनिधाव् अर्थो येन लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत् पत्रं दोषवर्जितम् ॥

स्मृत्यन्तरे ऽप्य् उक्तम् ।

अथ विंशतिवर्षाणि आधिर् भुक्तिः सुनिश्चितम् ।
येन लेख्येन तत् सिद्धं लेख्यं दोषविवर्जितम् ॥
सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रयोक्तव्या यावद् वर्षाणि विंशतिम् ॥
आदानसहितं पत्रम् ऋणलेख्यनिवेशितम् ।
मृतसाकि प्रमाणं तु स्वल्पभोगे ऽपि तद् विदुः ॥

आधानम् आधिः । मृतसाक्षि प्रमीतसाक्ष्यादिकम् । तथा च नारदः ।

मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तद् अप्य् अनर्थं लिखितं न चेद् आधिः स्थिराश्रयः ॥

आश्रयो भुक्तिः । अथ वा लिखितबलायातकिंचिद्वृद्ध्यादिधनलब्ध्याधमर्णस्य पुरस्तात् तल् लेख्यख्यापनेन वा शुद्धिर् इत्य् आह स एव ।

यदि लब्धं भवेत् प्रज्ञप्तिर् वा कृता भवेत् ।
प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥

प्रज्ञप्तिम् एव प्रपञ्चयति ।

दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥

प्रजापतिर् अपि क्वचिद् भुक्त्या शुद्धिम् आह ।

हेत्वन्तरकृते पत्रे आरूढो यत्र निह्नुते ।
लेख्यं यस्य भवेद् धस्ते तस्य भोगं विनिर्दिशेत् ॥

निर्णायकत्वेनेति शेशः । भोगग्रहणम् उपलक्षणार्थम् । अत एव नारदः ।

लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत् संबन्धागमहेतुभिः ॥

हेत्वन्तरकृतं दायादेर् वञ्चनार्थं कृतम् । विप्रत्ययो विप्रतिपत्तिः । संबन्धः प्राचीनो धनदानप्रतिदानादिलक्षणः । आगमः एतावतो धनस्य संभवो ऽस्यास्ति नेत्य् एवमात्मकः । हेतुर् अनुमानम् । एवं धनिनामाङ्कं लेख्यम् अपि वञ्चनादिहेतुकृतम् परीक्ष्यम् । तथा च बृहस्पतिः ।

स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस् तु तत् ॥
ज्ञात्वा कार्यं देशकालकुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं तद् यत्नेन विचारयेत् ॥

लिप्यविज्ञो लिप्यनभ्ज्ञः । कात्यायनो ऽपि ।

दर्षणस्थं यथा बिम्बम् असत्सद् इव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥

व्यासो ऽपि ।

लेख्यम् आलेख्यवत् केचित् लिखन्ति कुशला नराः ।
तस्मान् न लेख्यसामर्थात् सिद्धिर् ऐकान्तिकी मता ॥

तेन सम्यक् परीक्षणियम् इत्य् अभिप्रायः । अत एव नारदः ।

पुरुषाः सन्ति ते कोभात् कार्यं यं ब्रूयुर् अन्यथा ।
सन्ति चान्ये दुरात्मानः कूटसेख्यकृतो जनाः॥
परीक्ष्यम् एतद् उभयं स्वयं राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ इति ।

लेख्याचारेण प्रागुदितशुद्धिहेतुजातेनेत्य् अर्थः । यत् पुनस् तद्धेतुजातेन न शुद्धिम् आयाति लेख्यं तद् अप्रमाणम् एव, तेन तत् परित्यज्य दिव्येन निर्णयं कुर्यात्,

अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।

इति कात्यायनस्मरणात् । तथा हारीतेनाप्य् अनेनैवाभिप्रायेणोक्तम् ।

न मयैतत् कृतं लेख्यं कूटम् अन्येन कारितम् ।
अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयः ॥ इति ।

यत्र लेख्ये सर्वथा कूटशङ्कानपगमः तत्र साध्यार्थनिर्णयो दिवेनेति तात्पर्यार्थः । उदाहरणतयोक्तस्वहस्तलेख्यस्यानादरणीयत्वात् । तेन स्वहस्तगोत्रचिह्नादिसंभवे ऽपि प्रतिवादिनो दृढविप्रतिपत्त्या कूटशङ्कानपगमो यत्र भवेत् तत्रापि दिव्येन निर्णयः । तथा च प्रजापतिः ।

यन् नामगोत्रैस् तत्तुल्यरूपं लेख्यं क्वचिद् भवेत् ।
अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥

तत्तुल्यरूपम् अविप्रतिपन्नलेख्यान्तरतुल्यरूपम् ।म् अगृहीते धने प्रतिवदिनि दृढ इत्य् अर्थः । यत् पुनर् नारदेनोक्तम्,

दुष्टे पत्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि ।
ततो विंशतिवर्षाणि क्रान्तं पत्रं स्थिरं भवेत् ॥

इति, तस्यायम् अर्थ - दौष्ट्यचिरकालभोगाभ्यां संदिग्धप्रामाण्यकं लेख्यं दिव्येन साधिनार्थं स्थिरं भवेद् इति चिरकालत्वमात्रेण स्थैर्यासंभवात् । यः पुनः लेख्यदोषान् न परिहरति तस्य दण्डम् आह कात्यायनः ।

कूटोक्तौ साक्षिणां वाक्यं लेखकस्य च पत्रकम् ।
नयेच्छुद्धिं न यः कूटं स दाप्यो दण्डम् उत्तमम् ॥

साक्षिणां वाक्यं लेखकस्य पत्रं च प्रति कूटोक्ताव् उक्तविधया यो वादि कूटं शुद्धिं न नयेत्, स उत्तमसाहसकण्ड्य इत्य् अर्थः । स्थावरादौ तु दण्डान्तरम् आह स एव ।

स्थावरे विक्रयाधाने लेख्यंकूटं करोति यः ।
स सम्यग् भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥

तेनान्यलेख्यधारकेणैतल्लेख्यागमनकारणम् उद्भावनीयम् इत्य् आह व्यासः ।

यच् चान्यस्य कृतं लेख्यम् अन्यहस्ते प्रदृश्यते ।
अवश्यं तेन वक्तव्यं पत्रं पत्रागमं ततः ॥

ततो लेख्यस्वामिनः सकाशाद् इत्य् अर्थः । तथा लेख्यानां मिथो विरोधे बाध्यबाधकनिर्णयार्थम् आह स एव ।

स्वहस्तकाज् जानपदं तस्मात् तु नृपशासनम् ।
प्रमाणतरम् इष्टं हि व्यवहारार्थम् आगतम् ॥

जानपदपदेनात्र गोबलीवर्दन्यायात् स्वहस्तकृताद् अन्यद् उच्यते । नृपशब्देनापि लक्षणया शासनेतरद् राजकीयम्, तेनान्यकृतं स्वहस्तकृताद् बलवत्, तस्माद् अपि राजकीयम्, ततो ऽपि शासनम् इत्य् अर्थः । बलवत्त्वं चोत्तरोत्तरस्य कूटत्वासंभवतारतम्यतो ऽवबोध्यम् । अत एवोपगताख्यलेख्याद् असाक्षिकं स्वहस्तकृतम्, तस्माच् च ससाक्षिकं स्वहस्तकृतं बलवद् इत्य् अवगन्तव्यम् । अत एव लेख्यमात्रं साक्षिवचनतो बलवद् इत्य् आह संवर्तः ।

लेख्यस्योपरि यत् साक्ष्यं कूटं तद् अभिधीयते ।
अधर्मस्य हि तद् द्वारम् अतो राजा विवर्जयेत् ॥

लेख्यविरुद्धं यत् साक्ष्यं ततो दुर्बलम् इत्य् अर्थः । बृहस्पतिर् अपि ।

वाचकैर् यत्र सामर्थ्यम् अक्षराणां विहन्यते ।
क्रियाणां सर्वनाशः स्याद् अनवस्था च जायते ॥

क्रियाणां लेख्यक्रियाणाम् । कात्यायनो ऽपि ।

न दिव्यैः साक्षिभिर् वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्य् अतो नान्येन हीयते ॥

लेख्येन तु हीयत् इत्य् आह स एव ।

तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥

अन्येन साक्ष्यादिनेत्य् अर्थः । अत एव बृहस्पतिः ।

न जातु हीयते लेख्यं साक्षिभिः शपथेन वा ।
अदर्शनाश्राविताभ्यां हानिं प्राप्नोत्य् उपेक्षया ॥

बहुकालव्यापिन्येति शेषः । तथा च व्यासः ।

अदृष्टाश्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबद्धलग्नकं चैव बहुकालं न सिध्यति ॥ इति ।

अबद्धलग्नकम् आधिप्रतिभूरहितम् । बहुकालं बहुकालीनम्, न सिध्यति स्वत इत्य् अभिप्रायः । कात्यायनो ऽपि ।

लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिम् अवाप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥

अदर्शने ऽपि विशेषम् आह स एव ।

प्रयुक्ते शान्तलाभे तु लिखितंयो न दर्शयेत् ।
न याचते च ऋणिकं तत्संदिग्धत्वम् आप्नुयात् ॥

ऋणिकम् आसन्नम् आढ्यं चेति शेषः । तथा च बृहस्पतिः ।

आढ्यस्य निकटस्थस्य यच् छक्तेन न याचितम् ।
शुद्धं न शङ्कया तत्र लेख्यं दुर्बलताम् इयात् ॥

एवम् अविशेषेणादर्शनाद् इतो लेख्यहानिप्राप्ताव् अपवादम् आह स एव ।

उन्मत्तजडबालानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥

संवर्तस् तु लेख्याभासा अपि बहुकालीना विचारविषयतां भजन्त इत्य् आह ।

बलोपाधिकृतं चैव मत्तोन्मत्तकृतं तथा ।
एते चान्ये च बहवः चिरस्था वादहेतवः ॥

तेनैवमादिषूक्तशुद्धिविधिर् अनुसंधेयो निर्णेतृभिर् इत्य् अभिप्रायः । अत एव कात्यायनः ।

द्रव्यं गृहीत्वा यल् लेख्यं परस्मै संप्रदीयते ।
छन्नम् अन्येन चारूढं संयतं चान्यवेश्मनि ॥
दत्ते वृत्ते ऽथ वा द्रव्य क्वचिल् लिखितपूर्वके ।
एष एव विधिर् ज्ञेयो लेख्यशुद्धिविनिर्णये ॥ इति ।