१२ प्रत्याकलितपादः

अथ प्रत्याकलितपादः

तत्र बृहस्पतिः ।

ये तु तिष्ठन्ति करणे तेषां सभ्यैर् विभावना ।
कथयित्वोत्तरं सम्यग् दातव्यैकस्य वादिनः ॥

तेषां धर्माधिकरणस्थानां मध्ये एकस्यार्थिनः प्रत्यर्थिनो वा विभावना क्रिया सभैर् निर्धारयितव्येत्य् अर्थः । तथा च कात्यायनः ।

शोधिते लिखिते सम्यग् इति निर्दोष उत्तरे ।
प्रत्यर्थिनो ऽर्थिनो वापि क्रियाकरणम् इष्यते ॥

अर्थिनः प्रत्यर्थिनो वा यस्य साध्यम् अस्ति असौ तत्साध्यसिद्धये सदुत्तरानन्तरम् एव प्रमाणलेखनं कुर्याद् इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ इति ।

उत्तरसिद्धिसमन्तरम् एव साध्यवान् वादी प्रमाणम् उद्भावयेद् इत्य् अर्थः । किं तत्प्रमाणम् इत्य् अपेक्षिते स एवाह ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥

दिव्यं धटादिः । तथा च नारदः ।

क्रिया तु द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां धटादिर् दैविकी स्मृता ॥

लेख्यसाक्षिभ्यां भुक्त्या च प्रोक्ता मानुषीत्य् अर्थः । भुक्तेर् अपि मनुष्यसंबन्धित्वात् । अत एव बृहस्पतिः ।

साक्षिलेख्यानुमानं च मानुषी त्रिविधा स्मृता । इति ।

अनुमानं भुक्तिः, स्वत्वानुरूपकत्वात् । धटादिर् अपि तेनैव दर्शितः ।

धटो ऽग्निर् उदकं चैव विषं कोशस् च पञ्चमम् ।
षष्टं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥
अष्टमं फालम् इत्य् उक्तं नवमं धर्मजं भवेत् ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥ इति ।

अन्यानि तु द्वियानि नारदेन निर्दिष्टानि ।

सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादाश् च दत्तानि सुकृतानि च ॥ इति ।

चशब्दो ऽन्येषाम् अपि पुत्रशिरःस्पर्शनादीनां संग्रहणार्थः । एते च धटादयः सत्यादयश् च दिवि देवैः कृतत्वाद् दिव्यदैविकसंज्ञाद्वयशालिनः । तथा च पितामहः ।

यस्माद् देवैः प्रयुक्तानि पुषरार्थे मनीषिभिः ।
प्ररस्परविशुद्ध्यर्थं तस्माद् दिव्यानि नामतः ॥

अत्रोपक्रमसामर्थ्याद् दैविकानि नामत इति लभ्यते, देवैः प्रयुक्तानीति निमित्तदर्सनात् । उपसंहारसामर्थ्याद् दिवि संभवनिमित्तानीति गम्यते, दिव्यानि नामत इत्य् उक्तत्वात् । तेन श्रुत्यर्थाभाम् अनेन वचनेन धटादीनाम् आजिगमनाद् आज्यम् इतिवद् यौगिकं नामद्वयम् उक्तम् । शपथनाम नारदेनैव तेषाम् एव दर्शितम् ।

सप्तर्षयस् तथेन्द्राद्याः पुष्करार्थे तपोधनाः ।
शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥ इति ।

व्यासो ऽपि ।

अर्थानुरुपाः शपथाः स्मृताः सत्यधऋआदयः । इति ।

यत् तु बृहस्पतिनोक्तम्,

धटाद्या धर्मजान्ता च दैवी नवविधा स्मृता ।

इति, तत्र स्वयंभुवेति शेषो द्रष्टव्यः । नारदस्मृतसत्यादिभिः सह दैव्या वस्तुतो बहुविधत्वात् । या पुनर् नारदीये दिव्यशपथयोः भेदेनोक्तिः,

यदा साक्षी न विद्येत विवादं वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैर् वा पृथग्विधैः ॥

इति, सा गुरुषु दिव्यशब्दो लघुषु शपथशब्दः प्रायिक इति दर्शयितुम्, न पुनस् तयोर् अर्थभेदकथनाय, लोके तयोः पर्यायशब्दत्वात् । साक्षी न विद्यते इति लिखितादित्रयाभावोपलक्षणर्थः । याज्ञवल्क्येनाशेषमानुषाभावे दिव्यस्मरणात् । अत एव,

संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत् क्रियाम् ।
संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥

इति कात्यायनवचने ऽपि साक्षिग्रहणं मानुषोपलक्षणार्थम् इति मन्तव्यम् । तथा,

दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव दैवी न भवति क्रिया ॥
इति नारदवचने ऽपि दिवाकृतादिसंकीर्तनं मानुषप्रमाणसंभवे दिव्यनिषेधार्थम् अवगन्तव्यम् । अत एव कात्यायनः ।
यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥

विशिष्टसाध्ये विशेष्यांशे मानुषसंभवे विशिष्टार्थसाधकम् अपि न दिव्यं ग्राह्यम् इत्य् अर्थः । विशेषणांशसिद्धिस् तु विभावितैकदेशन्यायाद् अल्पशपथेन वा कार्येत्य् अभिप्रायः । न च वाच्यं एकदेश इत्य् अविशेषवचनाद् विशेषणांशे विशेष्यांशे वा मानुषसंभवे दिव्यं निषिध्यत इति । यत आह स एव ।

सारभूतं पदं मुक्त्वा असाराणि बहून्य् अपि ।
संसाधयेत् क्रिया या तु तु तां जह्यात् सारवर्जिताम् ॥ इति ।

तथा विवादिनोः कथंचिद् दैवमानुषयोर् अन्यतरत् प्रमाणम् अन्यतरेण वादिना कृतं निर्णायकम् इत्य् अङ्गीकारे ऽपि मानुषसंभवे तद् एव निर्णायकं न दैविकम् इत्य् आह स एव ।

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं रियां नृपः ॥ इति ।

एवं च सर्वथा मानुषासंभवे दिव्यम् इत्य् उत्सर्गः । क्वचिद् अस्यापवादम् आह स एव ।

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भवेषु कार्येषु साक्षिणो दिव्यम् एव वा ॥

अयं च विकल्पो गूढसाहसिकेतरविषयः । तत्र मानुषासंभवेन विकल्पासंभवात् । अत् एवोक्तं तेनैव ।

गूढसाहासिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिचिह्नेङ्गिताकारवाक्चक्षुश्चेष्टितैर् नृणाम् ॥

गूढसाहासिकानां मुस्ववेष्टनादिवशाद् (?) अलक्ष्यमूर्तीनाम् इत्य् अर्थः । युक्तिचिह्नादेर् अप्य् अभावे तेषां दिव्यम्, न पुनः साक्ष्याद्यभावमात्र इति दर्शयितुं पुनर् वचनारम्भः । तथोत्तमसाहसिकानां प्रकटानाम् अपि दिव्येनैव परीक्षणम् इत्य् आह स एव ।

उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्ट्तेन सत्स्य् साक्षिषु वै भृगुः ॥

ऋणविवादेषु तु विशेषम् आह नारदः ।

प्रमादाद् धनिनो यत्र न लेख्यं न च साक्षिणः ।
अर्थं चापह्णुते वादी तस्योक्तः त्रिविधो विधिः ॥

वादी गृहीतधनः । विधिः दनसाधनोपायः । सो ऽपि तेनैव दर्शितः ।

चोदना प्रतिकालं च युक्तिसेशस् तथैव च ।
तृतीयः शपथः प्रोक्तः तै ऋणं सधयेत् क्रमात् ।
प्रतिकालं चोदना प्रत्यर्पणकालो यदा यदा प्राप्तस् तदा तदा मदीयं दीयताम् इति त्रिश्चतुःपञ्चकृत्वो वा मध्यस्थजनसमक्षम् अन्येनाप्रतिहता प्रतिदानप्रेरणा, सा प्रथम उपायः । तदसंभवे युक्तिलेशः अमुष्मिन् देशे अमुष्मिन् काले ऽमुनार्थसंबन्धेन इयत्परिमाणम् एतत्कर्मार्थम् ऋणं गृहीतम् त्वया इत्यादि द्वितीयोपायः । तस्याप्य् असंभवे तृतीयोपायः शपथ इत्यर्थः । अयं चार्थः तेनैव दर्शितः ।

अभीक्ष्णं चोद्यमानो ऽपि प्रतिहन्यान् न तद्वचः ।
त्रिश्चतुःपञ्चकृत्वो वा परत्(?) ऽर्थं समाचरेत् ॥
चोदनाप्रतिधाते तु युक्तिलेशैः समन्वितात् ।
देसकालर्थसंबन्धपरिमाणक्रियादिभिः ॥
युक्तिष्व् अप्य् असमर्थासु शपथैर् एव निर्णयेत् ।
अर्थकालबलापक्षैर् अग्र्यम्बुसुकृतादिभिः ॥

कात्यायनो ऽपि ।

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥

तथा विवादमात्रं प्रत्याह स एव ।

प्रमाणैर् हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्व् एव विवादेषु सदा कुर्यान् नराधिपः ॥
सर्वाभावे तु यत्नेन नान्यथैव कदाचन ॥ इति

प्रमाणसब्दहेतुशब्दयोर् अर्थम् आह व्यासः ।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर् हेतुस् तर्कश् चेति मनीषिणः ॥ इति ।

एवं च दृष्टप्रमाणेनासिद्धाव् अदृष्टं प्रमाणम् आश्रयणीयं नान्यथेति तात्पर्यर्थः । क्वचित् दृष्टेनासिद्धाव् अप्य् अदृष्टं नाश्रणीयम् इत्य् आह बृहस्पतिः ।

प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ।
उत्तरे स्याच् चतुर्थे तु ससाक्षिजयपत्रकम् ॥

प्राङ्न्यायोत्तरे साक्षिजयपत्र्योर् अन्यतरेणासाधयन् वादी न प्राग् विजयीत्य् अभिप्रायः । अनेनैवाभिप्रायेण व्यासो ऽपि ।

प्राङ्न्याये जयपत्रेण प्राड्विवाकादिभिस् तथा ।
सत्यं वादी समाप्नोति यद् यत् तेन निवेदितम् ॥

वादी प्रत्यर्थी, तस्यैव तत्र साध्यवादित्वात् । अत एव बृहस्पतिः ।

प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत् स्वयम् ।
उत्तरार्थं प्रतिज्ञार्थम् अर्थी मिथ्योत्तरे पुनः ॥

मिथ्योत्तरे ऽभ्युपगमाभावेन भाषार्थस्य साध्यताहानात् प्रतिज्ञातार्थम् अर्थ्येव साधयेद् इत्य् अर्थः । कारणोत्तरे तु भाषार्थस्याभ्युपगमाद् एव साध्यत्वाहानान् न प्रतिज्ञावादिनः प्रतिज्ञातार्थसाधनम्, किं तूत्तरार्थे अर्थिना यद् अनभ्युपगतं कारणं तद् एव प्रत्यर्थिना प्रमाणेन साध्यम् । अत एव कात्यायनः ।

प्रपद्य कारणं पूर्वम् अन्यद् गुरुतरं यदि ।
प्रतिवाक्यगतं ब्रूयात् साध्यते यद् धि नेतरत् ॥

पूर्वं प्रतिज्ञावादिनोक्तं प्रपद्य अङ्गीकृत्य अन्यद् गुरुतरम् अङ्गीकृतप्रतिज्ञातार्थोपमर्दनक्षमं कारणं प्रत्यर्पणादिकं प्रतिवाक्यगतम् उत्तरवाक्यस्थं यदि प्रत्यर्थी ब्रूयात् तदा तद् एव किल तेन साध्यते, अर्थिनानङ्गीकृतत्वात् । नेतरत् प्रत्यर्थिनाङ्गीकृतं प्रतिज्ञातार्थजातम् अर्थिना साध्यत इत्य् अर्थः । प्रपद्येत्य् उपलक्षणार्थम्, तेन प्रप्रतिज्ञावादिनोक्तं (?) मिथ्येत्य् उक्त्वा कारणाभिधाने ऽपि कारणम् एव साध्यते,

मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ।

इति हारीतस्मरणात् । तथा सत्योत्तरे न कस्यापि वादिनः क्रियेत्य् आह स एव ।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादि तु प्रतिपत्तौ न सा भवेत् ॥

भाषायाम् उत्तरे च साध्यार्थाभावाद् इत्य् अभिप्रायः । अतः संप्रतिपत्तौ द्विपात्त्वव्यवहारः । तथा च कात्यायनः ।

मिथ्योक्तौ स चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥

तेन संप्रतिपत्तौ क्रियानिर्देशाद्यभावाद् उत्तरान्त एव व्यवहारः समाप्यते । एवं च मिथ्याकारणयोर् मानुषी दैविकी क्रिया, प्राङ्न्याये तु मानुष्य् एव सत्ये न काचिद् इत्य् अनुसंधेयम् । मिथ्याकारणयोर् अपि क्वचिन् न दैविकीत्य् आह बृहस्पतिः ।

वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ॥ इति ।

तेन तां तत्र न कल्पयेद् इत्य् अभिप्रायः । अत एव कात्यायनः ।

वाक्पारुष्ये च भूमौ च दिव्यं न ओअरिकल्पयेत् ।}। इति ।

नन्व् अनेनैव वाक्पारुष्ये दिव्यम् उक्तम् “प्रक्रान्ते” इत्यदिना । सत्य्म् उक्तं तत् तु महापारुष्यविषयम्, इदं त्व् अल्पपारुष्यविषयम् इति न किंचिद् विरुद्धम् । भूमाव् इति स्थावरोपलक्षणार्थम् । अत एव पितामःअः ।

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर् लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत् ॥

अत्र मानुषासंभवे हेतुना निर्णयः, तदसंभवे राजाज्ञयेति मन्तव्यम् । तथा क्वचिद् दिव्यनियमार्थम् आह स एव ।

महाशापाभिशापेषु निक्षेपहरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥

कात्यायनो ऽपि ।

समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।
प्राणान्तिकविवादे वा विद्यमानेषु साक्षिषु ॥
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणम् ॥ इति ।

बृहस्पतिर् अपि ।

लिखिते साक्षिवादे च संदेहो जायते यदा ।
अनुमाने च संभ्रान्ते तत्र दैवं विशोधनम् ॥

अनुमानं भुक्तिः उल्काहस्तत्वादियुक्तिश् च । व्यासो ऽपि ।

मयैतन् न कृतं लेख्यं कूटम् अन्येन करितम् ।
अधरीकृत्य तत्पत्रम् अर्थे दिव्येन निर्णयः ॥

निर्णेतव्ये ऽर्थे निर्णयं दिव्येन कुर्याद् इत्य् अर्थः । कात्यायनो ऽपि ।

यत्र स्यात् सोपधं लेख्यं तद् राज्ञश् श्रावितं यदि ।
दिव्येन शोधयेत् तत्र राजा धर्मासनस्थितः ॥

तथा क्वचिल् लेख्यस्य क्वचिद् भुक्तेः क्वचित् साक्षिणश् च सति संभवे नियमार्थम् आह स एव ।

पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥
द्वारमार्गक्रियाभोगजलवाहादिके तथा ।
भुक्तिर् एव हि गुर्वी स्यात् न लेख्यं न च साक्षिणः ॥
दत्तादत्ते ऽथ भृत्यानां स्वामिना निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनम् अयच्छति (?) ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेक्यकम् ॥ इति ।

एवम् उक्त्वा प्रमाणस्य व्यवस्था परीक्षकैः परिपालनीयेत्य् आह नारदः ।

प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि परमाणैर् अव्यवस्थितैः ॥

अव्यवस्थितैः प्रमाणैः प्रमाणकर्तारो यतो विनश्यन्ति अतः कस्यात्र किंप्रमाणं लेख्यम् इति प्रत्याकलनकुशलैः प्रत्यकलयितव्यम् इत्य् अर्थः । अत्र कैश्चित् पण्डितंमन्यैः न स्थावरेषु लिखितादिकथनं प्रमाणनियमाय, किं तु प्रायिकत्वप्रदर्शनार्थम्, अन्यथा कथंचिल् लेख्यादिनाशे निर्णयाभावः स्याद् इत्य् उक्तम्, तद् अयुक्तम्, नियमार्थत्वे ऽपि युक्तिभिः पार्थिववचनाद् वा निर्णयसंभवात् । अत एव पितामःअः ।

लेख्यं यत्र न विद्येत न भुक्तिर् न च साक्षिणः ।
न च दिव्यावतारो ऽस्ति प्रमाणं तत्र पार्थिवः ॥
निश्चेतुं ये न शक्याः स्युर् वादाः संदिग्धरूपिणः ।
तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर् यतः ॥ इति ।

अत एव दृषृआदृष्टप्रमाणम् उक्त्वा उक्तं व्यासेन ।

एषाम् अभावे राजाज्ञा निर्णयं तु विदुर् बुधाः । इति ।

प्रमाणानां स्वरूपतो निषधवशाद् वा असंभवे निर्णयो राजाज्ञया भवतीत्य् अर्थः ॥

**इति स्मृतिचन्द्रिकायां प्रत्याकलितपादः **