१३ क्रियापादः

अथ क्रियापादः

तत्र बृहस्पतिः ।

श्रुत्वा पूर्वोत्तरं सभ्यैः निर्दिष्टा यस्य भावना ।
विभावयेत् प्रतिज्ञातं सो ऽखिलं लिखितादिना ॥

भावना क्रिया । नारदो ऽपि ।

पूर्ववादे ऽभिलिखिते यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥

पूर्ववादो भाषा । अभिलिखितं पूर्वपक्षाभिभावकतया लिखितम् उत्तरम् इति यावत् । तृतीयपादः प्रत्याकलिताख्यः । तस्मिन् सति क्रिया प्रमाणम् । एवं चायम् अर्थः । तस्मिन् सति क्रिया प्रमाणम् । एवं चायम् अर्थः - भाषोत्तरप्रत्याकलिताख्यपादत्रये सति क्रियया प्रतिपादयेत् स्वकार्यम् अर्थी प्रमाणेन साधयेद् इति । कार्यक्रियाशब्दयोर् अर्थम् आह व्यासः ।

कार्यं हि साद्यम् इत्य् उक्तं साधनं हि क्रियोच्यते ।
द्विभेदा सा पुनर् ज्ञेया मानुषी दैविकी तथा ॥

साधनं प्रमाणम् । बृहस्पतिर् अपि क्रियाभेदम् आह ।

द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकेइकानेकधा भिन्ना मुनिभिस् तत्त्ववेदिभिः ॥

कात्यायनो ऽपि ।

पञ्चप्रकारं दैवं स्यान् मानुषं त्रिविधं स्मृतम् ॥ इति ।

पञ्चप्रकारम् इति नावधारणार्थम् । तण्डुलतप्तमाषादिविधान्तरस्यापि दैविकस्य स्मृत्यन्तरे दर्शनात् । त्रिविधम् इति नियमार्थम् एव, स्मृत्युत्तराविसंवादात् । अत एवात्र त्रिविधं स्मृतम् इत्य् अर्थः । यत् पुनर् नारदेनोक्तम्,

लिखितं साक्षिणश् चात्र द्वौ विधी परिकीर्तितौ ।

इति, न तत् संख्यानियमार्थम् । तथात्वे,

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।

इति स्ववचनेन विरोधापत्तिः स्याद् अतो भुक्तितो बहुविषयत्वम् इतरयोर् इति वक्तुम् “द्वौ विधी परिकीर्तितौ” इत्युक्तम् इत्य् अवगन्तव्यम् ।