१४ लेख्यनिरूपणम्

तत्र वसिष्ठः ।

लौकिकं राजकीयं च लेख्यं विद्यात् द्विलक्षणम् । इति ।

लौकिकं जानपदम् । तथा च संग्रहकारः ।

राजकीयं जानपदं द्विविधं लिखितं स्मृतम् । इति ।

तत्र राजकीयं शासनादिभेदेन चतुर्विध्म् इत्य् आह वसिष्ठः ।

शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् ।
आज्ञाप्रज्ञापनापत्रं राजकीयं चतुर्विधम् ॥

तत्र शासनं निरूपयितुम् आह याज्ञवल्क्यः ।

दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥

निबन्धः वाणिज्यादिकारिभिः प्रतिवर्षं प्रतिमासं वा किंचिद् धनम् अस्मै ब्राह्मणायास्यै देवतायै वा देयम् इत्यादिप्रभुसमयसल्भ्यो ऽर्थः । अत्र यद्य् अपि धनदातृत्वं वाणिज्यादिकर्तुः, तथापि निबन्धकर्तुर् एव पुण्यम्, तदुद्देशेनैवेतरस्य प्रवृत्तेः । भूमिम् इति प्रामारामादीनाम् उपलक्षणार्थम् । अत एव बृहस्पतिः ।

दत्वा भूम्यादिकं राजा ताम्रपट्टे तथा पटे ।
शासनं कारयेद् धर्म्यं स्थानवंशादिसंयुतम् ॥

कारयेत् संधिविग्रहाद्यधिकारिणेति शेषः । तस्यैवात्र लेखने कर्तृत्वनियमात् । तथा च व्यासः ।

राज्ञा तु स्वयम् आदिष्टः संधिविग्रहलेखकः ।
ताम्रपट्टे पटे वापि विलिखेद् राजशासनम् ॥
क्रियाकारकसंबन्धं समासार्थक्रियान्वितम् ॥ इति ।

क्रियाकारकयोः संबन्धो यस्मिन् शासने तत् तथोक्तम् । समासार्थक्रियान्वितं संक्षिप्तार्थोपन्यासक्रियया समन्वितम् इत्य् अर्थः । ताम्रपट्टादौ लेखनीयम् अर्थम् आह याज्ञवल्क्यः ।

अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ।
प्रतिग्रहपरीमाणदानच्छेदोपवर्णनम् ॥ इति ।

उद्धृतमहीमण्डलस्य श्रीपतेर् वराहवपुषः वरदानप्रतिपादकम् आशीर्वादम् आदाव् आचारप्राप्तम् अभिलेख्यानन्तरम् आत्मनो वंश्यान् प्रपितामहपितामहपित्राख्यान् त्रीन् उक्तक्रमेण शौर्यादिगुणवर्णनद्वारात्मानं चतुर्थम् अभिलेख्य प्रतिग्रहपरिमाणादिकं लेखयेद् इत्य् अर्थः । प्रतिगृह्यत इति प्रतिग्रहो भूम्यादिः निबन्धश् च । तस्य परिमाणम् इयत्ता । दानच्छेदो दीयमानभूम्यादेर् मर्यादा । व्यासो ऽपि ।

समामास्तदर्धाहर्नृपनामोपलक्षितम् ।
प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् ॥ इति ।

संप्रदानस्यासाधारणत्वावबोधकं जातिकुलशाखादिकम् इति लेखनीयम् इत्य् उत्तरार्धस्यार्थः । तथान्यद् अपि लेखनीयं स एवाह ।

स्थानं वंशानुपूर्व्यं च देशं ग्रामम् उपागतम् ।
ब्राह्मणस्य तथा चान्यान् मान्यान् अस्हिकृतान् लिखेत् ॥
कुटुम्बिनो ऽथ कार्यस्थदूतवैद्यमहत्तरान् ।
म्लेच्छचण्डालपर्यन्तान् सर्वान् संबोधय्न्न् इति ॥
मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।
दत्तं मयामुकायाथ दानं सब्रह्मचारिणे ॥ इति ।

बृहस्पतिर् अपि ।

अनाच्छेद्यम् अनाहार्यं सर्वभाव्यविवर्जितम् ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥
दातुः पालयितुः स्वर्गं हर्तुर् नरकम् एव च ।
षष्टिः वर्षसहस्राणि दानच्छेदफलं लिखेत् ॥ इति ।

आगामिनृपादिबोधनार्थम् इति शेषः । अत एव व्यासः ।

षष्टिं वर्षसहस्राणि दानच्छेदफलं तथा ।
आगामिनृपसामन्तबोधनार्थं नृपो लिखेत् ॥

तथा श्लोकान्तरम् अपि लेखनीयं तेनैव पठितम् ।

सामान्यो ऽयं धर्मसेतुर् नृपाणां काले काले पालनीयो भवद्भिः ।
सर्वान् एतान् भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः ॥ इति ।

ततो राजा स्वयं स्वहस्तं लिखेत् । तथा च स एव ।

सम्निवेशं प्रमाणं च स्वहस्तं च लिखेत् स्वयम् । इति ।

मतं मे ऽमुकपुत्रस्य अमुकस्य महीपतेर् यद् अत्रोपरि लिखितम् इति स्वयम् लिखेद् इत्य् अर्थः । लेखकश् च स्वनाम लिखेत् तथा च स एव ।

संधिविग्रहकारी च भवेद् यश् चापि लेखकः ।
स्वयं राज्ञा समादिष्टः स लिखेद् राजशासनम् ॥
स्वनाम तु लिखेत् पश्चात् मुद्रितं राजमुद्रया ।
ग्रामक्षेत्रगृहादीनाम् ईदृक् स्याद् राजशासनम् ॥ इति ।

एतच् च प्रतिग्रहीतुर् अर्पणीयम्, तस्योपयोगित्वात् । अत एव विष्णुः - “पटे वा ताम्रप्ट्टे वा लिखितं समुद्राङ्कं चागामिन्ट्पतिपरिज्ञानार्थं दद्यात्” इति । संग्रहकारो ऽपि ।

राजस्वहस्तचिह्नेन राजादेशेन संयुतम् ।
युक्तं राजाभिधानेन मुद्रितं राजमुद्रया ॥
स्वलिप्यनपशब्दोक्तिसंपूर्णावयवाक्षरम् ।
शासनं राजदत्तं स्यात् संधिविग्रहलेखकैः ॥ इति ।

संधिविग्रहलेखकैः लिखितम् उक्तविधम् अन्यस्मै राज्ञा दत्तं शासनाख्यं स्याद् इत्य् अर्थः । एतच् च शासनं न दानसिद्ध्यर्थम्, तस्य प्रतिग्रहेणैव सिद्धेः, किं तु दत्तस्य स्थैर्यकरणार्थम्, स्थिरत्वे अक्षयफलश्रुतेः । तथा हि ।

रुणद्धि रोदसी चास्य यावत् कीर्तिस् तरस्विनी ।
तावत् किलायमध्यास् ते सुकृती वैबुधं पदम् ॥

अनेनैवाभिप्रायेण याज्ञवल्क्येनाप्य् उक्तम् ।

स्वहस्तकालसंपन्नं शासनं कारेयेत् स्थिरम् ॥ इति ।

कालसंपन्नं वत्सरादिविशेषितदानादिनोपेतम् । तथा च व्यासः ।

ज्ञातं मयेति लिखितं दात्राध्यक्षाक्षरैर् युतम् ।
अब्दमासतदर्धाहोराजमुद्राङ्कितं तथा ॥
अनेन विधिना लेख्यं राजशासनक्ं लिखेत् ॥ इति ।

तथा च स एव जयपत्रं निरूपयितुम् आह ।

व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।
जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥

कस्मै दद्याद् इत्य् अपेक्षिते स एवाह ।

जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम् ।
भागाभिशापसंदिग्धो यः सम्यग् विजयी भवेत् ॥
तस्मै राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम् ॥

बृहस्पतिर् अपि ।

पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥

पूर्वोत्तरक्रियायुक्तम् इति वृत्तान्तोपलक्षणार्थम् । यत आह स एव ।

यद् वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्रे ऽखिलं लिखेत् ॥

व्यासो ऽपि ।

पूर्वोत्तरक्रियापादं प्रमाणं तत् परीक्षणम् ।
निगदं स्मृतिवाक्यं च यथासभ्यं विनिश्चितम् ॥
एतत् सर्वं समासेन जयपत्रे विलेखयेत् ॥ इति ।

क्रियापादं क्रियाभिमर्शनपादं प्रत्याकलितपादम् इति यावत् । निगदं साक्षिवचनम् । यथासभ्यं सभ्यानतिक्रमेण । समासेन संक्षेपेण । कात्यायनो ऽपि ।

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा ।
निर्ययश् च यथा तस्य यथा चावधृतं स्वयम् ॥
एतद् यथाक्षरं लेख्ये यथापूर्वं विशेशयेत् ॥ इति ।

यथापूर्वम् इत्य् एतत् तेनैव प्रपञ्चितम् ।

अभियोक्त्रभ्युक्तानां वचनं प्राङ् निवेशयेत् ।
सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ॥
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥ इति ।

मतं नृपादीनाम् इति शेषः । मतलेखनं तु स्वहस्तेन, परहस्ततो मतलेखनस्य “यथा चावधृतं स्वयम्” इत्य् अनेनैव पूर्वम् एव विहितत्वात् । अत एवोक्तं तेनैव ।

सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥
सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथा लेख्यविधौ तद्वत् स्वहस्तं तत्र दापयेत् ॥ इति ।

राजा तान् सभ्यान् जानपदलेख्यवज् जयपत्रे स्वहस्तं दापयेद् इत्य् अर्थः । वृद्धवसिष्ठो ऽपि ।

प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धे ऽर्थे वादिनो दद्याज् जयिने जयपत्रकम् ॥

एवम् उक्तं जयपत्रं पश्चात्काराख्यम् इत्य् आह कात्यायनः ।

अनेन विधिना लेख्यं पश्चात्कारं विदुर् बुधाः । इति ।

अयं च पश्चात्कारो निर्णयविशेष एव न सर्वत्रेत्य् आह स एव ।

निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥

क्रिया साध्यम् । प्र्माणेनैवेति वदंश् चतुष्पाद् व्यवहार एव पश्चात्कारो न द्विपाद् व्यवहार् इति कथयति । स्पष्टीकृतं चैतत् बृहस्पतिना ।

साधयेत् साध्यम् अर्थं तु चतुष्पादन्वितं जये ।
राजमुद्रान्वितं चैव जयपत्रकम् इष्यते ॥ इति ।

द्विपाद्व्यवहारे तु भाषोत्तरान्वितं जयपत्रम् अस्त्य् एव, पश्चात्कारस्यैव तत्रासदनुवादकत्वेन प्रतिषेधात् । अन्यद् अपि जयपत्रं तेनैवोक्तम् ।

अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच् च स्याज् जयपत्रकम् ॥

इतरेषां हीनवादिनाम् इत्य् अर्थः । आज्ञाप्रज्ञापनापत्रे द्वे वसिष्ठेन दर्शिते ।

सामन्तेष्व् अथ भृत्येषु राष्ट्रपालादिकेषु वा ।
कार्यम् आदिश्यते येन तद् आज्ञापत्रम् उच्यते ॥
ऋत्विक्पुरोहिताचार्यमान्येष्व् अभ्यर्हितेषु तु ।
कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ इति ।

बृहस्पतिर् अन्यद् अपि राजकीयं प्रसादलेख्याख्यं पत्रम् आह ।

देशादिकं यस्य राजा लिखितेन प्रयच्छति ।
सेवाशौर्यादिना तुष्टः प्रसादलिखितं हि तत् ॥ इति ।

अतो राजकीयं पञ्चविधं चतुर्विधम् इत्य् अनास्थयोक्तम् इति मन्तव्यम् । जानपदं पुनर् व्यासेन निरूपितम् ।

लिखेज् जानपदं लेख्यं प्रसिद्धस्थानलेखकः ।
राजसंशक्रमयुतं वर्षमासार्धवासरैः ॥

युतम् इत्य् अनुषज्यते । वासरः दिनम् । अन्यद् अपि लेखयितव्यम् इत्य् आह स एव ।

पितृपूर्व्ये नामजाती धनिकर्णिकयोर् लिखेत् ।
द्रव्यभेदप्रमाणं च वृद्धिं चोभयसंमताम् ॥

उभयसंमतिः द्रव्यादेर् अपि विशेषणम् । अत एव याज्ञवल्क्यः ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥

साक्षिमत् निष्णातार्थज्ञातृभूतमधस्थजननामान्वितम् । तथा कालधनिकऋणिकसाक्ष्यादिलेखनीयस्य यावता विशेषणेन विशेषनिष्ठत्वसिद्धिः तावद्विशेषणान्वितं कार्यम् इत्य् आह स एव ।

समामासतदर्धानर्नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥

सब्रह्मचारिकं बह्वृचः कठः इत्यादिशाखाप्रयुक्तं गुण्नाम, अस्मीयपितृनाम, धनिकऋणिकसाक्षिणां पितृनाम । आदिशब्देन देशाचारावाप्तवारादि गृह्यते । अत एव व्यासः ।

देशस्थित्या क्रियाधानप्रतिग्राहविचिह्नितम् ।

देशस्थित्या क्रिया देशाचारानुसारेण करणम् । आधानम् आधिः । नारदो ऽपि ।

लेख्यंतु साक्षिमत् कार्यम् अविलुप्तक्रमाक्षरम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥

वसिष्ठो ऽपि ।

कालं निवेश्य राजानं स्थानं निवसितं तथा ।
दायकं ग्राहकं चैव पितृनाम्ना च सं युतम् ॥
जातिं स्वगोत्रं शाखां च द्रव्यम् आधिं ससंख्यकम् ।
वृद्धिं ग्राहकहस्तं च विदितार्थौ च साक्षिणौ ॥ इति ।

ग्राहकहस्तनिवेशनप्रकारम् आह स एव याज्ञवल्क्यः ।

समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥

उपरीति वदन् पूर्वलिखिताक्षरसंस्थानाद् अधस्तात् स्वहस्ताक्षरसंस्थानम् इति दर्शयति । ऋणीति साक्षिणाम् अपि प्रदर्शनार्थम् । तथा च स एव ।

साक्षिणं च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥

यत्र लेख्ये विलिखिताः साक्षिणस् ते ऽप्य् अमुकपुत्रो ऽमुखो ऽत्रार्थे साक्षीति प्रत्येकं लिखेयुः । ते च द्वित्वादिसमसंख्यया विशिष्टा भवेयुः । न त्रित्वादिविषमसंख्ययेत्य् अर्थः । केनचिद् अकारप्रश्लेषकल्पनया साक्षिसंख्यानियमो वैपरीत्येन वर्णितः । स यस्मिन् देशे तथैवाचारः तत्रैव् ग्राह्यः नान्यत्र स्वरसार्थत्वात् । साक्षिण इति बहुवचनं गुरुतरकार्यलेख्यविषयम् ।

उत्तमर्णाधमर्णौ च साक्षिणौ लेखकस् तथा ।
समवायेन चैकेषां लेख्यं कुर्वीत नान्यथा ॥

इति हारीतेन लेख्यमात्रे साक्षिणाव् इत्य् उक्तत्वात् । एवं चान्यकृतलेख्यस्योत्तमर्णाधमर्णसाक्षिद्वयलेखकरूपपञ्चपुरुषारूढत्वात् पञ्चारूढं पत्रम् इति लोके व्यवहारः । साक्षिसंख्याधिकत्वे त्व् अयं व्यवहारो गौण इति मन्तव्यम् । लेख्यमात्रं प्रकृत्य व्यासेनाप्य् उक्तम् ।

ऋणिहस्तं नामयुतं साक्षिभ्यां पितृपूर्वकम् । इति ।

अतो द्विप्रभृतिभिः समैर् भवितव्यम् इति नियमो देशाचाराविरोधेनानुसंधेयः । यदा तु लिप्यनभिज्ञः साक्षी ऋणी वा तदा नारद आह ।

अलिपिज्ञो ऋणी यः स्याऌ लेखयेत् स्वमतं सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥

विजातीयलिपिज्ञो ऽपि स्वयम् एव लिखेत् लिपिज्ञत्वात्,

सर्वे जानपदान् वर्णान् लेख्ये तु विनिवेशयेत् ।

इति कात्यायनस्मरणाच् च । साक्षिस्वहस्तलेखनानन्तरं याज्ञवल्क्यः ।

उभयाभ्यर्थिते चैतन् मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥

व्यासो ऽपि ।

मयोभयाभ्यर्थितेनामुकेनानुकसूनुना।
स्वहस्तयुक्तं स्वं नाम लेखकस् त्व् अन्ततो लिखेत् ॥
एवं जानपदे लेख्ये व्यासेनाभिहितो विधिः ॥ इति ।

अनन्तो लेख्यस्येति शेषः । एवम् उक्तलेख्यम् अष्टविधम् इत्य् आह स एव ।

चिरकं च स्वहस्तं च तथोपगतसंज्ञितम् ।
आधिपत्रं चतुर्थं च पञ्चमं क्रयपत्रकम् ॥
षष्ठं तु स्थितिपत्राख्यं सप्तमं संधिपत्रकम् ।
विशुद्धिपत्रकं चैवम् अष्टधा लौकिकं स्मृतम् ॥ इति ।

नात्र संख्या विवक्षिता ।विभागपत्रादेर् अपि लौकिकत्वात् । तत्र चिरकस्य लक्षणम् आह संग्रहकारः ।

चिरकं नाम लिखितं पुराणैः पौरलेखकैः ।
अर्थिप्रत्यर्थिनिर्दिष्टैः यथासंभवसंस्तुतैः ॥
स्वकीयैः पितृनामाद्यैर् अर्थिप्रत्यर्थिसाक्षिणाम् ।
प्रतिनामभिर् आक्रान्तम् अर्थिसाक्षिस्वहस्तवत् ॥
स्पष्टावगमसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ इति ।

संस्तुतैः प्रशस्तैर् इत्य् अर्थः । कात्यायनस् तु स्वहस्तम् आह ।

ग्राहकेण स्वहस्तेन लिखितं साक्षिवर्जितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत् स्मृतं बुधैः ॥

एवम् एव दायकेन लिखितं ग्राहकेणाभ्युपगतं लेख्यम् उपगताख्यं विज्ञेयम् । आधिपत्रम् आह नारदः ।

आधिं कृत्वा तु यो द्रव्यं प्रयुङ्क्ते स्वधनं धनी ।
यत् तत्र क्रियते लेख्यम् आधिपत्रं तद् उच्यते ॥

अन्वाधिलेख्ये विशेषम् आह प्रजापतिः ।

धनी धनेन तेनैव परमाधिं नयेद् यदि ।
कृत्वा तद् आधिलिखितं पूर्वं चास्य समर्पयेत् ॥

क्रयपत्रं पितामनेनोक्तम् ।

क्रीते क्रयप्रकाशार्थं क्रव्ये यत् क्रियते क्वचित् ।
विक्रेत्रानुमतं क्रेत्रा ज्ञेयं तत् क्रयपत्रकम् ॥

स्थितिपत्रादीनि पुनः कात्यायनेनोक्तानि ।

चातुर्विद्यपुरश्रेणीगणपौरादिकस्थितिः ।
तद्सिद्ध्यर्थं तु यल् लेख्यं तद् भवेत् स्थितिपत्रकम् ॥
अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विसुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ इति ।

बृहस्पतिर् अपि लेख्यविभागम् आह ।

भागदानक्रयाधानसंविद्दासऋणादिभिः ।
सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥

अत्रापि न संख्या विवक्षिता, अधिकानाम् अपि लेख्यानाम् एतेभ्यो दर्शितत्वात् । अत एवात्रादिग्रहणं कृतम्, अन्यथा गणितैर् एव सप्तविधत्वसिद्धे आदिग्रहणम् अपार्थं (?) स्यात् । तेनैतत् ज्ञायते लेख्यसंख्या नावधारणार्थेति । अतो विविधसंख्यावद् वचनानाम् अविरोधः । भागलेख्यादिकं स्वयम् एव व्याचष्ट्ते ।

भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तद् उच्यते ॥
भूमिं दत्वा तु यत् पत्रं कुर्याच् चन्द्रार्ककालिकम् ।
अनाच्छेद्यम् अनाहार्यं दनलेख्यं तु तद् विदुः ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत् तु क्रयलेख्यं तद् उच्यते ॥
जङ्गमं स्थावरं बन्धं दत्वा लेख्यं करोति यः ।
गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तद् उच्यते ॥
ग्रामो देशश् च यत् कुर्यान् मतं लेख्यं परस्परम् ।
राजाविरोधि धर्मार्थं संवित्पत्रं वदन्ति तत् ॥
वस्त्रान्नहीनः कान्तारे लिखितंकुरुते तु यत् ।
कर्माणि ते करिष्यामि दासपत्रं तद् उच्यते ॥
धनं वृद्ध्या गृहीत्वा तु स्वयं कुर्याच् च कारयेत् ।
उद्धारपत्रं तत्प्रोक्तं ऋणलेख्यं मनीषिभिः ॥ इति ।

अन्यद् अपि लौकिकं लेख्यम् आह कात्यायनः ।

सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥ इति

याज्ञवल्क्यो ऽपि ।

दत्वर्णं पाटयेत् पत्रं शुद्धौ वान्यत् तु कारयेत् ॥ इति ।

लेख्यप्रयोजनम् आह मरीचिः ।

स्थावरे विक्रयाधाने विभागे दान एव च ।
लिखितेनाप्नुयात् सिद्धिम् अविसंवादम् एव च ॥

आधानम् आधिः । आद्यश् चशब्दः ऋणादिनिष्णातार्थसंग्रहार्थः । अविसंवादः कालान्तरे ऽपि निष्णातार्थस्यानन्यथाभावः । एवं च स्थावरादाव् अप्य् अविसंवादेन सिद्धिम् आलोच्य राजवंशवर्षादिलेखनीयानां आवापोद्वापौ कार्यौ, तेषां दृष्टार्थत्वात् । अतो न दानादिलेख्ये धनिकऋणिकादि लेखनीयम् । नापि ऋणादिलेख्ये प्रतिग्रहादिकम् । एवम् अन्यत्रापि लेख्ये लेखनीयम् ऊहनीयम्, दृष्टप्रयोजनत्वाल् लेख्यस्या । अत एवाकृतप्रयोजनस्य लेख्यस्य कार्याक्षमत्वे नाशे वा लेख्यान्तरम् उत्पाद्यम् । अत एवाह याज्ञवल्क्यः ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धे तथा छिन्ने लेख्यम् अन्यतु तु कारयेत् ॥

देशान्तरस्थे सर्वथानेतुम् अशक्यस्थानस्थे । दुर्लेख्ये दुर्वबोधाक्षरे । भिन्ने द्विधा जाते । छिन्ने शीर्णे । कात्यायनो ऽपि ।

मलैर् यत् भेदितं दग्धं छिद्रितं वीतम् एव वा ।
तद् अन्यत् कारयेल् लेख्यं स्वेदेनोल्लिखितं तथा ॥

वीतं विगतम् । उल्लिखितम् उन्मृष्टम् । यत् पुनर् नारदेनोक्तम्,

लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो दृष्टदर्शनम् ॥

इति, तत् तदैव धनदानोद्यतऋणिकविषयम् । तत्र लेख्यान्तरकरणे प्रयोजनाभावात् । कालकरणम्, आनयनार्थं तस्य पत्रस्यानयनयोग्यकालकल्पनम् । दृष्टदर्सनं पत्रलभ्यपत्रार्थज्ञातृज्ञापनं धनप्रतिपादने कार्यम् इत्य् अर्थः । एतच् च पत्रपाटनासंभवे ऽपि साक्षिणां साक्षित्व्निवृत्तये कर्यम् । प्रतिपादनप्रकाशार्थं च प्रतिदत्तपत्रं ग्राह्यम् । कालान्तरे तु धने देये लेख्यान्तरं कार्यम् एव । अत एवोक्तं तेनापि ।

छिन्नभिन्नहृतोमृष्टदग्धदुर्लिखितेषु च ।
कर्तव्यम् अन्यल् लेख्यं स्याद् एष लेख्यविधिः स्मृतः ॥ इति ।

इति स्मृतिचन्द्रिकायां लेख्यनिरूपणम्