०७ आसेधविधिः

अथ आसेधविधिः

तत्र नारदः ।

वक्तव्ये ऽर्थे ह्य् अतिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥

संदिग्धे ऽप्य् अर्थे निर्णयोदासीनं निर्णयाय प्रवर्तितव्यम् इत्यादि चार्थिनो वचनम् अवमन्यमानम् आसेधयेद् राजाज्ञया निरुन्ध्याद् व्यवहारदर्शनार्थाह्वानपर्यन्तं विवादनिर्णयार्थीत्य् अर्थः । चतुर्विधश् चायम् आसेध इत्य् आह स एव ।

स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधस् तम् आसिद्धो न लङ्घयेत् ॥

स्थानासेधो गृहदेवकुलादिस्थानान् न चलितव्यम् इत्य् अवरोधनम् । कालकृतः पञ्चम्यादाव् आत्मा दर्शयितव्यो नो चेद् राजाज्ञाम् उल्लङ्घितवान् इत्य् एवंविधः । प्रवासाद् आसेधो यात्रावारणम् । कर्मण आसेधः पण्यप्रसारणादेः वारणम्, न पुनर् निरीक्षणादेः । यद् आह कात्यायनः ।

यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेद् अनासेध्यं स दण्ड्यो न त्व् अतिक्रमी ॥

इन्द्रियनिरोधादेः सङ्कटत्वात् न तत्र राजाज्ञातिक्रमो दोषम् आवहतीत्य् अर्थः । अत एव नदीसंतरणादिसङ्कटविषये ऽपि अपराधो नास्तीत्य् आह नारदः ।

नदीसंतारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥

नद्याः संतरणं नदीसंतारः । कान्तारो दुर्गमो मार्गः । दुष्टचोरव्याघ्रादिदेशो दुर्देशः । उपप्लवः परवलादिभिर् व्याकुलता । एवमादाव् आज्ञातिक्रमे ऽपि नापराधः । अन्यत्र त्व् अपराधम् आह पितामहः ।

राजाज्ञा लङ्घिता येन करणीया विशेषतः ।
सप्ताङ्गस्य तु राज्यस्य द्रौह्यं तेन कृतं भवेत् ॥

यत्र त्व् आज्ञातिक्रमे ऽपराधः तत्र दण्डम् आह व्यासः ।

आसेधयोग्य आसिद्ध उत्क्रामन् दण्डम् अर्हति ॥ इति ।

नारदो ऽपि ।

आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथा कुर्वन् नासेद्धा दण्डभाग् भवेत् ॥

अन्यथा कुर्वन् अनासेध्यम् आसेधयन्न् इत्य् अर्थः । तथा च व्यासः ।

आसेधयंस् त्व् अनासेध्यान् राज्ञा शास्य इति स्थितिः ॥ इति ।

अनासेध्यान् आह कात्यायनः ।

वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश् च ते सर्वे नादेध्याः कार्यसाधकैः ॥
व्याध्यार्ता व्यसनस्थाश् च यजमानास् तथैव च ।
अनुत्तीर्णाश् च नासेध्या मत्तोन्मत्तजडास् तथा ।
न कर्षको बीजकाले सेनाकले तु सैनिकः ।
प्रतिज्ञाय प्रयातश् च कृतकालश् च नान्तरा ॥
उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात् संग्रहं यावत् तत्कालं न विवादयेत् ॥

अनासेधकालत्वाद् इत्य् अभिप्रायः । बृहस्पतिर् अपि ।

सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तो वृद्धो नियुक्तश् च वृपकार्योद्यतो व्रती ॥
आसन्ने सैनिकः संख्ये कर्षको वापसङ्ग्रहे ।
विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥

संख्ये संग्रामे । नारदो ऽपि ।

निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश् चापि तत्काल आयुधीयाश् च विग्रहे ॥
अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥

निर्वेष्टुकामो विवाहाभिमुखः । गवां प्रचारो ऽटवीमुखः । अप्राप्तव्यवहारो ऽपूर्णषोडशवर्षः । विषमस्थाः चोराद्यपहृतसर्वस्वाः । व्यासो ऽपि ।

रोगी यियक्षुर् उन्मत्तो धर्मार्थी व्यवसनी व्रती ।
दानोन्मुखो नाभियोज्यो नासेध्यो नाह्वयेच् च तम् ॥

अत्र विशेषम् आह बृहस्पतिः ।

वणिग्विक्रीतपण्यस् तु सस्ये जाते कृषीवलः ।
सत्रोद्यताश् चापि तथा पाषणीयाः कृतक्रियाः ॥ इति ।

**इति स्मृतिचन्द्रियामाम् आसेधः **