०५ धर्मस्थाने अवस्थानम्

अथ धर्मस्थाने अवस्थानम्

तत्र कात्यायनः ।

धर्मशास्त्रविचारेण मूलसारविवेचनम् ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥

यत्र स्थाने मूलस्यावेदितस्य सारविवेचनं तत्र निष्कर्षो धर्मशास्त्रविचारेण निर्णेतृभिर् अधिक्रियते प्रस्तूयते, तत् स्थानं धर्मशास्त्रैर् अधिक्रियते । मूलसारविवेचनम् अत्रेति व्युत्पत्त्या धर्माधिकरणम् इति । हिः प्रसिद्ध्यर्थः । एतच् च धर्माधिकरणं प्राच्यां दिशि कार्यम् । तथा च शङ्खः - “धर्मस्थानं प्राच्यां दिशि तच् चाग्न्युदकैः समवेतं स्यात्” इति । प्राच्यां दिशि राजमन्दिराद् इति शेषः । अत एव बृहस्पतिः ।

दुर्गमध्ये गृहं कुर्यात् जलमध्योच्छ्रितं पृथु ।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ॥
माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ।
प्रतिमालेख्यदेवैश् च युक्ताम् अग्न्यम्बुना तथा ॥ इति ।

एवं कल्पितां प्रातर् हुत्वा प्रविशेत् । तथा च मनुः ।

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुत्वाग्निं ब्राह्मणान् अर्च्य प्रविशेद् वै शुभां सभाम् ॥

अत्रार्च्येत्य् असमासे ऽपि त्वाप्रत्ययस्य ल्यबादेशश् छान्दसत्वाद् अविरुद्धः । प्रविशेन् नृपतिर् इति शेषः । अत एव बृहस्पतिः ।

प्रातर् उत्थाय नृपतिः शौचं कृत्वा समाहितः ।
गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ॥
यथार्हम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवाद्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् ॥

अत्र नृपतिः प्रविशेद् इत्य् अन्वयः । पुरोहितान् इति बहुवचनं पाशान् इतिवत् कर्मत्वमात्रस्याभिधायकम्, न तु बहुत्वस्यापि, पुरोहितस्यैकत्वात् । नृपतिर् अपि ब्राह्मणादिसहितः प्रविशेत् । तथा च मनुः ।

व्यवहारदिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ इति ।

चशब्दो ऽत्र प्राड्विवाकपुरोहितसभ्यवणिग्गणकलेखकसाध्यपालहिरण्यधर्मशास्तैर् अपि सहेति ज्ञापनार्थः । तेषाम् अपि ब्राह्मणादिवत् दर्शनोपयोगित्वात् । तत्र केषांचिद् उपयोगो निर्णेतृनिर्णये दर्शितः । अत्र केषांचिद् उपयोगो वक्ष्यते । सभाप्रवेशे विशेषम् आह संवर्तः ।

लोकपालान् नमस्कृत्य प्रविश्य विपुलां सभाम् ।
प्रजानां रक्षणं कुर्यान् नृपतिः कार्यदर्शने ॥

निमित्तार्थे चेयं सप्तमी । कार्यदर्शनरूपनिमित्तेन प्रजारक्षणं कुर्याद् इत्य् अर्थः । निमित्तत्वं च तस्य प्रजारक्षणोपयोगिदुष्टपरिज्ञानहेतुत्वेन परम्परया द्रष्टव्यम् । एवं सभाप्रविषानाम् अर्थसिद्धोपवेशनम् अनूद्य केषांचिद् दिङ्नियमम् आह बृहस्पतिः ।

पूर्वामुखस् तूपविशेद् राजा सभ्या उदङ्मुखाः ।
गणकः पश्चिमास्यस् तु लेखको दक्षिणामुखः ॥
हिरण्यम् अग्निम् उदकं धर्मशास्त्राणि चैव हि ।
तन्मध्ये स्थापयेद् राजा पुण्यानि च हितानि च ॥ इति ।

अन्येषां पुनर् यथासौकर्यम् उपवेशनम् । नियमाभावात् । एवं राजादिभिर् दशभिर् व्यवहारसाधकाङ्गैर् अध्यासिता सभा यज्ञसभेत्य् आह स एव ।

नृपाधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥
एतद् दशाङ्गं करणं यस्याम् अध्यास्य पार्थिवः ।
न्यायात् पश्येत् कृतमतिः सा सभाध्वरसंमिता ॥

अधिकृतः प्राड्विवाकः स्वपुरुषः साध्यपालः । साधनाङ्गानां कार्यम् अप्य् आह स एव ।

दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः ॥
स्मृतिर् विनिर्णयं ब्रूते जयं दानं दमं तथा ।
शपथार्थे हिरण्याग्नी तृपितक्षुब्धयोः जलम् ॥
गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ।
प्रथर्थिसभ्यानयनं साक्षिणां च स्वपूरुषः ॥
कुर्याद् अलग्नकौ रक्षेद् अर्थिप्रत्यर्थिनौ तदा ॥

वक्ताध्यक्ष इत्य् एतत् प्रकर्षाभिप्रायेण, “सभ्यादिनापि धर्मज्ञेनावश्यं वक्तव्यम्” इति वसिष्ठेनोक्तत्वात् । नृपः शास्तेत्य् एतद् अप्य् अर्थवधदण्डकारित्वाभिप्रायेण । “वाग्दण्डधिग्दण्डाभ्यां शासनं प्राड्विवाकेन कार्यम्” इति तेनैवाभिधानात् । तथा च - “तस्य निर्णयकृद् राजा ब्राह्मणश् च बहुश्रुतः” इत्य् अभिधायाभिहितम् ।

वाग्दण्डो धिग्दमश् चैव प्रायश्चित्ताव् उभौ स्मृतौ ।
अर्थदण्डवधाव् उक्तौ राजायत्ताव् उभाव् अपि ॥ इति

प्रतिष्ठिताप्रतिष्ठितसभ्यानां तु धर्मस्थाने विशेषविध्यभावाद् अनियत एव । शुभे स्थान उपविश्य विनिर्णयमात्रं कृत्वा तैर् उपरन्तव्यम् । दण्डदापने ऽर्थदापने वा तेषाम् अधिकाराभावात् । साहसविवादे तु तैर् निर्णमात्रम् (?) अपि न कार्यम् । अत आह बृहस्पतिः ।

राज्ञा ये विदिताः सम्यक् कुलश्रेणीगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥ इति ।

मुद्रिता तु सभा ब्रह्मसभातुल्येत्य् आह मनुः ।

यस्मिन् देशे निषीदन्ति (?) विप्रा वेदविदस् त्रयः ।
राज्ञश् च प्रकृतो विद्वान् ब्रह्मणस् ताम् सभां विदुः ॥

प्रकृतो ऽधिकृतः प्राड्विवाक इति यावत् । सभ्येष्व् अप्य् अर्थ्यादिरञ्जकः सभास् तारो (?) ऽखिललोकश्लाघ्यो भवतीत्य् आह व्यासः ।

अर्थिप्रत्यर्थिनौ सभ्यान् लेखकं प्रेक्षकांश् च यः ।
धर्म्यवाक्यै रञ्जयति स सभ्यः श्लाघ्यताम् इयात् ॥

तथा विवादिनां संशयहन्ता सभ्यस् तेषां प्राणद इत्य् आह स एव ।

परस्परविसंवादं संदेहात् कुर्वतो नरान् ।
यस् तेषां संशयछेत्ता स सभ्यः प्राणदः स्मृतः ॥

नरान् विवादतो निवार्येति शेषः । प्राणदस्य फलम् आह वसिष्ठः ।

यत् पुण्यम् उद्धृते विप्रे म्रियमाणे जलाशयात् ।
तत् पुण्यं संशयारूढे व्यवहारात् समुद्धृते ॥
म्रियमाण इति दार्ष्टान्तिके ऽप्य् अनुषज्यते ॥

तथा सभ्यविशेषे फलविशेषम् आह बृहस्पतिः ।

अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ।
लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ॥
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥

ये पुनः शास्त्रोदितविधिम् अतिक्रम्य निर्णयं कुर्युः तेषां दोषं आह कात्यायनः ।

न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥

तथा अन्यायप्रवृत्तनृपत्यनिवारणे ऽपि दोषस् तेनैव दर्शितः ।

अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः सनृपाः नरकं यान्त्य् अधोमुखाः ॥

अतस् तत्र तदनुसरणं सभासद्भिर् न कार्यम् इत्य् आह स एव ।

अन्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्मात् बोधनीयः शनैर् नृपः ॥

शनैर् इति वचनात् तदैव तत्प्रतिकूलबोधनं न पापभयात् कार्यम् । किं तु सति कालान्तरे । अत एवोक्तं तेनैव ।

न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत् प्रियं तत्र न सभ्यः किल्बिषी मतः ॥ इति ।

मनुस् त्व् अन्यायेन निर्णीयमाने प्रतिषेधम् अकुर्वताम् अपि सभ्यानां दोषम् आह ।

यत्र धर्मो ह्य् अधर्मेण सत्यं चैवानृतेन वा ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥

प्रेक्षंआणानाम् इत्य् अनादरे षष्ठी । अथ कांश्चित् सभ्यान् अनादृत्य धर्मनिर्णेतॄणां सभ्यानाम् अपि दोषस् तेनैव दर्शितः ।

धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठति ।
शल्यं चास्य न कृन्तन्ति हतास् तत्र सभासदः ॥

शल्यानिकृन्तनं सर्वसभ्यसंनत्यभावे ऽपि निश्चयः । तथा च नारदः ।

यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यः स्याद् अतो ऽन्यथा ॥

अत आत्मरक्षणार्थं सर्वधा धर्मो न हन्तव्य इत्य् आह मनुः ।

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥

तथा वृषलत्वपरिहारार्थम् अपि धर्माप्रतिहतिः कार्येत्य् आह स एव ।

वृषो हि भगवान् धर्मः तस्य यः कुरुते त्व् अलम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥

अलं वारणम् । हारीतस् तु वृषलस्य नरकम् आह ।

अन्धो मत्स्यान् इवाश्नाति निरपेक्षः सकण्टकान् ।
परोक्षम् अर्थं वैकल्यात् भाषते यः सभागतः ॥ इति ।

अत्र नारदः ।

तस्मात् सभ्यः सभां प्राप्य रागद्वेषविवर्जितः ।
वचस् तथाविधं ब्रूयात् यथा न नरकं व्रजेत् ॥

कीदृग्विधं वचो नरकपरिहारार्थं वाच्यम् इत्य् अत आह स एव ।

शूद्रेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।
शुद्धिश् च धर्मात् तेषां हि धर्मम् एव वदेत् ततः ॥

तेषां व्यवहाराणाम् । कात्यायनो ऽपि ।

सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात् तु सभ्यस् ततो ऽनघः ॥

अर्थसहितम् अर्थशास्त्रम् अर्थोपेतम् । मनुर् अपि ।

राजा भवत्य् अनेनास् तु मुच्यन्ते हि सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
सभा वा न प्रेवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥

यत् पुनस् तेनोक्तम्,

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम् ।

इति, तन् निर्णेतृव्यतिरिक्तविषयम् । तत्र पक्षपातेनाप्रियोक्तिर् अपि कार्यैवेत्य् उक्तत्वात् । एवं हिताहितप्राप्तिपरिहारोपायोपदर्शने ऽपि यो ऽत्यन्तोत्कटरागादिवशात् सभ्यः स्मृत्याचारविरुद्धं वादनिर्णयं विदधाति तस्य दण्डम् आह नारदः ।

रागाद् अज्ञानतो वापि यो लोभाद् अन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयः तं पापं नयेद् भृशम् ॥

कात्यायनो ऽपि ।

स्नेहाद् अज्ञानतो वापि मोहाद् वा लोभतो ऽपि वा ।
तत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥

स्नेहो रागः । मोहः विपरीतज्ञानम् । अत्र रागलोभवशात् भयाद् वा अन्यथावादी विवादपराजयनिबन्धनदमाद् द्विगुणं दमं दण्ड्य इत्य् आह याज्ञवल्क्यः ।

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्याः विवादाद् द्विगुणं दमम् ॥

विवादे यो दमो भवति पराजये तद्द्विगुणं दाप्य इति बहुव्याख्यातृसंमतो ऽर्थो ग्राह्यः, न पुनर् विवादास्पदीभूताद् द्रव्याद् द्विगुणम् इति कस्यचिद् व्याख्यातुर् अर्थः अयुक्तत्वात् । अयुक्तत्वं च बहुव्याख्यातृभिर् उक्तम्, विस्तरभयान् नोच्यते । एवं मोहवशाद् अप्य् अन्यथावादिनो दण्ड्या इत्य् आह कात्यायनः ।

कार्यस्य निर्णयं सम्यक् ज्ञात्वा सभ्यस् ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥

अज्ञानक्रोधवशाद् अन्यथा वादिनस् तु विशेषोक्त्यभावात् सामान्येन सभ्यसंबन्धितया बृहस्प्त्युक्तं तत्र व्यवतिष्ठते ।

अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥ इति ।

उत्कोचजीविन इत्य् एतत् सभ्येतरविषयम् । “कूटसाक्षिणां सर्वस्यापहारः उत्कोचजीविनां सभ्यानां च” इति विष्णुना सभ्यविषये सर्वस्यापहारस्योक्तत्वात् । यत् तु कैश्चिद् अज्ञानादिनान्यथावादे “मोहात् सहस्रं दण्ड्यस् तु” इत्यादिमनुवचनोक्तद्विशतादिदण्डवैचित्र्यम् उक्तं तद् याज्ञवल्क्यवचनतो रागादाव् एव द्विगुणो दम इति नियमाद् अज्ञानादौ दण्डान्तरं मृग्यम् इत्य् एवंपरम्, न पुनर् मनुवचनबलेन द्विशतादिदण्डप्रतिपादनार्थम् ।

एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिणः ।

इत्य् उपसंहारतो मनुवचनस्य साक्ष्यपराधविषयत्वात् । तस्माद् अज्ञानादौ बार्हस्पत्यवचनविहितो दमः सभ्यविषये त्व् अनुसंधेयः । प्राड्विवाकः सभ्या वा व्यवहारनिर्णयात् पूर्वं विजने ऽर्थिना सह संभाषणमात्राद् अपि दण्ड्या इत्य् आह कात्यायनः ।

अनिर्णीते तु यद्य् अर्थे संभाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्याश् चैव न संशयः ॥

निर्णयाद् ऊर्ध्वं सभ्यदोषपरिज्ञाने तु दमं दाप्य इत्य् आह स एव ।

सभ्यदोषात् तु यन् नष्टं देयं सभ्येन तत् तदा ।
कार्यं तु कार्यिणाम् एव निश्चितं न विचालयेत् ॥

दुष्टसभ्येनापि निर्णीतं कार्यं न परावर्तयेत्, किं तु दौष्ट्यात् नष्टं दापयेद् इत्य् अर्थः । सभ्यदोषान् आह नारदः ।

एते सभ्याः सभां गत्वा तूष्णींध्यायन्त आसते ।
यथाप्राप्तं न चेद् ऊचुः सर्वे ते ऽनृतवादिनः ॥

प्राप्तं युक्तम् इत्य् अर्थः । तथा ।

न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति न तत् सत्यं यच् छलेनानुविद्धम् ॥

**इति स्मृतिचन्द्रिकायां धर्मस्थाने ऽवस्थानम् **