०८ दर्शनोपक्रमः

अथ दर्शनोपक्रमः

तत्र मनुः ।

धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥

शास्त्रोक्तकाले इति शेषः । तथा च कात्यायनः ।

काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥

किं कार्यम् इति देयाप्रदानस्य ज्ञानार्थं प्रश्नः, का च पीडेति हिंसायाः । तथा तयोः कर्तृदेसकालकारणपरिज्ञानार्थं सभापतिना प्रश्नचतुष्टयं कार्यम् इत्य् आह स एव ।

केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभां गतः ॥

इत्य् एवं पृष्टः कार्यार्थी ततस् तस्मै वक्तव्यजातं विज्ञापयेत् । तथा च याज्ञवल्क्यः ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥

अनेन वादी परकृतम् उपद्रवम् आवेदयेद् इत्य् अर्थाद् उक्तम् । चेच्छब्दो ऽत्रावेदकरुच्यैवावेदनं कार्यम्, न तु राजाज्ञयेति ज्ञापनार्थः । परैर् इति बहुवचनम् उपलक्षणार्थम् । अत एव कात्यायनेनापराध (?) कर्तृप्रश्नः केनेत्य् एकवचनान्तेन दर्शितः । आधर्षितग्रहणं विवादे ऽधिकारिणः अभिधानार्थम्, न तु कर्तुः ।

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥

इति कात्यायनेन विवादे नियुक्तस्यापि कर्तृत्वाभिधानात् । नियुक्तग्रहणं तदीयानाम् अप्य् उपलक्षणार्थम् । अत एव पितामहः ।

पिता भ्राता सुहृच् चापि बन्धुः संबन्धिनो ऽपि वा ।
यदि कुर्युर् उपस्थानं वादं तत्र प्रवर्तयेत् ॥
यत् किंचित् कारयेत् किंचित् नियोगाद् येन केनचित् ।
तत् तेनैव कृतं ज्ञेयम् अनिवर्त्यं हि तत् स्मृतम् ॥ इति ।

एवं चार्थिना वा तदीयेन वा पुरुषेणावेदनं कार्यं न त्व् अन्येनेत्य् अनुसंधेयम् । अत एव नारदः ।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥

कात्यायनो ऽपि ।

दासाः कर्मकराः शिष्याः नियुक्ता बान्धवास् तथा ।
वादिनो न च दण्ड्याः स्युः यस् त्व् अतो ऽन्यः स दण्डभाक् ॥

एवम् आवेदनकर्ताप्य् आवेदनसमये अविनीतो वदन् दण्ड्य इत्य् आह उशना ।

सशस्त्रो ऽनुत्तरीयश् च मुक्तकेशः ससाधनः ।
वामहस्तेन च स्रग्वी वदन् दण्डम् अवाप्नुयात् ॥

अतो ऽनेवंभूतो वदेद् इत्य् अभिप्रायः । ततस् तद्वचनं सर्वं फलकादौ लेखको लिखेत् । तथा च नारदः ।

रागादीनां यदैकेन कोपितः करणे वदेत् ।
तद् ओम् इति लिखेत् सर्वम् अर्थिनः फलकादिषु ॥

करणे राजादिसंनिधाव् इत्य् अर्थः । तच् च लिखितं जन्मान्तरे मयास्मै धनं दत्तं तद् असौ न प्रयच्छतीतिवद् विचारायोग्यं यदि न स्यात् तदा तत् प्रत्यर्थ्यानयनाय मुद्राप्रदानादिकं कुर्यात् । तथा च कात्यायनः ।

एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥
मुद्रां वा निक्षिपेत् तस्मिन् पुरुषं वा समादिशेत् ॥

तस्मिन्न् आवेदके । पुरुषः साध्यपालः । न्याय्यं योग्यम् । आह्वानार्थम् अभियुक्तस्येति शेषः । तथा च बृहस्पतिः ।

यस्याभियोगं कुरुते तथ्येनाशङ्कयाथ वा ।
तम् एवानाययेद् राजा मुद्रया पुरुषेण वा ॥

उत्तरदाने तस्यैवाधिकाराद् इत्य् अभिप्रायः । अत एव कात्यायनः ।

अधिकारो ऽभियुक्तस्य नेतरस्यास्त्य् असंगतेः । इति ।

इतरस्यानभियुक्तस्य तस्मिन् विवादे संबन्धाभावान् नास्त्य् उत्तरदाने ऽधिकार इत्य् अर्थः । अत इतरस्योत्तरवादित्वम्, न स्वतः, किं तु अभियुक्तेन प्रतिवादित्वकरणात् । प्राड्विवाके वा स्वकार्यकरणत्वेन समर्पणाद् अर्थिना वा स्वरुच्या प्रतिवादित्वाङ्गीकारात् । नान्यथा, तद् आह स एव ।

इतरो ऽप्य् अभियुक्तेन प्रतिरोधीकृतो मतः ।
समर्पितो ऽर्थिना यो ऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥

अयम् अर्थः । इतरो विवादासंबद्धो ऽपि अभियुक्तेन प्रतिरोधीकृतः प्रतिवादीकृतः मन्वादीनाम् उत्तरवादित्वेन संमतः । तथा अन्यो द्वितीयः स विज्ञेयः, यः परो विवादासंबन्धी धर्माधिकारिणि प्राड्विवाके ऽभियुक्तेन समर्पितः अर्थिना वा स्वयम् एव यः प्रतिपन्नः प्रतिवादित्वेनाङ्गीकृत इति । एतच् चानधिकारिणः प्रतिवादित्वम् अकल्याद्यधिकारिविषये वेदितव्यम् । तत्राधिकारिणः साक्षात् कर्तृत्वस्य दुष्करत्वात् । अत एव बृहस्पतिः ।

अप्रगल्भजडोन्मत्तवृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद् बन्धुः नियुक्तो ऽन्यो ऽथ वा नरः ॥

अत एव च तेषाम् अह्वानप्रतिषेधो हारीतादिभिः स्मर्यते ।

अकल्यबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ।
मत्तोन्मत्तप्रमत्तार्तभृत्यान् नाह्वापयेन् नृपः ॥

अकल्यो व्याधितः । विषमस्थ उत्पन्नसङ्कटः । क्रियाकुलः नित्यनैमित्तिककर्मकरणव्यग्रः । यस्य त्व् आगच्छतो गुरुतरकार्यहानिः स कार्यातिपाती । व्यसनम् इष्टवियोगादिजं दुःखम्, तद्वान् व्यसनी । मत्तो दुत्तूरादिमदनीयद्रव्येण (?) स्खलितबुद्धिः । उन्मत्तो ग्रहपित्तादिभिः । प्रमत्तः सर्वत्रावधानहीनः । आर्तो विषादिना दुःखितः । भृत्यग्रहणम् अस्वतन्त्रस्त्रीणाम् अप्य् उपलक्षणार्थम् । अत एव कात्यायनः ।

धर्मोत्सुकान् अभ्युदये रोगिणो ऽथ जडान् अपि ।
अस्वस्थमत्तोन्मत्तार्तस्त्रियो नाह्नापयेन् (?) नृपः ॥

स्त्रियो ऽत्र परतन्त्रा विवक्षिताः । आह स एव ।

न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुकाः स्मृताः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्नानम् इष्यते ॥ इति ।

हीनपक्षा मन्दकुला, युवतीति तस्या एव विशेषणम् । कुले जाता सत्कुले जाता, सर्ववर्णोत्तमा वाद्यपेक्षयोत्तमवर्णा । ताः पूर्वोक्ताः पञ्च ज्ञातिप्रभुकाः परतन्ताः । नेतराः । तेन तदधीनकुटुम्बिन्यादीनाम् आह्वानं मन्वाद्यभीष्टम् इत्य् अर्थः । नारदो ऽपि केषुचिद् आह्वानं प्रतिषेधति ।

निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश् चापि तत्काल आयुधीयाश् च विग्रहे ॥
अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्याः न च तान् आह्वयेन् नृपः ॥

निर्वेष्टुकामो विवाहाभिमुखः । व्यासो ऽपि ।

रोगी यियक्षुर् उन्मत्तो धर्मार्थी व्यसनी व्रती ।
दानोमुखो नाभियोज्यो नासेध्यो नाहवयेच् च तम् ॥ इति ।

अतो ऽकल्यादिविषय एव प्रतिनिधिविधानं व्यवतिष्ठत इति स्थितम् । यदा त्व् अकल्यादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः तदाकल्यादीनाम् अप्य् आह्वानं कार्यम् । तथा च हारीतः ।

देशं कालं च विज्ञाय कार्याणां च बलाबलम् ।
अकल्यादीन् अपि शनैर् यानैर् आह्वापयेन् नृपः ॥ इति ।

यदा तु गुरुतरकार्येष्व् अभियोगः तदाभियुक्तस्यैवाह्वानम् आवश्यकम्, तत्र प्रतिनिधिनिषेधात् । तथा च कात्यायनः ।

ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमे ।
अन्येष्व् असभ्यवादेषु प्रतिवादी न दीयते ॥

असभ्यवादान् अपि स एवाह ।

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दाप्यः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥

वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी, स सर्वथा गुरुकार्येष्व् एवमादिषु न ग्राह्यः । अत एव हारीतः ।

ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वपयेद् राजा गुरुकार्येष्व् अकोपयन् ॥

अत्राकोपयन्न् इति वदन् प्राकृतजने निष्ठुरगिराप्य् आह्वानं कार्यम् इति ज्ञापयति । स्पष्टीकृतं चैवद् व्यासेन ।

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचमानाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥

यस् तु नृपाज्ञयापि नागच्छति तस्य दण्डम् आह बृहस्पतिः ।

आहूतो यस् तु नागच्छेत् दर्पाद् बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥

कात्यायनो ऽपि ।

आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥
हीने कर्मणि पञ्चाशत् मध्यमे द्विशतावरः ।
गुरुकार्येषु दण्ड्यः स्यान् नित्यं पञ्चसतावरः ॥

पणानां संख्येयम् ।

कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥

इति तेनैवाभिधानात् । पणपरिमाणम् उत्तरत्र वक्ष्यमाणम् अनुसंधेयम् । सक्त इति वचनाद् आपदादिविषये न दण्डप्रकल्पनम्, किं तु तन्निवृत्तौ पुनर् आह्वानं कार्यम् । अत एव व्यासः ।

परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनर् आह्वानं दण्डं न परिकल्पयेत् ॥

हारीतो ऽपि ।

राजिकं दैविकं कार्यम् अभियुक्तस्य तत्त्वतः ।
स्थाने वाप्य् अन्तराले वा यात्य् एवं तु न दोषभाक् ॥

तत्त्वतः परमार्थतः । अपरमार्थं चेद् दण्डयित्वा पश्चान् न्यायेन वर्तयेत् । तथा च स एव ।

प्रतिष्ठाप्यं तु यत्नेन सो ऽन्यथा दण्डभाग् भवेत् ।
दण्डयित्वा पुनः पश्चाद् राजा न्याये प्रवर्तयेत् ॥

एवं येन केनाप्य् उपायेन नीतम् अभियुक्तम् अभियोक्त्रा सह सभायाः पुरतो ऽन्यत्र वापेक्षितस्थाने स्थापयेत् । तथा च पितामहः ।

सभायाह् पुरतः स्थाप्यो ऽभियोगी वादिनां तथा ।
ईप्सते ऽन्यत्र वा स्थाने प्रमाणं सो ऽन्यथा न तु ॥

यत्र स्थिते दुष्टलक्षणप्रच्छादनम् अशक्यं तत्रावस्थाप्य इत्य् अर्थः । ततो राज्ञा पृष्टो ऽभियोगी स्वोपयोगिवृत्तान्तम् आवेदयेत् । अभियोक्तृकृतावेदनमात्रतो भूतान्वेषणानुपपत्तेः । अत एव भूतान्वेषणविधाव् उक्तं मनुना ।

स्वरवर्णेङ्गिताकारैश् चक्षुषा भाषितेन च ॥ इति ।

छलव्यवहारे ऽपि पूर्वपक्षलेखनाद् अर्वाक् छलवादित्वावधारणायाभियुक्तस्य वृत्तान्तस् तन्मुखेनावगन्तव्यः । द्वयोश् छलवादित्वे निश्चिते पश्चाच्छलानुसारेण दर्शनविधिः । तस्माद् अभियुक्तस्यापि वृत्तान्तावेदनम् अस्तीत्य् अवगन्तव्यम् । विवादिनोः छलित्वनिश्चयानन्तरं याज्ञवल्क्यः ।

उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्नये ॥

साधितधनदण्डधन्योर् अनायासेन प्राप्तिः कार्यनिर्णयः, तत्करणसमर्थः प्रतिभूर् अर्थिप्रत्यर्थिनोर् द्वयोर् अपि ग्राह्यो व्यवहारद्रष्टेत्य् अर्थः । अत्र वर्जनीयान् अह कात्यायनः ।

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संशयस्थाश् च न क्वचित् ॥
नैव रिक्थी न रिक्तश् च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश् च ये च प्रव्रजिता नराः ॥
नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥

संशयस्थाः अभिशस्ताः । अत्यन्तवासिनः नैष्ठिकब्रह्मचारिणः । तत्समं विवादास्पदीभूतद्रव्यसमम् । विहितदण्डोपलक्षणार्थम् एतत् । यदि वादी विवादप्रतिभुवं दातुम् असमर्थः तदापि तेनैवोक्तम् ।

अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥

दूताय साध्यपालाय । तथा परित्याजितगृहीतद्रव्य एव विवादी न्याये प्रवर्त्य इत्य् आह स एव ।

गृहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात् स्थापयेद् वा परस्य तत् ॥ इति ।

परस्य मध्यस्थस्य, समीप इति शेषः । तथाभियोक्त्रादीनाम् उक्तिक्रमो ऽपि तेनैवोक्तः ।

तत्राभियोक्ता प्राक् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् अन्ते सदस्यास् तु प्राड्विवाकस् ततः परम् ॥

प्राग् ब्रूयात् प्रतिज्ञां कुर्याद् इत्य् अर्थः । तथा च नारदः ।

आज्ञालेख्यौ पट्टके शासने वा आधौ पत्रे विक्रये वा क्रये वा ।
राज्ञे कुर्यात् पूर्वम् आवेदनं यः तस्य ज्ञेयः पूर्ववादो विधिज्ञैः ॥

विवादे सर्वत्राभियोक्तुर् एव प्रतिज्ञावादित्वम् इत्य् अर्थः । अत्रापवादम् आह स एव ।

यस्य वाभ्यधिका पीडा कार्यं वा ह्य् अधिकं भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥

अर्थवादः पूर्वपक्षः । तथा च कात्यायनः ।

यस्य स्याद् अधिका पीडा कार्यं वाप्य् अधिकं भवेत् ।
पूर्वपक्षो भवेत् तस्य न यः पूर्वं निवेदयेत् ॥

एवंविधविषये अर्थिप्रत्यर्थिभावस्य वैपरीत्यं परीक्षकैः कार्यम् इत्य् अर्थः । यत्रोभयोर् अपि परस्परम् अर्थित्वं प्रत्यर्थित्वं च साध्यभेदात् युगपद् भवति तत्रोत्कृष्टजातेः बहुपीडस्य वा अर्थिवादः पूर्वं द्रष्टव्यः । तथा च बृहस्पतिः ।

अहंपूर्विकया तावद् अर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य वा ॥

समानवर्णत्वे पीडापेक्षया ग्राह्यः । अनेकवादियुग्मानां युगपदुपस्थाने तु दर्शनक्रमम् आह मनुः ।

अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥

**इति स्मृतिचन्द्रिकायां दर्शनोपक्रमः **