०९ प्रतिज्ञापादः

अथ प्रतिज्ञापादः

तत्र बृहस्पतिः ।

उपस्थिते ततस् तस्मिन् वादी पक्षं प्रकल्पयेत् ॥ इति ।

समीपस्थे प्रत्यर्थिनि पक्षं लेखयेद् इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना ॥ इति ।

यथावेदितम् इति यत् साध्यम् आवेदितं तद् एव लेख्यम्, न साध्यान्तरम् इति प्रतिपादनार्थम्, न पुनर् यावद् आवेदितं तावद् एव लेख्यम् इति । यतो ऽनावेदितस्यापि वत्सरादिविशेषस्येदानीं लेखनं कार्यम् इति स एवाह ।

समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ इति ।

समा संवत्सरः । स च धनप्रयोगादिकालीनो लेखनीयः । मासादिर् अपि तत्कालीन एव । आदिशब्दसंगृहीतानि विशेषणानि कात्यायनेन दर्शितानि ।

निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥
साध्यद्रव्यप्रमाणं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥
क्रमात् पितॄणां नामानि पीडाम् आहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥ इति ।

कालो धनप्रयोगादिकालः वर्तमानेन राज्ञोपलक्षितः । वर्षं देववर्षम् इत्यादि । वेला भुज्यादिक्रियोपलक्षितः कालः । प्रदेशः साध्यक्षेत्रादेः स्थलविशेषः । विषयो ऽन्तर्वेद्यादिदेशः । स्थानं विवादास्पदस्य गृहादेर् ग्रामादिः । आकृतिः अवयवसंस्थानविशेषः । वयस् तारुण्यादि । प्रमाणं परिमाणं दण्डतुलाप्रस्थादिकम् । आत्मनो ऽर्थिनः । राज्ञां क्षेत्रादिभुक्तिकालीनानाम् । निवासो वासस्थानं गृहगोष्ठादि । पितरो ऽर्थिप्रत्यर्थिनोर् जनकादयः । पीडा प्रतिभुवा धनिकेन कृता । आहर्ता प्रतिग्रहाद्यागमकर्ता । दायको दाता । क्षमालिङ्गानि आत्मीयधनादेः परोपभोगासहननिमित्तानि । अन्यानि प्रदर्शितेभ्यो ऽधिकान्य् अपि वृद्ध्यागमादीनि । तथा च बृहस्पतिः ।

निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ।
द्रव्यसंख्योदयं पीडां क्षमालिङ्गं च लेखयेत् ॥

तथा लक्षणान्तराण्य् अपि स एवाह ।

अल्पाक्षरः प्रभूतार्थो निःसंदिग्धस् त्व् अनाकुलः ।
युक्तो विरोधिकरणैर् विरोधिप्रतिषेधकः ॥
एवम् आदिगुणान् सम्यग् आलोच्य च सुनिश्चितः ।
पक्षः कृतः समादेयः पक्षाभासस् ततो ऽन्यथा ॥ इति ।

संग्रहकारो ऽपि ।

अर्थवद् धर्मसंयुक्तं परिपूर्णम् अनाकुलम् ।
साध्यवद् वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धम् अविरुद्धं च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसंख्यावद् आत्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजान् एकराजनामभिर् अङ्कितम् ॥
क्षमालिङ्गात्मपीडावत् कथिताहर्तृदयकम् ।
यद् आवेदयते राज्ञे तद् भाषेत्य् अभिधीयते ॥ इति ।

अर्थवत् प्रयोजनवत् । धर्मसंयुक्तम् अल्पाक्षरत्वप्रभूतार्थवत्त्वादिगुणान्वितम् । परिपूर्णम् अध्याहारानपेक्षम् । अनाकुलम् असंदिग्धाक्षरकम् । साध्यवत् सिषाधयिषितार्थाहीनम् । वाचकपदं गौणलाक्षणिकरहितम् । प्रकृतार्थानुबन्धि प्रागावेदितार्थाविरोधि । प्रसिद्धं लोकप्रसिद्धवस्तुविषयम् । अविरुद्धं पुरराष्ट्रप्राड्विवाकनृपाद्यविरुद्धम् । तथा पूर्वापराविरुद्धं प्रत्यकादिप्रमाणाविरुद्धं व्यावहारिकधर्माविरुद्धं च । निश्चितम् अर्थन्तरशङ्कारहितम् । साधनक्षमं साधनार्हम् । संक्षिप्तं अनतिविस्तृतम् । निखिलार्थम् अनवशेषितवक्तव्यम् । देशकालाविरोधि मध्यदेशीयं क्रमुकक्षेत्रम्, शरत्कालीनम् आम्रफलसहस्रम् अपहृतम् इत्य् एवमादिरहितम् । परात्मपूर्वजानेकराजनामभिर् अङ्कितम्, परः प्रतिवादी । आत्मा वादी । पूर्वजाः तयोः पित्रादयः । अनेके राजानो भुक्तिकालीनाः । तेषां नामानि परात्मपूर्वजानेकराजनामानि, तैश् चिह्नितम् । शिष्टम् उक्तार्थम् । अर्थवत्त्वादीनि देसकालाविरोधित्वान्तान्य् अर्थिप्रत्यर्थिनामसहितानि सर्वव्यवहारभाषोपयोगीनि । तेन तैः सर्वत्र भाषायाम् अवश्यं भवितव्यम् । तैर् विना क्वचिद् अपि साध्यसिद्धेः सुखेन कर्तुम् अशक्यत्वात् । वर्षादीनि पुनर् विशेषणानि सर्वाणि न सर्वत्रोपयोगीनि, कतिपयैर् विनापि तत्र तत्र साध्यसिद्धिसंभवात् । अतो यत्र येषाम् उपयोगस् तत्रैव तेषां निवेशनं कार्यम्, नेतरत्रापि, प्रयोजनाभावात् । तत्र वर्षादिकालानां वृद्धिमद्धनद्वैगुण्यादिविवादे प्रतिग्रहक्रयाध्यादीनां पौर्वापर्यविवादे चोपयोगः । देशप्रदेशस्थानानां तथा परात्मपूर्वजानेकराजनामधेयानाम् आहर्तृदायककथनस्य च स्थावरविवादेषूपयोगः । साध्याख्याजात्याकारवयसां चौर्यास्वामिविक्रयादाव् अर्थविवादे ऽप्य् उपयोगः । प्रमाणसंख्ययोर् मेयतुलिमगणिमादिद्रव्यविवादे चौर्यविवादे चोपयोगः । क्षमालिङ्गानाम् उपेक्षितस्थानादिविवादेषूपयोगः । आत्मपीडायाः ऋणिकलग्नकविवादादाव् उपयोग इत्य् एषा दिक् । एवं चार्थवत्त्वादिभिः सह वर्षादीनां यथोपयोगं क्वचित् क्वचिन् निवेशनम् इति मन्तव्यम् । अत एव कात्यायनः ।

देशश् चैव तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञा निवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहश् चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ इति ।

तेषां तत्रोपयोगाद् इत्य् अभिप्रायः । हारीतो ऽपि ।

आसनं शयनं यानं ताम्रं कांस्यम् अयोमयम् ।
धान्यम् अश्ममयं वस्त्रं द्विपदं च चतुष्पदम् ॥
मणिमुक्ताप्रवालानि हीरकं रूप्यकाञ्चनम् ।
यदि द्रव्यसमूहः स्यात् संख्या कार्या तथैव च ॥
यस्मिन् देशे च यद् द्रव्यं येन मानेन मीयते ।
तेन तस्मिन् यथा संख्या कर्तव्या व्यवहारिभिः ॥ इति ।

हीरकं वज्रम्, तेन मानेन मित्वा संख्या कर्तव्येत्य् आह । एवं च यत्र यद् उपयुज्यते तत्र तदभावे साद्यसिद्धेः कर्तुम् अशक्यत्वाद् अनादेय एवोपयोगिविहीनः पक्षः । अत एव कात्यायनः ।

देशकालविहीनस् च द्रव्यसंख्याविवर्जितः ।
क्रियाप्रमाणहीनश् च पक्षो नादेय इष्यते ॥

क्रियाप्रमाणं साध्यपरिमाणम् । तथा प्रयोजनवत्वादिलक्षणहीनो ऽपि पक्षो हेय एव ।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥

तत्राप्रसिद्धो बृहस्पतिना निरूपितः ।

न केनचित् कृतो यस् तु सो ऽप्रसिद्ध उदाहृतः । इति ।

अत्रोदाहरणं फलसहस्रकृतं स्थालं गृहीतम् इति । निराबाधो निरुपद्रवः, यथा अस्मद्भवनस्थप्रदीपप्रभया स्वगृहे व्यवहरतीति । निरर्थनिष्प्रयोजनौ बृहस्पतिना दर्शितौ ।

स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः ।
कार्यबाधविहीनस् तु विज्ञेयो निष्प्रयोजनः ॥

तत्र निरर्थक्स्योदाहरणम् - अहम् अनेन सस्मितं निरीक्षितः, मामकी लाक्षानेनापहृतेति वा । निष्प्रयोजनस्य तु यथा - यज्ञदत्तो ऽस्मद्गृहसमीपे श्लाघमानः पठतीति । प्रकारान्तरेणाप्य् एतौ तेनैव दर्शितौ ।

कुसीदाद्यैः पदैर् हीनो व्यवहारो निरर्थकः ।
वाक्पारुष्यादिभिश् चैव विज्ञेयो निष्प्रयोजनः ॥

ऋणादानाद्यष्टादशपदानन्तर्भूतो निरर्थकः । वाक्पारुष्यादिभिः साध्यसिद्ध्यनुपयुक्तैः सहितः पक्षो निष्प्रयोजन इत्य् अर्थः । असाध्यविरुद्धाव् अपि तेनैव दर्शितौ ।

ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यम् असाध्यं तं पक्षं आहुर् मनीषिणः ॥
यस्मिन्न् आवेदिते पक्षे प्राड्विवाके च राजनि ।
पुरे राष्ट्रे विरोधः स्याद् विरुद्दः सो ऽभिधीयते ॥ इति ।

नारदो ऽपि भाषादोषान् दर्सयति ।

अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यहीनाधिकं भ्रष्टं भाषादोषा उदाहृताः ॥

स्वयमम् एव व्याचष्टे

अर्थे साधारणे प्य् एको वाद्यर्थे वानियुक्तकः ।
लेखयेद् यस् तु भाषायाम् अन्यार्थां तां विदुर् बुधाः ॥

एक एव गणी गणस्य कार्यम् एकस्य वा कार्यम् अनियुक्तो ऽसंबन्धी वा लेखयेद् यस्यां भाषायाम् इत्य् अर्थः ।

ब्रह्महायम् इति ज्ञेयो द्वेषान् मोहाद् वदेत् तु यः ।
साध्यं च मोचयेत् तत्र द्रव्यहीनां तु तां विदुः ॥

उक्तं साध्यवादिना यस्यां त्यज्यते सा च भाषार्थहीनेत्य् अर्थः ।

गणिमे तुलिमे मेये तथा क्षेत्रगृहादिके ।
यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्जिता ॥
विद्यया प्राप्तम् आध्याप्तं लब्धं क्रीतं क्रमागतम् ।
न त्व् एवं लिख्यते यत्र सा भाषा स्याद् अनागमा ॥
समा मासस् तथा पक्षस् तिथिर् वारस् तथैव च ।
यत्रैतानि न लिख्यन्ते लेख्यहीनां तु तां विदुः ॥
लेखयित्वा तु यो भाषाम् निर्दिष्टे तथोत्तरे ।
उद्दिशेत् साक्षिणं पूर्वम् अधिकां तां विनिर्दिशेत् ॥
यत्र स्याद् उभयं सर्वं निर्दिष्टं पूर्ववादिना ।
संदिग्धम् इव लिख्येत भ्रष्टां भाषां तु तां विदुः ॥ इति ।

यत्र पक्षद्वयम् अखिलं प्रतिज्ञावादिनैव निर्दिष्टं स्याद् इत्य् अर्थः । तथान्यान् अपि पक्षान् अनादेयान् आह स एव ।

भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः ।
अतीतकालो द्विष्ठश् (?) च पक्षो ऽनादेय इष्यते ॥

तत्र भिन्नक्रमस् तेनैव व्याख्यातः ।

यथास्थाननिवेशेन नैव पक्षार्थकल्पना ।
शस्यते न स पक्षस् तु भिन्नक्रम उदाहृतः ॥

व्यस्ताक्षरसंस्थानो भिन्नक्रम इत्य् अर्थः । व्युत्क्रमार्थो व्यवहितान्वयेनार्थबोधकः । प्रकीर्णार्थः संकलितार्थः । निरर्थकादीन् स एवाचष्टे ।

मूलम् अर्थं परित्यज्य तद्गुणो यत्र लिख्यते ।
निरर्थकः स वै पक्षो भूतसाधनवर्जितः ॥
भूतकालम् अतिक्रान्तं द्रव्यं यत्र विलिख्यते ।
अतीतकालः पक्षो ऽसौ प्रमाणे सत्य् अपि स्मृतः ॥
यस्मिन् पक्षे द्विधा साध्यं भिन्नकालविमर्शनम् ।
विमृश्यते क्रियाभेदात् स पक्षो द्विष्ठ उच्यते ॥ इति ॥

भूतसाधनं मूलभूतधनसाधनम् । भूतकालो ऽवधिभूतः कालः । क्रियाभेदात् प्रमाणभेदात् । तथापरान् अपि पक्षाभासान् आह स एव ।

अन्याक्षरनिवेशेन अन्यर्थगमनेन च ।
आकुलं तु भवेल् लेख्यं क्रिया चैवाकुला भवेत् ॥
उपेक्षा यत्र साध्यस्य विंशतिर् दश वा समाः ।
शक्तेनापि कृता वादे तस्य पक्षो मृषा भवेत् ॥
साहसं सह साध्येन निर्दिष्टं यत्र लेखयेत् ।
उक्तिक्रमविहीनत्वात् सो ऽपि पक्षो न सिद्ध्यति ॥

क्रिया साध्यम्, साधनं प्रमाणम् । हारीतो ऽपि ।

प्रक्रान्तसाधनो ऽर्थस् तु द्विधा यस्मिन् निवेश्यते ।
स्वसाध्याद् वा विभिन्नो वा सो ऽपि पक्षो मृषा भवेत् ॥

प्रक्रान्तः साधयितुम् उपक्रान्तो ऽर्थो द्विधा द्विप्रकारेण दाध्यतयाथ वावेदितात् साध्याद् विधान्तरेण तद्विरोधितया वा यत्र पक्षे निवेश्यते सो ऽपि पक्षाभास इत्य् अर्थः । भृगुर् अपि ।

उत्सृष्टं यत्र हीनेन कल्प्यं वाप्य् एकम् एकतः ।
तत्र पक्षो न साध्यः स्याच् छास्त्रशिष्टविवर्जितः ॥
विरुद्धश् चाविरुद्धस् च द्वाव् अप्य् अर्थौ निवेशितौ ।
एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस् त्यजेत् ॥

हीनेन हीनवादिना । पितामहो ऽपि ।

परस्परविरुद्धानि यः पदानि निवेशयेत् ।
विरुद्धपदसंकीर्णा भाषा तस्य न सिद्ध्यति ॥

कात्यायनो ऽपि ।

न्यायस्थं नेच्छते कर्तुं अन्याय्यं वा करोत्य् अयम् ।
न लेखयति यस् त्व् एवं तस्य पक्षो न सिद्ध्यति ॥

न्यायागतं मदीयं धनं गृहीत्वा न ददतीतिवत् प्रतिषेधरूपेण वा मदीयं क्षेत्रादिकम् अपहरतीतिवद् विधिरूपेण वा न लेखयतीत्य् अर्थः । तथा ।

पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥

पुरराष्ट्राचारविरुद्धो राजत्यक्तशुल्कशालादिविषयः सर्वधा न सिद्ध्यति । ऋणादानाद्यनेकपदसंकीर्णस् तु क्रियाभेदाद् यौगपद्येन न सिद्ध्यतीत्य् अर्थः । यत् पुनस् तेनोक्तम् ।

बहुप्रतिज्ञं यत् कार्यं व्यवहारे सुनिश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥

इति, तद् अनेकपदसंकीर्णस्य कलभेदेनोपादेयत्वप्रतिपादनार्थम्, अथ वा ऋणादानाद्येकपदान्तर्गतानेकजातीयानां हिरण्यवस्त्रपशुधान्यानाम् एकजातीयानां संख्यापरिमाणदेशकालवृद्ध्यादिभेदेन गृहीतानां यथावृत्तकथनार्थं भेदेन प्रतिज्ञाय पुनस् तत् सर्वं प्रतिदेयम् इत्य् एककार्यतयोपसंहृतं ग्राह्यम् इत्य् एवं प्रतिपादनार्थम्, अतो न प्राचीनवचनेन विरोधः । तथा ।

आगमः परिभोगश् च व्युच्छित्तिः प्रार्थना तथा ।
एतच् चतुष्टयं प्राहुः भाषादोषाश् त्व् अकारणाः ॥

आगमो धनागमननिमित्तं प्रतिग्रहादिः । परिभोगो यथेष्टविनियोगानिवृत्तिः । व्युत्च्छित्तिः देशविप्लवादिना भोगविच्छित्तिः । प्रार्थना युक्तिभिर् भोगागमकीर्तनम् । एतद् आगमादिचतुष्टयं भाषागुणा इति प्राहुः । ये पुनर् आगमादयः अकारणाः विना निवेशकारणं भाषायां निविष्टास् ते भाषादोषा इति प्राहुर् इत्य् अर्थः । अतो ऽत्राकाङ्क्षितस्यापावः कार्यो ऽनाकाङ्क्षितस्य वोद्धारः । तथा च स एव ।

अधिकान् भेदयेद् अर्थान् न्यूनांश् च प्रतिपूरयेत् ।
भूमौ निवेशयेद् तावत् यावद् अर्थो न निश्चितः ॥

छेदयेद् उद्धरेद् इत्य् अर्थः । भूमाव् इत्य् उपलक्षणार्थः । तथा च स एव ।

पूर्वपकषं स्वभावोक्तं प्राड्विवाको ऽभ्लेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥

स्वभावोक्तं भयाद्युपाधिराहित्येनोक्तम् । विशोधितम् अन्यूनानतिरिक्तम् अप्रसिद्धत्वादिदूषणरहितं च । तथा च बृहस्पतिः ।

प्रतिज्ञादोषनिर्मुक्तं साध्यतत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ।

लोकसिद्धं व्यावहारिकधर्माविरुद्धम् इत्य् अर्थः, लोकप्रसिद्धम् इत्य् एवंविधार्थस्य प्रतिज्ञादोषनिर्मुक्तम् इत्य् अनेनैवार्थाद् उक्तत्वात् । अत एव मनुः ।

सभ्या भाषा न भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मात् नियताद् व्यावहारिकात् ॥

सर्वदोषरहितापि भाषा व्यावहारिकधर्मविरुद्धा चेत् सभासद्भिर् न ग्राह्येत्य् अर्थः । एवम् उक्तलक्षणः पक्षश् चतुर्विध इत्य् आह बृहस्पतिः ।

शङ्काभियोगस् तथ्यं च लब्धे ऽर्थ ऽभ्यर्थनं तथा ।
वृत्ते वादे पुनर् न्यायः पक्षो ज्ञेयश् चतुर्विधः ॥

अत्र नारदः ।

शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्सनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥

न चात्र शङ्खवेलान्यायेनोत्तरदानयोग्यकालातीते शोधननिवृत्तिर् इति शङ्कनीयम् । यत आह स एव ।

भाषाया उत्तरं यावत् प्रत्यर्थी न निविशयेत् ।
अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥ इति ॥

केचिन् निर्दिष्टे ऽप्य् उत्तरे शोधनम् इच्छन्ति तद् अनवस्थाप्रसङ्गात् पूर्वोक्तवचनविरोधाच् च हेयम् । अत एव सङ्ग्रहकारः ।

भाषान्यूनातिरिक्तेषु सम्यक् सूत्रणकारिभिः ।
पुनः प्रतिसमाधाय शृणुयाद् उत्तरं ततः ॥
यस्मात् प्रत्यर्थिनारब्ध उत्तरे ऽर्थिप्रभाषितम् ।
उपयोग्य् अपि नादेयं तस्यावसरवर्जनात् ॥

आरब्धे दत्त इत्य् अर्थः । दीयमाने ऽप्य् उत्तरे प्रतिसमाधानस्येष्टत्वात् तथा च कात्यायनः ।

मोहाद् वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वापि तद्ग्राह्यम् उभयोर् अपि ॥

उत्तरान्तर्गतम् उत्तरे कथ्यमाने ऽपि वादिना प्रोच्यमानम् इत्य् अर्थः । उभयोः अर्थिप्रत्यर्थिनोः । प्रत्यर्थिनस् तु क्रियापाद उत्तरः । यदा पूर्वपक्षम् अशोधयित्वैव सभ्यैर् उत्तरं गृहीतम्, तदा सभ्यदण्डनं कृत्वा प्रतिज्ञापूर्वकं कार्यं द्रष्टव्यम् । यदा त्व् अर्थी सपदि प्रतिज्ञां कर्तुम् असमर्थः तदा बृहस्पतिर् आह ।

अभियोक्ताप्रगल्भत्वात् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥

**इति स्मृतिचन्द्रिकायां प्रतिज्ञापादः **