०४ निर्णेतृनिर्णयः

अथ निर्णेतृनिर्णयः

अत्र बृहस्पतिः ।

एकस् त्व् अनेकधा प्रोक्तो व्यवहारो मनीषिभिः ।
तस्य निर्णयकृद् राजा ब्राह्मणश् च बहुश्रुतः ॥ इति ।

ब्राह्मणः प्राड्विवाकाख्यः । तथा च स एव ।

विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाकस् ततस् तु सः ॥ इति ।

पूर्वोत्तरपक्षौ पृच्छतीति प्राट् । निर्णयं च विशेषेण वक्तीति विवाक इति यौगिकी तस्य संज्ञेत्य् अर्थः ।

नारदेनापि ब्राह्मणे बहुश्रुतत्वं प्रपञ्चयता विधानान्तरेण इयं संज्ञा दर्शिता ।
अष्टादशपदाभिज्ञः तद्भेदाष्टसहस्रवित् ।
आन्वीक्षक्यादिकुशलः श्रुतिस्मृतिपरायणः ॥
विवादसंश्रुतं धर्मं पृच्छति प्रकृतं मतम् ।
विवेचयति यस् तस्मात् प्राड्विवाकस् तु स स्मृतः ॥ इति ।

एवम् उभाभ्याम् अपि यौगिक्याख्योक्त्यैवार्थाद् अस्य कार्यम् अप्य् उक्तम् । उक्तं च साक्षाद् अपि नारदेन ।

यथा शल्यं भिषक् कायाद् उद्धरेद् यन्त्रयुक्तितः ।
प्राड्विवाकस् तथा शल्यम् उद्धरेद् व्यवहारतः ॥ इति ।

“ब्राह्मणस् च” इति चशब्दो निर्णेत्रन्तरसमुच्चयार्थः । अत एव मनुः ।

येषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
धर्मं शाश्वतमाश्रित्य कुर्युस् तेषां विनिर्णयम् ॥ इति ।

येषु स्थानेष्व् अष्टादशपदेष्व् इत्य् अर्थः । कात्यायनो ऽपि ।

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ इति ।

प्राड्विवाकः पूर्वोक्तलक्षणः, तेन सह वर्तमानः सप्राड्विवाकः । एवं सामात्य इत्यादाव् अपि वक्ष्यमाणसंख्यानुसारेण विग्रहः । अमात्यस्य पुनर् लक्षणम् उक्तं व्यासेन ।

सर्वशास्त्रार्थवेत्तारम् अलुब्धं न्यायभाषिणम् ।
विप्रं प्राज्ञं क्रमायातम् अमात्यं स्थापयेद् द्विजम् ॥ इति ।

सत्य् अपि विप्रग्रहणे पुनर् द्विजग्रहणम् उक्तलक्षणान्वितविप्राभावे तल्लक्षणम् क्षत्रियं वैश्यं वामात्यं स्थापयेत्, न तु शूद्रम् इति दर्सयितुम् । यत आह स एव ।

द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशं च नश्यति ॥ इति ।

अमात्यम् इत्य् एकवचनम् उपलक्षणमात्रम् उद्देश्यगतत्वात्,

मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ।

इति मनुना बहुभिर् मन्त्रिभिः सह सभाप्रवेशविधानाच् च । “मन्त्रज्ञैः” इति विशेषनोपादानं कार्यदर्शनोपयोगिमन्त्रालोचकत्वेन तेषाम् अस्त्य् अत्रोपयोग इति प्रतिपादयितुम् । तथा ब्राह्मणे ऽपि बहुत्वम् उक्तं तेनैव,

व्यवहारदिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।

इति पूर्वार्धेन । ब्राह्मणैर् विद्वद्भिर् इति शेषः । तथा च याज्ञवल्क्यः ।

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणेइः सह । इति ।

यद्य् अप्य् एषां विद्वत्तया ब्राह्मणत्वबहुत्वाभ्यां सभायां च साधुत्वेन सर्वेभ्यो न भेदः, तथाप्य् अनियुक्तत्वेन तेभ्यो भेदो व्यवसेयः । ते हे नियुक्ताः । अत एव वसिष्ठः ।

नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति ।
देवीं वाचं स वदति यः शास्त्रम् उपजीवति ॥

यत् तु नारदेनोक्तम्,

नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ।
नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥

इति, तद् यदृच्छया कार्यान्तरवशाद् वा आगतानियुक्तविषयम् । अन्यथा पूर्वोक्तवचनविरोधात्, ब्राह्मणानां सहायत्वनिर्वाहाय कार्यान्तराक्षेपापत्तेश् च । पुरोहितस् त्व् एक एव । तथा च व्यासः ।

राजा पुरोहितं कुर्याद् उदीच्यं ब्राह्मणं हितम् ।
श्रुताध्ययनसंपन्नम् अलुब्धं सत्यवादिनम् ॥ इति ।

एकत्वम् अत्र विवक्षितम्, यूपं छिनत्तीतिवद् उत्पाद्यगतत्वात् । “हितम्” इति वदन् राज्ञ उच्छृङ्खलप्रवृत्तिर् दण्ड्यादण्ड्येषु पुरोहितेन निवार्येति दर्शयति । अत एव वसिष्ठेन राज्ञो दण्डशास्त्रार्थातिक्रमे पुरोहितस्यापि प्रायश्चित्तम् उक्तम् - “दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यादण्डने पुरोहितः, त्रिरात्रं राजा” इति । सभ्याः पुनर् बहवः इति । तथा च नारदः ।

राजा तु धार्मिकान् सभ्यान् कुर्वीत सुपरीक्षितान् ।
व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥ इति ।

“सभ्यान् कुर्वीत” व्यवहारदर्शनार्थम् । सभायां स्थितिं यथा न त्यजन्ति तथार्थदानमानप्रभृत्युपायेन नियुञ्जीतेत्य् अर्थः । व्यवहारधुरं वोढुं के शक्ता इत्य् अपेक्षिते याज्ञवल्क्यः ।

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्याः रिपौ मित्रे च ये समाः ॥ इति ।

ते ऽपि ब्राह्मणा एव । तथा च कात्यायनः ।

स तु सभ्यैः स्थिरैर् युक्तः प्राज्ञैः मौलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥ इति ।

अत्र वर्जनीयान् आह बृहस्पतिः ।

देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तक्रुद्धलुब्धार्ताः न प्रष्टव्या विनिर्णये ॥ इति ।

तथा (?) संख्यानियमम् ऽप्य् आह स एव ।

लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ इति ।

अत्र प्राड्विवाकादीनाम् अर्थार्थितया ऋत्विग्वत् सहायमात्रम्, नाधिकारः । अधिकारस् तु व्य्वहारदर्शने राज्ञ एवेति मन्तव्यम् । अत एवात्र सप्राड्विवाक इत्यादिना तस्यैवाप्राधान्येन निर्देशो नेतरेषाम्, फलसंबन्धो ऽपि तस्यैवोक्तो न त्व् अन्येषाम् । तथाकरणे दोषः, स्मृतिबलान् नित्याधिकारो ऽपि राज्ञ एव ।

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥

इति मनुना राज्ञ एव दोषस्मरणात् । अत एव च राजेतरेषां सभाप्रवेशनियमः तेनैव दर्शितः ।

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥

राज्ञः पुनः सभाप्रवेशनियमो बृहस्पतिना दर्शितः ।

राजा कार्याणि संपश्येत् सद्भिर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ इति ।

सभ्यैस् त्रिभिर् एव वृतो न त्व् एकेन द्वाभ्यां वा वृत इत्य् अर्थः । अतो न प्रागुक्तसभ्यसंख्याविरोधः । अतो राजसूय इव व्यवहारदर्शने राज्ञ एवाधिकार इति सिद्धम् । राजशब्देन चात्र क्षत्रजातीयो वान्यजातीयो वाभिषिक्तो वा अनभिषिक्तो वा प्रजापरिपालनादिराज्यकर्ता गौणवृत्त्या प्रतिपाद्यते, न पुनः राज्ञः कर्म राज्यम् इति शाब्दस्मृतेः, बाहुजजातौ राजशब्दो मुख्य इत्य् अवेष्टिन्यायाद् राजा राजसूयेनेतिवत् क्षत्रिय एव । आर्याणां मन्वादीनां राजशब्दप्रयोगो राज्यकर्तरि गौण इत्य् अवेष्ट्यधिकरण एवोक्तत्वाद् अत एव बृहस्पतिना नृपतिमात्रस्य् अ सभाप्रवेशो ऽभिहितः ।

प्रातर् उत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ॥
यथार्हम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् ॥ इति ।

अत एव याज्ञवल्क्येनापि व्यवहारदर्शनं तस्यैव विहितम् - “व्यवहारान् नृपः पश्येत्” इति । यत् तु प्रजापतिनोक्तम्,

राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः ।
धर्मासनगतः पश्येद् व्यवहारान् अनुलम्बणः ॥

इति — अनुलम्बणः अनुद्धत इत्य् अर्थः — एतद् अपि राज्ञो ऽभिषिक्तस्य व्यवहारदर्सनं कर्तव्यम् इति विधानार्थं न पुनर् इतरस्य प्रतिषेधार्थम्, तथात्वे परिसंख्यापत्तेः । अत एवानन्तरम् एवोक्तं तेनैव ।

एवं क्षत्रियसामन्ताः स्वदेशेषु पृथक् पृथक् ।
इतरेषां नृपाणां तु कुर्याद् ब्राह्मणपुंगवः ॥ इति ।

धर्मासनगता अनुल्बणास् सन्तः क्षत्रियसामन्ताः व्यवहारं पश्येयुः । इतरे पुनः नृपाः ब्राह्मणवैश्यादिजातीयाः स्वाधिकारसिद्धये ब्राह्मणश्रेष्ठम् एव सदा व्यवहारद्रष्टारं कुर्युर् इत्य् अर्थः । यत् पुनस् तेन - “ब्राह्मणो वा बहुश्रुतः” इति पक्षान्तरम् उक्तम्, तद् अपि न ब्राह्मणस्याधिकारप्रतिपादनपरम्, किं तु, विनापि राज्ञा बहुश्रुतः प्राड्विवाको राजनियोगात् पश्येद् इत्य् एवंपरम्, ब्राह्मणस्य नास्त्य् अधिकारो व्यवहारदर्शन इति प्राग् एव दर्शितत्वात् । अत एव विष्णुः - “व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात्” इति । अनेनैवाभिप्रायेण बृहस्पतिर् अपि ।

राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥ इति ।

एतच् च पक्षान्तरं यदा नृपतिः स्वयं न पश्यति तदैव । तथा च मनुः ।

यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ इति ।

विद्वांसं बहुश्रुतम् इत्य् अर्थः । अत एव कात्यायनः ।

एकशास्त्रम् अधीयानो न विद्यात् कार्यनिश्चयम् ।
तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥ इति ।

बह्वागमग्रहणं गुणान्तरस्यापि प्रदर्शनार्थम् । तथा चोक्तम् ।

अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः ।
उत्साहवान् अलुब्धश् च वादे योज्यो नृपेण तु ॥ इति ।

कात्यायनेनापि ।

यदा न कुर्यान् नृपतिः स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥
दक्षं कुलीनम् अध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्रभीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥ इति ।

यदा कार्यान्तरविशेषाद् इति शेषः । तथा च याज्ञवल्क्यः ।

अपश्यता कार्यवशात् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ इति ।

व्यवहारदर्शनाद् गुरुतरकार्यान्तरव्यग्रत्वेन व्यवहारान् अपश्यता नृपेण सभ्यैस् त्रिभिर् एव सह नियोक्तव्यः प्राड्विवाको नामामात्यादिभिः सहेत्य् अर्थः । अत एव मनुः ।

सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ इति ।

सभ्यैर् एवेत्य् अवधारणम् अन्यनिवृत्त्यर्थम् । त्रिभिर् इति च पञ्चसप्तसंख्यानिवृत्त्यर्थम् । अनेनैवाभिप्रायेण व्यासो ऽपि ।

विवादानुगतं दृष्ट्वा ससभ्यः प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥ इति ।

अत्र कात्यायनः ।

ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ इति ।

ब्राह्मणो विद्वान् इति शेषः । तथा च स एव ।

यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यतेनन वर्जयेत् ॥ इति ।

क्षत्रियम् इत्य् अत्र विद्वांसम् इति विद्वद्ब्राह्मणस्थाने विधानाद् गम्यते । यत्नेनेति वदन्न् अवर्जने गुर्वी हानिर् भवतीति दर्सयति । उदिता च सा मनुना ।

यस्य राज्ञस् तु कुरुते शूद्रो धर्मविवेचनम् ।
अस्य सीदति तद्राष्ट्रं पङ्के गौर् इव पश्यतः ॥ इति ।

तेन धर्मशास्त्रज्ञक्षत्रियवैश्ययोर् अलाभे ऽपि शूद्रो वर्ज्यः । तथा च तेनैवोक्तम् ।

जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मवक्ता तु नृपतेः न तु शूद्रः कथंचन ॥ इति ।

जातिमात्रोपजीवी न विद्याव्रतोपजीवी । व्यासस् त्व् अमात्यादिस्थाने ऽपि शूद्रपरिग्रहे दोषम् आह ।

द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशं च नश्यति ॥ इति ।

अतस् तद्दोषपरिहारायामात्यादिस्थाने ऽपि शूद्रान् वर्जयेद् इत्य् अभिप्रायः । तथा राष्ट्ररञ्जनार्थं राज्ञा कतिपयैर् वणिग्भिर् अपि सह संसदि स्थातव्यम् इत्य् आह कात्यायनः ।

कुलशीलवयोवृत्तिवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ इति ।

कुलभूतैः वृन्दभूतैर् इत्य् अर्थः । तथा तेषां कार्यम् अप्य् आह स एव ।

श्रोतारो वणिजस् तत्र कर्तव्या न्यायदर्शने ॥ इति ।

तथा राज्ञा गणकलेखकाव् अपि कर्तव्याव् इत्य् आह बृहस्पतिः ।

शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥ इति ।

व्यासो ऽपि ।

त्रिस्कन्धज्यौतिषाभिज्ञं स्फुटप्रत्ययकारकम् ।
श्रुताध्ययनसंपन्नं गणकं योजयेन् नृपः ॥
स्फुटलेखं नियुञ्जीत शब्दक्षेपणिकं शुचिम् ।
स्पष्टाक्षरं जितक्रोधम् अलुब्धं सत्यवादिनम् ॥ इति ।

त्रिस्कन्धज्यौतिषाभिज्ञं होरा गणितं संहितेतिस्कन्धत्रयसहितज्योतिःशास्त्राभिज्ञम् इत्य् अर्थः । श्रुताध्ययनसंपन्नम् इति विसेषणं गणकस्य द्विजातित्वख्यापनार्थम् । शूद्रादेस् तदसंभवात् । लेखको ऽपि तत्साहचर्याद् द्विज एव । अत एव साध्यपालस्य द्विजत्वपरिहारार्थम्,

साध्यपालस् तु कर्तव्यो राज्ञा साध्यस्य साधकः ।
क्रमायातो दृढः शूद्रः सभ्यानां च मते स्थितः ॥

इति शूद्रग्रहणं तेनैव कृतम् । साध्यस्यार्थिप्रत्यर्थिसाक्ष्यादिनामाह्वानकार्यस्येत्य् अर्थः (?) । तथा च बृहस्प्तिः ।

आकारणे रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् ।
सभ्याधीनः सत्यवादी कर्तव्यस् तु स्वपूरुषः ॥ इति ।

आकारणम् आह्वानम् । स्वपूरुषः क्रमायातो यः स सभ्याधी नः कर्तव्यो राज्ञेत्य् अर्थः । एवम् एते श्रेष्ठनिर्णयस्थाने मन्वादिभिर् उक्ते । भृगुणा तु जघन्यान्य् अपि निर्णयस्थानान्य् उक्तानि ।

दश स्थानानि वादानां पञ्च चैवाब्रवीद् भृगुः ।
निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः ॥ इति ।

तानि च पञ्चदश स्थानानि तेनैव दर्शितानि ।

आरण्यास् तु स्वकैः कुर्युः सार्थिकाः सार्थिकैः स्मृताः ।
सैनिकाः सैनिकैर् एव ग्रामे ऽप्य् उभयवासिभिः ॥
उभयानुमतं चैव गृह्णते स्थानम् ईप्सितम् ।
कुलिकाः सार्थमुख्याश् च पुरग्रामनिवासिनः ॥
ग्रामपौरगणश्रेण्यः चातुर्विद्यश् च वर्गिणः ।
कुलानि कुलिकाश् चैव नियुक्ता नृपतिस् तथा ॥ इति ।

अत्राध्यानि पञ्च स्थानान्य् आरण्यादिजनविशेषाणाम् एव । ग्रामाकारेणावस्थिते जनविवादे समीपवासिभिर् निर्णयः । अर्थिप्रथ्यर्थिनोर् अननुशयानुमतास्थानकुलिकसार्थमुख्यपुरग्रामवासिनो गृह्णते । ग्रामादीनि दश स्थानानि साधारणानि । ग्रामो ग्रामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । गणकुलानां समूहः,

कुलानां हि समूहस् तु गणः संपरिकीर्तितः ।

इति कात्यायनस्मरणात् । श्रेण्यो रजकाद्यष्टादशहीनजातयः । चातुर्विद्यः आन्वीक्षक्यादिविद्याचतुष्टयोपेतः । चातुर्विद्यश् चेति चशब्दो विद्वद्भिः पुरुषान्तरैः सह चातुर्विद्यस्य समुच्चयार्थः,

तस्मान् न वाच्यम् एकेन विधिज्ञेनापि धर्मतः ।

इति पितामहेनैकस्य धर्मकथननिषेधत् । वर्गिणो गणप्रभृतयः,

गणाः पाषण्डपूगाश् च व्राताश् च श्रेणयस् तथा ।
समूहस्थाश् च ये चान्ये वर्ग्याख्यास् ते बृहस्पतिः ॥

इति कात्यायनस्मरणात् । बृहस्पतिग्रहणं गणादिविषयेयम् आख्या पूर्वम् एव प्रसिद्धेति दर्शयितुम् । आयुधधराणां समूहो व्रातः,

नानायुधधरा व्रातः समवेतास् तु कीर्तिताः ।

इति तेनैवोक्तत्वात् । कुलान्य् अर्थिप्रत्यर्थिनोः सगोत्राणि । कुलिकाः केचनार्थिप्रत्यर्थिगोत्रजा वृद्धाः । नियुक्ताः प्राड्विवाकसहितास् त्रयः सभ्याः । नृपतिर् ब्राह्मणादिसहितः । अत्र बृहस्पतिः ।

प्रतिष्ठिताप्रतिष्ठिता मुद्रिता शास्त्रिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥ इति ।

आरण्यकादिस्थानत्रये या सभा सा अप्रतिष्ठिता । प्रायेण देशान्तरगमनयोग्यत्वाद् उभयवासिप्रभृतिषु दशसु स्थानेषु तदभावात् प्रतिष्ठिता । नियुक्तस्थाने पुनः मुद्राहस्ताध्यक्षसाहित्या मुद्रिता । नृपस्थाने तु शास्त्रनियन्तृकत्वाच् छास्त्रिता । अयं च सभाविभागस् तेनैव दर्शितः ।

प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता तु शास्त्रिता ॥ इति ।

अध्यक्षः प्राड्विवाकः । व्यवहारदर्शने ऽधिकृतत्वात् । तस्य च हस्ते राज्ञा स्वमुद्रा प्रतिवाद्यानयनार्थदेयेत्य् अत एवावगम्यते । तत्र प्रतिष्ठिता अप्रतिष्ठिता च सभा निर्णयार्थिभिर् एव प्रार्थनार्थं दानमाननादिभिः कार्या । शास्त्रप्रयुक्त्या नृपतिप्रयुक्त्यभावात् सभासिद्धभावात् । मुद्रिता शास्त्रिता च स्वाधिकारवशाद् राज्ञैव क्रियते, तेन तत्र निर्णयार्थिनां तत्समीपगमनम् एव न सभाकरणम् । अत्र च शास्त्रितसभायां सहान्तरेभ्यः प्राबल्यम् आह पितामहः ।

पूर्वस्थानगता वादाः धर्मतो ऽधर्मतो ऽपि वा ।
नृपस्थानं समाश्रित्य पूर्ववादं भजन्ति ते ॥ इति ।

पूर्ववादं पूर्वपक्षम् इत्य् अर्थः । नृपस्थानग्रहणं प्रबलस्थानोपलक्षणार्थम् । यतः स एवाह ।

ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस् तु राजनि ।
राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर् भवः ॥ इति ।

नारदो ऽपि ।

कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेषाम् (?) उत्तरोत्तरम् ॥

**इति स्मृतिचन्दिर्कायां निर्णेतृनिर्णयः **