१० उत्तरपादः

अथोत्तरपादः

तत्र बृहस्पतिः ।

विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञार्थे स्थिरीभूते लेखयेद् उत्तरं ततः ॥

वादिना निश्चितस्यापि पक्षस्य पुनः प्राड्विवाकादिभिर् विचार्य कृते स्थैर्ये ततस् तत्पक्षस्योत्तरं प्रतिवादी लेखयेद् इत्य् अर्थः । नारदो ऽपि ।

यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् ॥

एवंविध इत्य् अस्यार्थो हारीतेन विवृतः ।

स्वल्पवर्णो ऽर्थबहुलः प्रतिज्ञादोषवर्जितः ।
साक्षिमान् कारणोपेतो निरवद्यः सुनिस्चितः ॥
ईदृशः पूर्वपक्षस् तु लिखितो यत्र वादिना ।
दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥

साक्षिमान् प्राड्विवाकादिप्रत्यवेक्षणवान् । यदा त्व् अनीदृशस् तदा न दद्याद् इत्य् अर्थसिद्धं स्पष्टयितुं पक्षाभासम् एकम् उदाहृत्य तस्योत्तरं न देयम् इत्य् आह स एव ।

साधारणी च या भूमिर् यच् च द्रव्यं गणाश्रितम् ।
एकस्य प्रार्थयानस्य न वदेद् उत्तरं बुधः ॥ इति ।

अतः परीक्षितपूर्वपक्षस्यैव प्रतिवादिना उत्तरं लेख्यम् इत्याह याज्ञवल्क्यः ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ॥ इति ।

श्रुतभाषार्थस्य प्रत्यर्थिन इत्य् अक्षरार्थः । संग्रहकारो ऽपि ।

अनन्यार्थम् अहीनार्थं न्यायागमसमन्वितम् ।
अन्यूनानधिकादृष्टम् अनन्याक्षरसंभवम् ॥
भाषायाम् इत् पत्रेषू लिखितायाम् अनन्तरम् ।
प्रत्यर्थिनः श्रुतार्थस्य कलो ऽयं दातुम् उत्तरम् ॥ इति ।

अनन्यार्थम् इत्यादिलक्षणजातं यथा भवति तथा भाषायां लिखितायाम् इत्य् अर्थः । अयं च कालनियमो गवादिविवादेष्व् एव । तथा च नारदः ।

गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च ।
साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥

अभिशापः पापाभिशंसनम् । तस्य पारुष्यभेदत्वे ऽप्य् आदरार्थं पुनर् वचनम् । आत्ययिकं कात्यायनेनोक्तम् ।

व्यपैति गौरवं यत्र विनाशस् त्याग एव वा ।
कालं तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥

तथान्येष्व् अपि कार्येषु सद्य एवोत्तरं कार्यम् इत्य् आह स एव ।

धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥
कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥

उपधिः भयादिवशाद् अभ्युपगमः । याज्ञवल्क्यो ऽपि ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियां ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥

अन्यत्र ऋणादानादाव् इत्य् अर्थः । तथा च नारदः ।

गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥

ऋणादिषु ऋणादानादिविवादपदेष्व् इत्य् अर्थः । अत एव पितामहः ।

ऋणोपनिधिनिक्षेपदानसंभूयकर्मणाम् ।
समये दायभागे च कालः कार्यः प्रयत्नतः ॥

एवमादिष्व् अपि कालदानं विस्मृत्यादिकारणतः प्रत्यर्थिनः कालार्थित्व एव । तथा च कात्यायनः ।

श्रुत्वा लेख्यगतं त्व् अर्थं प्रत्यर्थी कारणाद् यदि ।
कालं विवादे याचेत् तस्य देयो न संशयः ॥

सद्यःकृतेषु कार्येषु स्मृतिसंभवात् सद्य एव विवाह इत्य् आह स एव ।

सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥

प्रत्यर्थिन इत्य् उपलक्षणार्थम् । अत एव नारदः ।

मतिर् नोत्सहते यस्य विवादे वक्तुम् इच्छतः ।
दातव्य एव कालः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥

दातव्यस् च कालः कियान् इत्य् अपेक्षिते स एवाह ।

सद्य एकाहपञ्चाहौ त्र्यहं वा गुरुलाघवात् ।
लभेन् मासं त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥

गौतमो ऽपि “संवत्सरं प्रतीक्षेत” इति । अत्र व्यवस्थाम् आह कात्यायनः ।

कालं शक्तं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥

कालः अर्थसंबन्धादेः । शक्तिः कार्यिणाम् । कार्याणां साध्यभूतार्थानाम् । श्लोकस्यार्थस् तु तेनैव प्रपञ्चितः ।

सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।
षडाब्दिके त्रिरात्रं स्यात् सप्ताहं द्वादशाब्दिके ॥
विंशत्यब्दे दशाहं तु मासार्थं वा लभेत साः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥

शक्तितो व्यवस्थां च प्रदर्शयति ।

कालं संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् ।
संवत्सरं जडोन्मत्तमनस्के व्याधिपीडिते ॥
दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।
मूलं वा साक्षिनो वाथ परदेशे स्थिता यदा ॥
तत्र कालो भवेत् पुंसाम् आ स्वदेशसमागमात् ॥

संवत्सराद् अर्वाग् दिनादिनानापक्षास् त्रिपक्षान्ताः कार्याणां शक्त्यनुसारतः सभापतिना व्यवस्थापनीयाः । मूलं विवादाध्यासितं धनम् । तथा कार्यापेक्षया व्यवस्थां स्पष्टयति ।

दिनं मासार्धमासौ वा ऋतुः संवत्सरो ऽपि वा ।
क्रियास्थित्यनुरूपस् तु देयः कालः परेण तु ॥

क्रियास्थितिः कार्यगुरुलाघवस्थितिः । एवं व्यवस्थापितान्यतमकाले संप्राप्ते पूर्वपक्षाक्षरार्थस्यान्यूनानतिरिक्तम् उत्तरं लेख्यम् इत्य् आह बृहस्पतिः ।

एककाले समानीते प्रत्यर्थी सभ्यसंनिधौ ।
पूर्वपक्षाक्षरसमं लेखयेद् उत्तरं ततः ॥

अत्र नृपं प्रत्य् आह कात्यायनः ।

यावान् यस्मिन् समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायम् उत्तरं दापयेन् नृपः ॥

उत्तरलक्षणं त्व् आह प्रजापतिः ।

पक्षस्य व्यापकं सारम् असंदिघम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥

पक्षस्य व्यापकं कृत्स्नपक्षाच्छादकम् । सारं प्रागभियोगोत्तरक्षमम् । असंदिग्धं खण्डश्लेषादिरहितम् । अनाकुलम् अन्वितार्थम् । अव्याख्यागम्यं सुबोधम् । हारीतो ऽपि ।

पूर्वपक्षार्थसंबद्धम् अनेकार्थम् अनाकुलम् ।
अनल्पम् अव्यस्तपदं व्यापकं नातिभूरि च ॥
सारभूतम् असंदिग्धम् अपक्षैकांशसंभवम् ।
अर्थिश्रवनम् अगूढार्थं देयम् उत्तरम् ईदृशम् ॥

पूर्वपक्षार्थसंबद्धम् अभियोगानुगतम् । अनेकार्थं निष्कृष्टार्थजातम् । अव्यस्तपदं निश्चितप्रतिज्ञापूर्वकम् । अपक्षैकांशसंभवम् अनवशेषितस्वपक्षैकदेशम् । अर्थिश्रवं पूर्वावेदकश्रुतम् । अगूढार्थम् अवक्रोक्तिप्रसिद्धपदैकवेद्यम् । एवंलक्षणम् उत्तरं चतुर्विधं ज्ञेयम्,

चतुर्विधः पूर्वपक्षः प्रतिपक्षस् तथैव च ।

इति बृहस्पतिस्मरणात् । कथं पुनः प्रतिपक्षचातुर्विध्यम् इत्य् अपेक्षिते नारदः ।

मिथ्या संप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा ।
प्राङ्न्यायविधिसिद्ध्या वाप्य् उत्तरं स्याच् चतुर्विधम् ॥

इत्थंभूतलक्षणा चेयं तृतीया । तत्र मिथ्यासंप्रतिपत्त्योर् लक्षणम् आह कात्यायनः ।

अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥
साध्यस्य तथ्यवचनं प्रतिपत्तिर् उदाहृता ॥ इति ।

प्रत्यवस्कन्दनस्य च लक्षणं नारदेनोक्तम् ।

अर्थिना लिखितो यो ऽर्थः प्रत्यर्थी यदि तत् तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥ इति ।

प्राङ्न्यायस्य लक्षणम् आह हारीतः ।

अस्मिन्न् अर्थे ममानेन वादः पूर्वम् अभूत् तदा ।
जितो ऽयम् इति चेद् ब्रूयात् प्राङ्न्यायं स्यात् तद् उत्तरम् ॥ इति ।

एवम् उक्तलक्षणान्य् उत्तराणि स्पष्टीकर्तुं प्रजापतिनाप्य् उक्तानि ।

यावद् आवेदितं किंचित् मत्संबन्धम् इहार्थिना ।
तावत् सर्वम् असद्भूतम् इति मिथ्योत्तरं स्मृतम् ॥
अस्यैव देयम् एवैतन् नासद्भाषितम् अर्थिना ।
इति संप्रतिपत्त्याख्यं द्वितीयम् इदम् उत्तरम् ॥
दत्तम् एवं ममानेन किं त्व् अस्यापि मया पुनः ।
प्रतिदत्तम् इतीदृक् च प्रत्यवस्कन्दनं स्मृतम् ॥
अस्मिन्न् अर्थान्तरे पूर्वम् आरब्धो ऽस्म्य् अहम् अर्थिना ।
जितश् चायं मया तत्र प्राङ्न्यायविधिर् उच्यते ॥

अयं च प्राङ्न्यायस् त्रिप्रकार इत्य् आह कात्यायनः ।

विभावयामि कुलिकैः साक्षिभिर् लिखितेन वा ।
जितश् चैव मयायं प्राक् प्राङ्न्यायस् त्रिप्रकारकः ॥

कुलिकैर् इति प्रकृतव्यवहारद्रष्टॄणाम् उपलक्षणार्थम् । तथा मिथ्या चतुर्विधेत्य् आह स एव ।

मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधा ॥ इति ।

एवं संप्रतिपत्तेर् आप (?) गृहीतम्, सत्यम्, यथायं वक्ति तथैवेत्य् एवमादयो भेदा यथासंभवम् ऊहनीयाः । प्रत्यवस्कन्दनस्यापि गृहीतं प्रतिदत्तम्, प्रतिग्रहेण वा लब्धम् इत्यादयो भेदा द्रष्टव्याः । अत्र बृहस्पतिः ।

प्रथर्थिविधिर् आख्यातः सङ्गतार्थप्रपादने ।
चतुर्विधस्याप्य् अधुना यन् न ग्राह्यं तद् उच्यते ॥
प्रस्तुताद् अन्यमध्यस्थं न्यूनाधिकम् असंगतम् ।
अव्याप्य् असारं संदिग्धं प्रतिपक्षं न लेखयेत् ॥

प्रस्तुताद् अन्यद् अर्थिलिखिताभियोगापरिहारकम् । मध्यस्थं प्रतिपक्षभावरहितम् । असंगतम् अभियोगाननुगतम् । कात्यायनो ऽपि ।

अप्रसिद्धं विरुद्धं यद् अत्यल्पम् अतिभूरि च ।
संदिग्धासंभवाव्यक्तम् अन्यार्थं चातिदोषवत् ॥
अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं शस्यते बुधैः ॥ इति ।

अत्राद्यान् पञ्चोत्तराभासान् स एव व्याचष्टे ।

चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तम् अप्रसिद्धं तद् उत्तरम् ॥

लाञ्छनावयवसंस्थानसंख्यासमयानभिज्ञोक्तम् अदेशभाषयोक्तं चाप्रसिद्धम् इत्य् अर्थः ।

प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यद् एवम् आह विज्ञेयं विरुद्धं तद् इहोत्तरम् ॥

पूर्वापरविरुद्धाभिधानं विरुद्धोत्तरम् इत्य् अर्थः ।

जितः पुरा मयायं च त्व् अर्थे ऽस्मिन्न् इति भाषितुम् ।
पुरा मयायम् इति यत् तदूनं चोत्तरं स्मृतम् ॥

अस्मिन्न् अर्थे पुरायं मया जित इति वक्तव्ये पुरा मयेत्य् एतावन्मात्रम् उत्तरम् अत्यल्पम् इत्य् अर्थः ।

गृहीतम् इति वाच्यं तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद् द्रव्यम् इति यच् चतिभूरि तत् ॥

गृहीतम् इत्य् एतावन्मात्रेण सत्योत्तरे वक्तव्ये कार्यं तेनेत्यादिकम् उत्तरम् अतिभूरीत्य् अर्थः ।

देयं मयेति वक्तव्ये मयादेयम् इतीदृशम् ।
संदिग्धम् उत्तरं ज्ञेयं व्यवहारे बुधैस् तथा ॥

मायादेयम् इत्य् अत्र त्व् अकारप्रश्लेषसंभवाद् अदेयम् इत्य् अप्य् अवगमात् संदिग्धम् एवंविधम् इत्य् अर्थः । असंभव समाभिर् देयं धनम् अस्मत्प्रपौत्रपुत्रेण दत्तम् इत्य् एवंविधम् उत्तरम् । अव्यक्तम् एतद् उत्तरम् इति सुखेनाभिधातुम् अशक्यम् । एतौ चोत्तराभासौ स्पष्टाव् इति न तेन व्याख्यातौ । अन्यार्थं व्याचष्टे ।

बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तम् एतन् मन्यन्ते तद् अन्यार्थम् इतीरितम् ॥

अर्थिनो यद् असद्वृत्तकथन एव पर्यवसितं मिथोविरुद्धपदवच् च तद् अन्यार्थम् इत्य् अर्थः । अतिदोषवद् अत्युक्त्या दोषवत्, शतं देयम् इत्य् उक्ते द्विशतं दत्तम् इत्यादि । अव्यापकादिचतुष्टयं तेनैव व्याख्यातम् ।

अस्मै दत्तं मया सार्धं सहस्रम् इति भाषिते ।
प्रतिदत्तं तदर्धं यत् तद् इहाव्यापकं स्मृतम् ॥
पूर्ववादि क्रियां यावत् सम्यङ् नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद् व्यस्तपदम् उच्यते ॥

पूर्वपक्षनिस्चयाद् अर्वाक् दीयमानं मिथ्यावाद्युत्तरं व्यस्तपदम् इत्य् अर्थः ।

तत् किं तामरसं कश्चिद् अगृहीतं प्रदास्यति ।
निगूढर्थं तु तत् ज्ञेयम् उत्तरं व्यवहारतः ॥

अगृहीतं पद्मम् अतो न प्रददामीत्य् उदाहृतोत्तराभासस्यार्थः । सार्वभौमप्रयोगासिद्धतामरसादिपदवद् वक्रोक्त्यादिमच् चोत्तरं निगूढार्थं विज्ञेयम् इति स्लोकार्थः ।

किं तेनैव सदादेयं मयादेयं भवेद् इति ।
एतद् आकुलम् इत्य् उक्तम् उत्तरं तद्विदो विदुः ॥

अनन्वितानेकपदार्थवद् आकुलम् इत्य् अर्थः । व्याख्यागम्यं स्वतो दुरवबोधम् । असारं तेनोक्तम् ।

काकस्य दन्ता नो सन्ति सन्तीत्यादि यद् उत्तरम् ।
असारम् इति तत्त्वेन सम्यङ् नोत्तरम् इष्यते ॥

काकदन्तसमुद्भवोत्तरवन् निष्प्रयोजनम् असारम् इत्य् अर्थः । तथैकस्यां भाषायां सत्यमिथ्याद्यनेकोत्तरम् अनुत्तरम् इत्य् आह स एव ।

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च संकरात् तद् अनुत्तरम् ॥

ननु सांकर्ये ऽपि तेन तेनोत्तरेण तस्य तस्यांशस्य निरसनद्वारोत्तरसमुदायस्य कृत्स्नपक्षव्यापकत्वसंभवात् कथम् अनुत्तरता । सत्यम्, अत एवानुत्तरत्वसमर्थनार्थम् उक्तं तेनैव ।

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोः न चैकत्र क्रियाद्वयम् ॥ इति ।

अयम् अर्थः - क्रिया लिखितादिप्रमाणम्, तत् प्रत्यवस्कन्दने प्राङ्न्याये च प्रत्यर्थिन एव भवति, मिथ्योत्तरे त्व् अर्थिन एव । सत्ये तु न कस्यापीति वक्ष्यते । एवं च यत्र सत्येतरेषां त्रयाणां संकरः तत्र प्रत्यर्थिनः प्रमाणद्वयम् अर्थिनश् चैकं प्रमाणं प्राप्नोति । यत्र सत्यमिथ्येतरयोर् द्वयोस् तत्र प्रथर्थिन एव प्रमाणद्वयम् । यत्र पुनर् मिथाकरणयोर् मिथ्याप्राङ्न्याययोर् वा तत्रार्थिप्रत्यर्थिनोर् एकम् एकं प्रमाणम् । न च यथा प्राप्तं तथैवास्त्व् इति वाच्यम्, प्रमाणं हि साध्यसिद्ध्यर्थं क्रियते, एकस्मिन् व्यवहारे चैकम् एव साध्यम् एकस्यैव वादिनः, तेन तत्र नोभयोः प्रमाणम्, एकस्य वा प्रमाणद्वयं भवितुम् अर्हति, उभयोस् साध्याभावात् । एकस्य साध्यस्य चैकेन प्रमाणेन सिद्धाव् अन्यस्य वैय्यर्थ्यात् । सत्यस्य त्व् इतरैः सङ्करे यद्य् अपि नायं दोषः, तथाप्य् एकस्मिन् व्यवहारे पादचतुष्टये तदर्धे च समाप्तिर् विद्ध्रुद्धेति तत्राप्य् अनुत्तरत्वम् एव । तस्माद् युक्तम् उक्तम् “संकरात् तद् अनुत्तरम्” इति । एवं च सर्वत्र व्यवहारे पक्षव्याप्य् एकम् एवोत्तरं ग्राह्यम् । यत्र पुनः सर्वथा तथाविधम् उत्तरं न लभ्यते, किं तु एकैकांशव्यापकम् अनेकम् उत्तरं तत्रागत्योत्तरवशेन नानाप्रतिज्ञाः पक्षदोषपरिहाराय कृत्वा क्रमेणैकैकप्रतिज्ञाया एकैकम् उत्ततं ग्राह्यम् । अन्यथा तत्र निर्णयाभाव एव स्यात् । अत एवोक्तम् “सङ्करात् तद् अनुत्तरम्” इति । उक्तविधया सङ्करे निराकृते स्याद् एवोत्तरम् इत्य् अभिप्रायः । अत एव चास्मिन्न् एव विषये हारीतेनोत्तरग्रहणे पौर्वापर्यं प्रश्नपूर्वकम् उक्तम् ।

मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥

पूर्वम् इति शेषः । पूर्वं यद् ग्राह्यं तद् आह ।

यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र तज् ज्ञेयम् असङ्कीर्णम् अतो ऽन्यथा ॥

अयम् अर्थः । सत्येतरोत्तरानेकत्वे बह्वर्थविषयम् अग्रे ग्राह्यम् । सह सत्येनानेकत्वे बह्वर्थम् अपि सत्यं विहायोत्तरान्तरम् एवादाव् उपादेयम्, सत्ये क्रियाफलाभावाद् इति । न चैवं क्रमवाचिपदाध्याहारापत्तेर् यत्रोत्तरकाले पक्षव्यापकानेकोत्तरोपन्यासः, यथा - केनचिन् मानवेन मदीया गौर् नष्टा दृष्टास्य सद्मनीत्य् अभियुक्तो वक्ति मिथ्यैतद् अस्मद्भवन एव सा संभूतेत्य् एवमादि । तद्विषयम् एवेदं वचनम् इति वाच्यम् । यत उक्तम् “असङ्कीर्णम् अतो ऽन्यथा” इति, तस्यायम् अर्थः - असंकीर्णम् उत्तरम् एवंक्रमे भवति, अतो ऽन्यथा यौगपद्ये संकीर्णम् एव स्याद् इति । पक्षव्यापकानेकोत्तरे तु विकल्पविषये न जातुचित् संकरावसरः । तस्मात् संकरोत्तरविषयम् एवेदं वचनम् । अत एव पक्षव्यापकानेकोत्तरविषये वचनान्तरम् आरब्धं तेनैव ।

मिथ्याकरणयोर् वापि ग्राह्यं कारणम् उत्तरम् ॥ इति ।

कारणोत्तरस्य अनन्यथासिद्धत्वादिना मिथ्यातो गुरुतरत्वाद् इत्य् अभिप्रायः । अतो मिथ्याकारणयोर् उदाहरणमात्रत्वाद् उत्तरान्तरसंनिपाते ऽपि गुरुतरं ग्राह्यम् इत्य् ऊह्यम् । यत्र पुनः संकरोत्तरे तुल्यबलतया न पूर्वोक्तक्रमहेतुर् अस्ति तत्राप्य् ऐच्छिकक्रमेणोत्तरं ग्राह्यं निर्णयस्यावश्यकत्वात् । एवं निरूपितम् उत्तरं प्रतिवादिना स्वयम् एव देयम् । तथा च हारीतः ।

तत्राभियोगानुगतम् उत्तरं प्रतिवादिना ।
निष्कृष्टार्थं प्रदेयं स्यात् दोषसंज्ञाविवर्जितम् ॥

यदा पुनः स्वयम् एव न ददाति उत्तरम्, प्रदानकालश् चातिक्रान्तः तदाप्य् आह स एव ।

पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं यदा ।
प्रत्यर्थी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥

दापनीयो नृपेणेति शेषः । तथा च नारदः ।

यथार्थम् उत्तरं दद्याद् अददद् दापयेन् नृपः ।
सामभेदादिभिर् मार्गैर् यावत् सो ऽर्थः समुद्धृतः ॥

सामादयो हारीतेन दर्शिताः ।

प्रियपूर्वं वचः साम भेदस् तु भयदर्शनम् ।
अर्थापकर्षणं दानं दण्डस् ताडनबन्धनम् ॥

तथा वसिष्ठेनापि ।

कौटिल्यं सामभेदौ च दण्डश् चेति चतुष्टयम् ।
मायोपेक्षेन्द्रजालानि सप्तोपायाः प्रकीर्तिताः ॥ इति ।

एतैर् अप्य् उपायैर् असाध्यं प्रत्याह स एव ।

उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दातुम् अर्हति ॥ इति ।

**इति स्मृतिचन्द्रिकायाम् उत्तरपादः **