०६ व्यवहारदर्शनविधिः

अथ दर्शनविधिः

तत्र कात्यायनः ।

विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखः स्थित्वा पश्येत् कार्याणि कार्यिणाम् ॥
सह त्रैविद्यवृद्धैश् च मन्त्रज्ञैश् चैव मन्त्रिभिः॥

अत्रासनस्थित्योः युगपत् कर्तुम् अश्कयत्वाद् विकल्पः । अत एव मनुः ।

तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥

अयं चासनस्थित्योर् विकल्पः शयनचङ्क्रमणनिषेधार्थः । “दक्षिणं पाणिम् उद्यम्य” इति प्रावरणार्थं वस्त्रम् अप्य् उपवीतवद् एव ब्राह्मणसभायां धार्यम् इति नियमार्थम् । तथा च स्मृत्यन्तरम् - “ब्राह्मणानां तु संसदि” इति, “दक्षिणं बाहुम् उद्धरेत्” इति । “विनीतवेषाभरणः” इत्य् औद्धत्यनिषेधार्थम् । तथा च प्रजापतिः ।

राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः ।
धर्मासनगतः पश्येद् व्यवहारान् अनुल्बणः ॥

अनुल्बणो ऽनुद्धतः, उल्बणग्रहणं मत्सर्स्यापि प्रदर्शनार्थम् । तथा च नारदः ।

तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥

वैवस्वतं व्रतं यमव्रतम् । तच् च तेनैव दर्शितम् ।

यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥

याज्ञवल्क्यो ऽपि ।

तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तते धर्म्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥

क्रोधग्रहणं लोभस्यापि प्रदर्शनार्थम् । तथा च स एव ।

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥

धर्मशास्त्रानुसारेणेत्य् एतद् औशनसाद्यर्थशास्त्रानुसारस्य निवृत्त्यर्थम्, न पुनर् धर्मशास्त्रान्तर्गतराजनीत्याद्यर्थशास्त्रानुसरणस्यापि, यत् आह नारदः ।

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन पार्थिवः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥

धर्मशास्त्राणि च पितामहेन दर्शितानि ।

वेदाः साङ्गास् तु चत्वारो मीमांसा स्मृतयस् तथा ।
एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम् ॥

प्रमाणान्तरदृष्टार्थविषया स्मृतिर् अर्थप्रधानत्वाद् अर्थशास्त्रतयाभिप्रेता, सा च भविष्यत्पुराणे दर्शिता ।

षाड्गुण्यस्य प्रयोगश् चाप्रयोगः कार्यगौरवात् ।
सामादीनाम् उपायानां योगो व्याससमसतः ॥
अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् ।
दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर् गरुडाग्रज ॥ इति ।

दृष्टार्थायाः स्मृतेर् उदाहरणमात्रम् एतत् । एवं च सन्धिविग्रहादिदृष्टार्थविषया स्मृतिर् अर्थशास्त्रम् इत्य् अर्थः । एतच् चोभयविधशास्त्रानुसरणं तयोः मिथो विरोधाभाव एव । तथा च नारदः ।

यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचरेत् ॥

अतो यत्रैकस्य जये ऽवधार्यमाणे ऽर्थशास्रोक्तमित्रलब्धिर् धर्मशास्त्रोक्तमार्गविरोधेन भवति तत्र मित्रलब्धिविरोधेनापरस्यैव जयावधारणं कार्यम् । यत्र पुनर् धर्मस्मृत्योर् विरोधस् तत्रोक्तं याज्ञवल्क्येन ।

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ॥ इति ।

श्रुतिमूलस्मृत्योर् विरोधे वृद्धव्यवहारावगतसावकाशनिरवकाशत्वादितर्कबलेन यथा व्यवस्थितविषयता तयोर् ज्ञायते तथा गृहीतव्यम् इत्य् अर्थः । एवम् अविरोधे ऽपि न्यायावधारितशास्त्रार्थस्यैवानुसरणं कार्यम् इत्य् आह बृहस्पतिः ।

केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥

अतस् तर्कानुगृहीतम् एव शास्त्रार्थम् आश्रित्य निर्णेतव्यम् इत्य् अर्थाद् उक्तं भवति । उक्तं च गौतमेन - “न्यायाधिगमे तर्को ऽभ्युपायः, तेनाभ्यूह्य यथास्थानं गमयेत्” । न्यायाधिगमो धर्माधिगम इत्य् अर्थः । तथा च स्मृत्यन्तरम् ।

यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति ।

अतो न सहसा निश्चिनुयाद् इत्य् आह पितामहः ।

असत्याः सत्यसङ्काशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते भ्रान्तिजनकास् तस्माद् युक्तं परीक्षणम् ॥

नारदो ऽपि ।

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
न तलं विद्यते व्योम्नि न खद्योतो हुताशनः ॥
तस्मात् प्रत्यक्षदृष्टे ऽपि युक्तम् अर्थात् परीक्षितुम् ।
परीक्ष्य ज्ञापयन्न् अर्थान् न धर्मात् परिहीयते ॥
यात्यचोरो ऽपि चोरत्वं चोरश् चायात्य् अचोरताम् ।
अचोरश् चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥
सूक्ष्मो हि भगवान् धर्मो दुष्प्रेक्षो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥

तलम् अवनितलम्, व्यवहारतः व्यवहाराख्यनिर्णयविशेषे इत्य् अर्थः । प्रत्यक्षमार्गः स्पष्टमार्गः । मनुर् अपि ।

यथा नयत्य् असृक्पातैः मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥
बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥

याज्ञवल्क्यो ऽपि ।

असक्षिके हते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् भयात् ॥

असाक्षिकहतविषये न क्षतादिचिह्नदर्शनमात्रेण निश्चिनुयात्, कृत्रिमक्षतादिसंभवात् । किं तु युक्त्यादिभिः परीक्षणीयम् इत्य् अर्थः । तथा च नारदः ।

कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् उपद्रवेत् ।
युक्तिहेत्वर्थसंबन्धैस् तत्र युक्तं परीक्षणम् ॥

चिह्नं व्रणादि । युक्तिर् अर्थापत्तिः । हेतुर् अनुमानम् । अर्थः प्रयोजनम् । संबन्धः संनिधिः, पूर्वकलहो वा । परीक्षणं भूतेन व्यवहारनयनार्थम् । अत एव याज्ञवल्क्यः ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥

लिखितादिप्रमाणस्य यथार्थानुसारित्वनियमाभावाद् वादिप्रतिवाद्यनुपन्यस्तं परमार्थतो विद्यमानम् अपि व्यवहारवशाद् धीयते । यत एव तेन प्रयत्नतो भूतानुसरणं कार्यम् इत्य् अर्थः । नारदो ऽपि ।

न तु शिष्टं छलं राजा मर्षयेद् धर्मसाधनः ।
भूतम् एव प्रपद्येत धर्ममूला यतः श्रियः ॥

शिष्टम् अर्थिप्रथ्यर्थिभिर् अभिहितम् । नात्र जल्पमार्गवत् पुरुषप्रतिभा अन्वेषणीया, किं तु तत्त्वानुसरणं सति संभवे कार्यम् इति तात्पर्यार्थः । यदा तु सर्वदा भूतानुसरणं न शक्यते कर्तुं तदा छलानुसारेणापि साक्ष्यादिप्रमाणाधीनो निर्णयः कर्य एव । तथा च तेनैवोक्तम् ।

भूतछलानुसारित्वात् द्विगतिः समुदाहृता ॥ इति ।

गौतमेनाप्य् उक्तम् - “विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था” इति । साक्षिनिमित्तेति प्रमाणोपलक्षणार्थम् । अत एव मनुः ।

प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबन्धानि पृथक् पृथक् ॥

देशदृष्टैः तत् तद् देशव्यवस्थितधर्माचारैः शास्त्रप्रसिद्धैः साक्षिद्रव्यादिदृष्टादिप्रमाणैः प्रत्यहं ऋणादानाद्यष्टादशपदेषु पृथक् पृथक् निबन्धानि कार्याणि पश्येद् इत्य् अर्थः । तत्र शास्त्रदृष्टानाम् अभावे देशदृष्टैर् द्रष्टव्यम् । तथा च कात्यायनः ।

अस्वर्ग्यलोकनाशाय परानीकभयावहा ।
आयुर्वीर्यहरा राज्ञः सति वाक्ये स्वयं कृतिः ॥
तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावेषु सर्वेषां देशदृष्टं मतं नयेत् ॥ इति ।

परानीकभयावहा परसैन्यतो भीत्युत्पादिका । वाक्यं शास्त्रम् । देशदृष्टस्य लक्षणम् अप्य् आह स एव ।

यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥

स च राज्ञा पुस्तके निवेशितव्य इत्य् आह स एव ।

देशस्यानुमतेनैव व्य्वस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥
शास्त्रवद् यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ॥ इति ।

ताम् इति कुलाद्यनुमताया अपि व्यवस्थायाः प्रदर्शनार्थम् । अत एव पितामहः ।

यद् यद् आचरति श्रेष्ठो धर्म्यं वाधर्म्यम् एव वा ।
कुलादिदेशाचरणाच् चरित्रं तत् प्रकीर्तितम् ॥
ग्रामगोष्ठपुरश्रेणीसार्थसेनानिवासिनाम् ।
व्यवहारश् चरित्रेण निर्णेतव्यो बृहस्पतिः ॥

ग्रामादिनिवासिनां मिथोविवादविषयम् एतत् । अन्यैः सह तेषां विवादे तु शास्त्रडृष्टैर् एव निर्णेतव्यम् । तथा च स एव ।

देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर् धर्मशास्त्रतो ऽन्येषु तैः सह ॥ इति ।

यत्र चैते हेतवो न विद्यन्ते तत्र पार्थिववचनान् निर्णय इत्य् आह स एव ।

लेख्यं यत्र न विद्येत न भुक्तिर् न च साक्षिणः ।
न च दिव्यावतारो ऽस्ति प्रमाणं तत्र पार्थिवः ॥
निश्चेतुं ये न शक्याः स्युर् वादाः संधिग्धरूपिणः ।
तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर् यतः ॥ इति ।

अत्र हारीतः ।

धर्मशास्त्रार्थशास्त्रोक्तः शिष्टाचारादिलक्षणः ।
छलेन च व्यपेतो यो व्यवहारः स धार्मिकः ॥

धार्मिको धर्माद् अनपेतः । एवं पश्यतो नृपतेः फलम् आह नारदः ।

धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
संभवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥

वह्नेः सप्तार्चिष इव सप्त गुणाः संभवन्तीत्य् अर्थः । तान् गुणान् आह स एव ।

धर्मश् चार्थश् च कीर्तिश् च लोकपक्तिर् उपग्रहः ।
प्रजाभ्यो बहुमानश् च स्वर्गस्थानं च शाश्वतम् ॥

लोकपक्तिर् लोकानुरागः । उपग्रह आश्रयणीयत्वम् ।

निग्रहेण च पापानां साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥

याज्ञवल्क्यो ऽपि ।

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन सहस्रशतदक्षिणैः ॥
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥

अन्वहम् इत्य् एतच् चतुर्दश्यादिव्यतिरिकाहर्विषयम् । तथा च संवर्तः ।

चतुर्दशी ह्य् अमावास्या पौर्णमासी तथाष्टमी ।
तिथिष्व् आसु न पश्येत् तु व्यवहारांस् तु नित्यशः ॥

आभ्यो ऽन्यास्व् अपि तिथिष्व् आवर्तनान् पूर्वम् एव । तथा च बृहस्पतिः ।

पूर्वाह्णे ताम् अधिष्ठाय वृद्धामात्यानुजीविभिः ।
पश्येत् पुराणधर्मार्थशास्त्राणि शृणुयात् तथा ।
राजा कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ॥ इति ।

ताम् उक्तलक्षणां सभाम् इत्य् अर्थः । पूर्वाह्णे ऽप्य् आद्यघटिकाचतुष्टयाद् ऊर्ध्वम् एव, तस्याग्निहोत्राद्यर्थत्वात् । अत एव कात्यायनः ।

आद्याद् अह्नो ऽष्टभागाद् यद् ऊर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परं स्मृतः ॥ इति ।

अस्मिन् भागत्रयपरिमिते काले सततं पश्येत् । तथा च पितामहः ।

लेखको गनकः शास्त्रं साध्यपालः सभासदः ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गं करणं स्मृतम् ।
तद् अध्यास्यानिशं पश्येत् पौरैः कार्यं निवेदितम् ॥

पौरग्रहणं स्वराष्ट्रगताखिलजनोपलक्षणार्थम् । तथा च मनुः ।

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ॥

तत्र सभायाम् इत्य् अर्थः । प्रजास्व् अपि स्वयं विवादम् उत्पाद्य दर्शनं न कार्यम् । तथा च पितामहः ।

न तु पश्येत् समुत्प्रेक्ष्य स्वयं वा पुरुषेण वा ।

पुरुषेण वेति राजप्रेरितस्य पुरुषोत्प्रेक्षितस्य प्रतिषेधो ऽयम्, न पुनः पुरुषमात्रोत्प्रेक्षितस्य । तथात्वे ऽर्थितत्संबन्धिपुरुषोत्प्रेक्षितस्यापि व्यवहारदर्शनम् एव प्रतिषिद्धं स्यात् । अत एव मनुना पुरुषो विशेषितः ।

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ॥ इति ।

अविवादिनां नराणाम् इति शेषः । तथा च नारदः ।

न तु राजा वशित्वेन धनलोभेन वा पुनः ।
उत्पादयेत् तु कार्याणि नराणाम् अविवादिनाम् ॥

कार्याणि विवादानीत्य् अर्थः । तथा प्रजाभ्य एवोत्पन्नम् अपि कार्यं कार्यिणा तत्संबन्धिना वा अनिवेदितं कथंचिद् अवगम्य न ग्राह्यम् इत्य् आह मनुः ।

न चाप्रापितम् अन्येन ग्रसेनार्थं कथंचन । इति ।

अप्रापितम् अनावेदितं कथंचन रागादिनेत्य् अर्थः । अत एव पितामहः ।

न रागेण न लोभेन न क्रोधेन ग्रसन् नृपः ।
परैर् अप्रापितान् अर्थान् न चापि स्वमनीषया ॥ इति ।

परैर् आवेदकैः । अत्रापवादम् आह स एव ।

छलानि चापराधांश् च पदानि नृपतेस् तथा ।
स्वयम् एतानि गृह्णीयान् नृपस् त्व् आवेदकैर् विना ॥

तत्र छलान्य् आह स एव ।

पथिभङ्गी कराक्षेपी प्राकारोपरि लङ्घकः ।
निपानस्य विनाशी च तथा चायतनस्य च ॥
परिघापूरकश् चैव राजच्छिद्रप्रकाशकः ।
अन्तःपुरं वासगृहं भाण्डागारं महानसम् ॥
प्रविशत्य् अनियुक्तो यो भोजनं च निरीक्षते ।
विण्मूत्रश्लेष्मवातानां क्षेप्तुकामो नृपाग्रतः ॥
पर्यङ्कासनबन्धा चाप्य् अग्रस्थाननिरोधकः ।
राज्ञो ऽतिरिक्तवेषश् च विधृतः प्रविशेत् तु यः ॥
यस् चापद्वारेण विशेद् अवेलायां तथैव च ।
शय्यासने पादूके च शयनासनरोहणम् ॥
राजन्य् आसन्नशयने यस् तिष्ठति समीपतः ।
राज्ञो विद्विष्टसेवी वाप्य् अदत्तविहितासनः ॥
वस्त्राभरणयोश् चैव सुवर्णपरिधायकः ।
स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत् तु यः ॥
अनियुक्तप्रभाषी च नृपाक्रोशक एव च ।
एकवासास् तथाभ्यक्तः मुक्तकेशो ऽवकुण्ठितः ॥
विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः ।
शिरःप्रच्छादनश् चैव छिद्रान्वेषणतत्परः ॥
आसङ्गी मुक्तकेशश् च यश् च कर्णाक्षिकर्शकः ।
दन्तोल्लेखनकश् चैव कर्णनासाविशोधकः ।
छलान्य् एतानि पञ्चाशत् भवन्ति नृपसंनिधौ ॥ इति ।

राज्ञः शय्यायां शयनम्, तदीयासने चोपवेशनम्, तत् पादुकारोहणम् इति त्रीणि छलानि । वस्त्राभरणयोश् चैवेत्य् अत्रादत्तग्राहक इति शेषो विज्ञेयः । मुक्तकेश इति द्विःपाठो मुण्डस्यापि संग्रहार्थः । अवशिष्टं व्यक्तार्थम् । अपराधान् आह नारदः ।

आज्ञालङ्घनकर्तारः (?) स्त्रीवधो वर्णसङ्करः ।
परस्त्रीगमनं चौर्यं गर्भश् चैव पतिं विना ॥
वाक्पारुष्यम् अवाच्यं यद् दण्डपारुष्यम् एव च ।
गर्भस्य पातनं चैवेत्य् अपराधा दशैव तु ॥ इति ।

एतांश् चावेदकं विना स्वयं राजा विचारयेद् इति शेषः । तथा च संवर्तः ।

आसेधं पथिभङ्गं च पश् च गर्भः पतिं विना ।
स्वयम् अन्वेषयेद् राजा विना चैव विवादिना ॥
यस्य दृश्यस्य संपत्तिर् न दृश्येतागमः क्वचित् ।
स्वयम् अन्वेषयेद् राजा विना चैव विवादिना ॥
सभाभङ्गं तरुच्छेदं सस्यव्याघातम् एव च ।
स्वयम् अन्वेषयेद् राजा विना चैव विवादिना ॥
कन्यापहारकं पापं विप्रं च पतितं तथा ।
परार्थवादसंयुक्तं स्वयं राजा विचारयेत् ॥
षड्भागकरशुल्कार्थे मार्गभेदकम् एव च ।
स्वराष्ट्रचौर्यभीतिं च परदाराभिमर्शनम् ॥
गोब्राह्मणनिहन्तारं सस्यानां चैव घातुकम् ।
दशैतान् अपराधांश् च स्वयं राजा विचारयेत् ॥

एतान् आसेधादीन् दशापराधान् स्वयं राजा विचारयेद् इत्य् अर्थः । अत्र पथिभङ्गग्रहणं छलानां प्रदर्शनार्थम्, दशापराधान्तर्गतानां केषांचिद् ग्रहणं तेषां प्रदर्शनार्थम् । सस्यघातुकग्रहणं तु पदानां प्रदर्शनार्थम् । पदानि च समस्तानि पितामहेन दर्शितानि ।

उत्कर्ती सस्यघाती चाप्य् अग्निदश् च तथैव च ।
विध्वंसकः कुमार्याश् च निधानस्योपगोपकः ॥
सेतुकण्टकभेत्ता च क्षेत्रसंचारकस् तथा ।
आरामच्छेदकश् चैव गरदश् च तथैव च ॥
राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस् तथा ।
तन्मन्त्रस्य प्रभेत्ता च बद्धस्यैव च मोचकः ॥
भोगदण्डौ च गृह्णाति दानम् उत्सेकम् एव च ।
पटहाघोषणाच्छादी द्रव्यम् अस्वामिकं च यत् ॥
राजावलीढं द्रव्यं यद् यच् चैवाङ्गविनाशनम् ।
द्वाविंशतिं पदान्य् आहुः नृपज्ञ्ēयानि पण्डिताः ॥ इति ।

एवं छलादीनि साक्षाद् वा स्तोभकसूचकवचनाद् वा ज्ञात्वा राज्ञा द्रष्टव्यानि । अन्यानि पुनः कार्याणि कार्यिना तत्संबन्धिना वा ज्ञात्वा, नान्यथेत्य् अवगन्तव्यम् । स्तोभकसूचकयोर् लक्षणम् आह कात्यायनः ।

शास्त्रेण निन्दितं त्व् अर्थमुख्यश् चार्थप्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥
नृपेणैव नियुक्तो यः परदोषम् अवेक्षितुम् ।
नृपस्य सूचयेज् ज्ञात्वा सुचकः स उदाहृतः ॥

अर्थमुख्यो ऽर्थप्रधान इत्य् अर्थः । अत्र हारीतः ।

शास्त्राणि वर्णधर्मांस् तु प्रकृतीनां च भूपतिः ।
व्यवहारस्वरूपं च ज्ञात्वा तत् सर्वम् आचरेत् ॥

प्रकृतयः पुनः पितामहेन दर्शिताः ।

रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तकश् च विज्ञेया म्लेच्छभिल्लौ तथैव च ॥
वेमरस्थिरविव्याधहस्तलाक्षद्रुघट्टकाः ।
कोसेदकाभीरपदमातङ्गाण्डोपगोपकाः ॥
एताः प्रकृतयः प्रोक्ताः अष्टादश मनीषिभिः ।
वर्णानाम् आश्रमाणां च सर्वदा तु बहिस्स्थिताः ॥ इति ।

व्यवहारस्वरूपं च आद्यप्रकरण एव निरूपितम् । मनुर् अपि ।

जातिजानपदान् धर्मान् श्रेणीधर्मांश् च शाश्वतान् ।
समीक्ष्य कुलधर्मांश् च स्वे वर्गे प्रतिपादयेत् ॥

श्रेणीधर्माः वणिक्कारुकादीनां स्वे स्वे वर्गे इदम् अस्मिन् अहनि न विक्रेयम् इदं चानयैव श्रेण्या विक्रेयम् इत्य् एवमादयः । अस्मिन् कुले पञ्चमे ऽह्नि पञ्चमे वाब्दे कर्णवेधः कर्तव्य इत्यादयः कुलधर्माः । प्रतिपादयेत् बोधयेत् । अकुर्वतश् चानापदि बलात्कारेण कारयेत् । तथा च याज्ञवल्क्यः ।

कुलानि प्रकृतीश् चैव श्रेणीजानपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥

नारदस् तु कार्यदर्शनप्रकारम् आह ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येत् व्यवहारान् अनुक्रमात् ॥

अनुक्रमाद् अर्थिवचनश्रवणाद् अनुक्रमेणेत्य् अर्थः । तथा च स एव ।

आगमः प्रथमः कार्यो व्यवहारपदं ततः ।
विचारो निर्णयश् चेति दर्सनं स्याच् चतुर्विधम् ॥

आगमो ऽर्थिवचनश्रवणम्, तद् आदौ कर्तव्यम् । ततस् तद्वचनम् ऋणादानाद्यन्यतमस्मिन् पदे ऽन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः, ततः प्रमाणतो जयावधारणम् एवं तदीयभाष्ये व्याख्यातम् । तत्र मनुः ।

क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां च कुर्वता हितम् आत्मनः ॥
यत् क्षिप्तो मर्षयत्य् आर्तैः तेन स्वर्गे महीयते ।
यत् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥

**इति स्मृतिचन्द्रिकायां दर्शनविधिः **