११ विवादविषयान्तरम्

अथ विवादविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र याज्ञव्ल्क्यः ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ॥ इति ।

अनिस्तीर्य अपरिहृत्येत्य् अर्थः । अत्रापवादम् आह स एव ।

कुर्यात् प्रत्यभियोगं तु कलहे साहसेउ च ॥ इति ।

प्रत्यपराधसंभव इति शेषः । कलहे पारुष्यद्वय इत्य् अर्थः । अभोयोक्तारं च प्रत्याह स एव ।

अभियुक्तौ न चान्यने नोक्तं विप्रकृतिं नयेत् ॥ इति ।

अन्येनार्थिनाभियुक्तं तदभियोगपरिहाराद् अर्वाग् अन्यो ऽर्थी नाभियुञ्जीत । तथाभियोक्तुम् उक्तं त्यक्त्वान्यथा न वक्तव्यम् इत्य् अर्थः । यः पुनर् अन्यथा वक्ति सो ऽन्यथावादित्वेन हीनो भवति । तथा च नारदः ।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतविपलायी च हीनः पञ्चविधः स्मृतः ॥ इति ।

तत्रान्यवादितया हीनस् तेन निरूपितः ।

पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
वादसंक्रमणात् ज्ञेयो हीनवादी स वै नरः ॥

पूर्ववाद आवेदनम् । तथा च कात्यायनः ।

श्रावयित्वा यथाकार्यं त्यजेद् अन्यद् वदेद् असौ ।
अन्यपक्षाश्रयस् तेन कृतो वादि स हीयते ॥

तथा परम् अभियुज्य नाहम् अभियुनज्मि हत्येवं (?) विरुद्धं यो वदेत् सो ऽप्य् अन्यवादितया हीन इत्य् आह स एव ।

न मयाभिहितं कार्यम् अभियुज्य परं वदेत् ।
विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥

तथा च पत्रलिखितं पूर्वपक्षम् अन्यथा कुर्वन्न् अप्य् अन्यथावादितया हीन इत्य् आह स एव ।

लेखयित्वा तु यो वाक्यं हीनं वाप्य् अधिकं पुनः ।
वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥

लेखयित्वा पत्र इति शेषः, भूम्यादाव् आवापोद्धारस्य (?) तेनैवोक्तत्वात् । अभियोगः पूर्वपक्षः तं कर्तुं नार्हतीत्य् आर्थः । एतच् चानर्हत्वम् उत्तरे निवृत्ते सति वदतो द्रष्टव्यम् । अनिवृत्ते तूत्तरे हीनतैव, नानर्हत्वम्, ओत्तरनिवृत्तेः (?) पूर्वपकशोधनस्य मोहादाव् अगत्याभ्यनुज्ञानात् । तथा क्रियाद्वेषितयानुपस्थायितया च हीनस् तेनैव निरूपितः ।

सभ्याश् च साक्षिणश् चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥
आह्वानाद् अनुपस्थानात् सद्य एव प्रहीयते ॥ इति ।

आह्वानानन्तरम् अनागमने तदानीम् एव हीनो भवतीत्य् अर्थः । तथा निरुत्तरतया हीनं निरूपयितुम् आह स एव ।

ब्रूहीत्य् उक्तो ऽपि न ब्रूयात् सद्यो बन्धनम् अर्हति ।
द्वितीये ऽहनि दुर्बुद्धेर् विद्यात् तस्य पराजयम् ॥

पराजयो हीनता । अत एव हारीतः ।

सापदेसं हरेत् कालम् अब्रुवंश् चापि संसदि ।
उक्त्वा वचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥

सापदेशं सव्याजम् । तथा च कात्यायनः ।

व्याजेनैव तु यत्रासौ दीर्घकालम् अभीप्सति ।
सापदेशं तु तं विद्याद् वादहनिकरं स्मृतम् ॥ इति ।

आहूतविपलायी तु अभियोगपरिहारार्थम् आह्वानं बुद्ध्वा प्रच्छन्नचारी । एतेषां तूत्तरोत्तरस्य हीनता गुर्वीति ज्ञापयितुं हीनः पञ्चविध इत्य् उक्तम्, न पुनः पञ्चविध एव हीन इत्य् अवधारयितुम्, विधान्तरतो ऽपि हीनानां स्मरणात् । हीनताया गुरुत्वज्ञापनं तूत्तरोत्तरस्य दण्डभूयस्त्वज्ञापनार्थम् । उक्तं च तथा कात्यायनेन ।

अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दस ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ॥
आहूतविपलायी च पणान् ग्राह्यस् तु विंशतिम् ॥

अत्र तृतीयपञ्चमयोः दण्डप्राप्तौ विशेषम् आह स एव ।

त्रिर् आहूतम् अनायान्तम् आहूतविपलायिनम् ।
पञ्चरात्रम् अतिक्रान्तं विनयेत् तं महीपतिः ॥

तथा प्रकरान्तरेणापि हीनस् तेन दर्शितः ।

श्रावितव्यवहाराणाम् एकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच् चैव हीनं तम् इति निर्दिशेत् ॥

बृहस्पतिनापि ।

भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनो ऽर्थस्य व्यवहारे स हीयते ॥

अर्थव्यवहारे भयादीनि समस्तान्य् असमस्तानि वा येन वादिना कृतानि स हीयत इत्य् अर्थः । भीषणं मुखान्तरेण भीत्युत्पादनम् । मनुनापि ।

अदेश्यं यश् च दिसति निर्दिश्यापह्नुते च यः ।
यश् चाधरोत्तरान् अर्थान् विहीनान् नावबुध्यते ॥
अपदिश्यापदेशं च पुनर् यस् त्व् अपधावति ।
सम्यक् प्राणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥
सन्ति ज्ञातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः कारणैर् एतैर् हीनो ऽसाव् इति निर्दिशेत् ॥ इति ।

अयम् अर्थः । अदेश्यं निर्णयसमयासंभविनं साक्षिणं यो निर्दिशति, संबविनं वा निर्दिश्य यो ऽपह्नुते न मया नित्दिष्ट इति, यश् चात्मनो वचनगतक्रमविरोधं न जाजाति, यः पुनर् अपदेशं मम पीडा वर्तत इत्यादिव्याजम् अपदिश्य अपसरति, सम्यक् प्रणिहितं सुष्ठूक्तम् (?) अर्थम् अनूद्यात्र किं ब्रवीषीति पृष्टो यो न किंचिद् उत्तरं प्रस्तौति, यस् च साक्षिणः सन्तीत्य् उक्त्वा कथय तान् इत्य् उक्तो ऽपि न कथयति असौ हीन इति धर्माधिकरणस्थः पूर्वोक्तकारणैर् निर्दिसेद् इति । एतेष्व् अपि हीनेषु दोषानुरूपो दण्डो ग्राह्यः । तथा च हीनाधिकारे कात्यायनः ।

दोषानुरूपं संग्राह्यः पुनर् वादो न विद्यते ॥ इति ।

प्रकृतार्थसिद्ध्यर्थम् इति शेषः । अयं च प्रतिषेधो मन्युकृतविवाद एव, यत आह नारदः ।

सर्वेष्व् अर्थविवादेषु वाक्छले नावसीदति ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥

पश्वादिसर्वार्थविवादेषु वाक्छले प्रमादाभिधाने कृते ऽपि नावसीदति नात्यन्तं हीयते, यतस् तत्र दण्ड्यस्यापि न प्रकृतार्थहानिर् इत्य् अर्थः । अत्रापवादम् आह कात्यायनः ।

उभयोर् लिखिते वाक्ये प्रारब्धे कार्यनिश्चये ।
अनुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् स हीयते ॥

याज्ञवल्क्यो ऽपि ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥

स्वतन्त्रः परीक्षकनिरपेक्षः । निष्पतेत् देयम् अदत्वा निष्पत्य तिष्ठेत्, पलायेत वा । दण्डग्रहणेनैव हीनत्वसिद्धेः पुनर् हीनग्रहणं प्रकृताद् अर्थाद् धीन इति ज्ञापनार्थम् । अत एव नारदः ।

अनिवेद्य तु यो राज्ञे संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिद्ध्यति ॥ इति ।

बृहस्पतिर् अपि ।

आहूतप्रपलायी च मौनी साक्षिपराजितः ।
स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥

स्ववाक्यप्रतिपन्नः स्ववाचैव संप्रतिपन्नः । अत्रापि चतुर्विधग्रहणम् एतेषाम् उत्तरोत्तरस्याचिरं प्रकृताद् अर्थाद् धीनत्वं भवतीति ज्ञापयितुं न पुनः प्रकृताद् अर्थाद् धीनश् चतुर्विध एवेति नियन्तुम्, विधान्तरस्याप्य् उक्तत्वात् । तत्र कदा कस्य हीनत्वम् इत्य् अपेक्षिते आह स एव ।

प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर् दिनैः ।
साक्षिभिन्नस् तत्क्षणेन प्रतिपन्नश् च हीयते ॥

तथा निर्दिष्टान् साक्षिपुरुषान् अवादयतो ऽप्य् एवंविधहीनत्वं चिरेण बहव्तीत्य् आह स एव ।

साक्षिणस् तु समुद्दिश्य यस् तु तान् न विवादयेत् ।
त्रिंशद्रात्रात् त्रिपक्षाद् वा तस्य हानिः प्रजायते ॥

न वादयेत् कामत इति शेषः । तथा च कात्यायनः ।

साक्षिणो यस् तु निर्दिश्य कामतो न विवादयेत् ।
स वादी हीयते तस्मात् त्रिंशद्रात्रात् परेण तु ॥ इति ।

अकामतश् चेन् न हीयते । अत एव बृहस्पतिः ।

आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् ।
नोपस्थितो यदा कश्चिच् छलं तत्र न कारयेत् ॥
दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥ इति ।

“छलं तत्र न कारयेत्” इति वदन् अन्यत्रार्थहानिप्रतिपादकवचनच्छलनिरसनेनापि (?) व्यवहारनयनं कार्यम् इति ज्ञापयति । एवं चार्थविवादेषु यत्र नार्थहानिवचनं तत्रैव हीनस्य वदो ग्राह्यो नान्यत्रेत्य् अवगन्तव्यम् । अत एव कात्यानयनः ।

पलायनानुत्तर्त्वाद् अन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ इति ।

पलायनादाव् अवधिभूतकालातिक्रमणेनागमनादिकर्तुर् अर्थहान्यभावाद् वादो ग्राह्य इत्य् अर्थः । तत्र यदि हीनेनेतरस्य पराजयः तदा विशेषस् तेनैव दर्शितः ।

यो हीनवाक्येन जितस् तस्योद्धारं विदुर् बुधाः ।
स्ववाक्यहीनो यस् तु स्यात् तस्योद्धारो न विद्यते ॥ इति ।

याज्ञवल्क्यस् तु दुष्टवादिपरिज्ञानार्थम् आह ।

देशाद् देशान्तरं याति सृक्विणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवऋण्यम् एति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥
स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगे ऽथ साक्ष्ये च दुष्टः स परिकीर्तितः ॥ इति ।

सृक्विणी ओष्ठप्रान्तौ । निर्भुजति कुटिलीकरोति । स्वभावाद् विकृतिं गच्छेत् स्वाभाविकधर्माद् वैपरीत्यम् एवं गच्छेद् इत्य् अर्थः । मनुर् अपि ।

आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ इति ।

दुष्टस्येति शेषः । एवं दुष्टान्तःकरणतया ज्ञातस्यापि न दण्डो न प्रकृआर्थाद् धानिर् वा । तयोर् मुनिभिर् अनभिधानात् । अदुष्टस्यापि कथंचिद् एवंविधचिह्नान्वयसंभवात् । दुष्टाभिधायकवचनानां च तद्रक्षणादाव् अवधानविधानार्थत्वेनावैयर्थ्यात् । ये पुनर् एकान्तपराजयभयाद् अर्वाक् प्रमाणकरणात् स्वतो ऽपि वादतो निवर्तन्ते ते दण्ड्या इत्य् आह बृहस्पतिः ।

पूर्वोत्तरे संनिविष्टे विचारे संप्रवर्तते ।
प्रशमं ये मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥ इति ।

मिथो यान्ति नृपं वञ्चयित्वेति शेषः । अत एव कात्यायनः ।

आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान् नृपस्य ते ॥ इति ।

एवं चावञ्चनया प्रशान्तानां न दण्डः । अत एव बृहस्पतिः ।

पूर्वोत्तरे ऽभिलिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः संतप्तयोः संधिः स्याद् अयःखण्डयोर् इव ॥
साक्षिसभ्यविकल्पस् तु भवेत् तत्रोभयोर् अपि ।
डोलायमाने यौ संधिं प्रकुर्यातां विचक्षणौ ॥
प्रमाणसमतो यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजाज्ञया संधिर् उभयोर् अपि शस्यते ॥ इति ।

एकस्य वादिनः एकान्तपराजयाद् अर्वाक् यौ संधिं प्रकुर्यातां तौ विचक्षणाव् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां विवादविषयाणि