०३ व्यवहारभेधाः

अथ व्यवहारभेधाः

उक्तं स्वरूपान्तर्गतविषयभेदतो व्यवहारस्य बहुविधत्वम् । अथ तस्यैवेदानीं पणादिवशात् भेदः प्रतिपाद्यते । अत्र याज्ञवल्क्यः ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ॥ इति ।

पराजिते मयैतावत् राज्ञे दीयत इति दर्पवशाद् अभ्युपगतं धनं पणं तेन सहितः सपणः । चेच्छब्दाद् अपणो ऽपि, तेन द्विविधो व्यवहारः । तथा चोक्तं नारदेन ।

सोत्तरो ऽनुत्तरश् चेति स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखापुर्वकः पणः ।

प्रतिज्ञाविलेखनात् पूर्वं यत्र व्यवहरे (?) दण्डाद् अभ्यधिकः पण उभाभ्याम् उपेयते अन्यतरेण वा स सोत्तरो व्यवहार इत्य् अर्थः । तथान्ये ऽपि भेदास् तेनोक्ताः ।

स चतुष्पाच् चतुःस्थानः चतुःसाधन एव च ।
चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥
अष्टाङ्गो ऽष्टादशपदः शतशाखश् तथैव च ।
त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥ इति ।

स्वयम् एव चैतान् प्रकारान् व्याचष्टे ।

धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥

ननु प्रतिज्ञोत्तरप्रमाणनिर्णयानां व्यवहारपदत्वं न धर्मादीनाम् इति किम् इदम् उक्तम् (युक्तम्?) । उच्यते । निर्णयपादो धर्माद्यनुसारेण चतुर्विधः । तत्र यदनुसारेण यो निर्णयः सः तच्छब्देन निर्दिश्यते । तेन धर्मादिभिर् अपि चतुष्पात्त्वनिर्णनं (?) युक्तम् एव । तथा च बृहस्पतिः ।

धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
चतुष्प्रकारो ऽभिहितः संदिग्धे ऽर्थे विनिर्णयः ॥

चतुर्विधानाम् अपि निर्णयानां लक्षणम् आह कात्यायनः ।

दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।
विवादे प्राप्नुयाद् यत्र धर्मेणैव स निर्णयः ॥

दोषो हिंसादिः । कर्तृत्वं तत्कारित्वम् ।

स्मृतिशास्त्रं तु यत् किंचित् प्रथितं धर्मसाधकैः ।
कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥

धर्मशास्त्रनिरूपितप्रतिज्ञोत्तराद्यनुसारेण निर्णयो व्यवहाराख्य इत्य् अर्थः ।

यद् यद् आचर्यते येन धर्म्यं वाधर्म्यम् एव वा ।
देशस्याचरणान् नित्यं चरित्रं तत् प्रकीर्तितम् ॥

तदनुसारीति निर्णयो ऽपि तथैव प्रकीर्तित इत्य् अर्थः ।

न्यायशास्त्रविरोधेन देसदृष्टेस् तथैव च ।
यं धर्मं स्थापयेद् राजा न्याय्यं तद् राजशासनम् ॥

अस्यायम् अर्थः । मानान्तराविरुद्धो राजबुद्धिमात्रपरिकल्पितो निर्णयो राजशासनम् इत्य् उच्यते इति । अत्रैकैकप्रकारस्य पुनश् च द्वैविध्यम् आह बृहस्पतिः ।

एकैको द्विविधः प्रोक्तः क्रियाभेदान् मनीषिभिः । इति ।

द्वैविध्यम् तेनैव दर्शितम् ।

सम्यग् विचार्य कार्यं तु युक्त्या संपरिकल्पितम् ।
परीक्षितं च शपथैः स ज्ञेयो धर्मनिर्णयः ॥
प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः ।
दिव्यैर् वा शोधितः सम्यग् द्वितीयः स उदाहृतः ॥

सह तत्वानुसरणेन कृतः प्रथमो धर्माख्यनिर्णयः । विना तत्त्वानुसरणं सत्योत्तरेण वा दिव्यप्रमाणेन वा कृतो द्वितीयः इत्य् अर्थः ।

प्रमाणनिश्चितो यस् तु व्यवहारः स उच्यते ।
वाक्छलानन्तरत्वेन द्वितीयः परिकीर्तितः ॥

प्रमाणम् अत्र मानुषं विवक्षितम् । दिव्यनिश्चितस्य धर्मनिर्णयकोटित्वात् ।

अनुमानेन निर्णीतं चरित्रम् इति कथ्यते ।
देशस्थित्या द्वितीयस् तु शास्त्रविद्भिर् उदाहृतः ॥

अनुमानम् उल्काहस्तादिलिङ्गम् ।

प्रमाणरहितो यस् तु राजाज्ञानिर्णयः स्मृतः ।
शास्त्ररीत्यविरोधेन तथा चान्यः प्रकीर्तितः ॥ इति ।

प्रमाणरहित इत्य् अस्यार्थो व्यासेन प्रपञ्चितः ।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर् हेतुं तर्कश् चेति मनीषिणः ॥
देशस्हितिः पूर्वकृता चरित्रं समुदाहृतम् ।
अर्थानुरूपाः शपथाः स्मृत्यस् सत्यपदादयः (?) ॥
तेषाम् अभावे राजाज्ञां निर्णयं तु विदुर् बुधाः ॥ इति ।

नन्व् एवं तर्हि “उत्तरः पूर्वबाधकः” इति नारदवचनम् असंबद्धम्, तत्त्वार्थानुगुण्यातिशयेन पूर्वस्यैवोत्तरबाधकत्वात्,

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।

इति याज्ञवल्क्येनोक्तत्वाच् च । उच्यते । सत्यम्, उत्सर्गतः सर्वत्रैवम्, क्वचिद् विषये तूत्तरः पूर्वबाधको भवत्य् एव । तद्विषयं च नारदवचनम् । तथा हि, यदा केनचिद् विशिष्टेन राजन्यादिना मोहात् कथंचित् राजदारादेः स्पर्शनादिकं कृतम्, कृत्वा च स्वप्राणभयान् मिथ्या करोति साक्षिणश् च सन्ति ते च राज्ञा पृष्टाः सन्तो वधो ऽस्य मा भूद् इति नायम् अस्य कर्मणः कर्तेति मिथ्यासाक्ष्यं ब्रूयुः, तदा दोषकारिणस् तत्कर्तृत्वापाप्तेर् धर्मो व्यवहारेण बाध्यते । युक्तं चात्र धर्मबाधनम् “वर्णिनां तु वधो यत्र” इति साक्षिणां मिथ्याभिधानविधानात् । यदा पुनः परदाराभिगमनं कृतम् अनेन साक्षिणो विद्यन्त इति कश्चिद् आभीरादिः केनचिद् अभियुक्तो ब्रूते - सत्यम् एतत् साक्षिभाषितं तथापि नाहं दण्ड्यः चरित्रबलान् मयैतत् कृतम् । निवेशितं च पुस्तके राज्ञा तद् इति चरित्रेण व्यवहारो बाध्यते, व्यवहारतः प्राप्तस्य दण्डस्य चरित्रतो निवृत्तत्वात् । युक्तं चात्र चरित्रेण बाधनम्,

ग्रामगोष्ठपुरश्रेणीसार्थसेनानिवासिनाम् ।
व्यवहारश् चरित्रेण निर्णेतव्यो बृहस्पतिः ॥

इति वचनात् । चरित्रम् अपि क्वचिद् राजाज्ञया बाध्यते - कुलगृहाभ्यन्तरे न केनचिद् राजपुरुषेण प्रवेष्टव्यम् इति चरित्रम् ईदृशं कृतम् । ततो राज्ञा कश्चिद् अपराधी गृहं प्रविष्टो ज्ञातः ततो राज्ञा कश्चिद् राजपुरुष आज्ञप्तः गृहाभ्यन्तरम् अपि प्रविश्य स दुष्ट आनेतव्य इति तदा चरित्रम् अपि राजशासनेन बाध्यते । दुष्टनिग्रहस्यावश्यकत्वेन चरित्रतो राजशासनस्य बलीयस्त्वात् । एवंविधम् एव विषयं मनसि निधाय बृहस्पतिनाप्य् उक्तम् ।

शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयः धर्मस् तेनापहीयते ॥
देशस्थित्यानुमानेन नैगमानुगतेन च ।
क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥
विहाय चरिताचारं यत्र कुर्यात् पुनर् नृपः ।
निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तया ॥ इति ।

प्रकृतम् उच्यते । चतुःस्थानव्याख्यानार्थम् आह ।

तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥

साक्षिग्रहणं धर्मशास्त्रस्थदिव्येतरप्रमाणस्य चोपलक्षणार्थम् । पुस्तकरणं लेख्यम् । चतुःसाधनम् आह ।

सामाध्युपायसाध्यत्वाच् च चतुःसाधन उच्यते ।

विप्रतिपन्नार्थिप्रत्यर्थिनोः सामाद्युपायसाध्यत्वाद् इत्य् अभिप्रायः । चतुर्हितम् आह ।

चतुर्णाम् आश्रमाणां तु रक्षणाच् च चतुर्हितः ।

आश्रमग्रहणं वर्णानाम् अपि प्रदर्शनार्थम् । चतुर्व्यापिनम् आह ।

कर्तॄंस् तथा साक्षिणश् च सभ्यान् राजानम् एव च ।
व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥

सम्यग् असम्यग् दृष्टो धर्माधर्मफलेन कर्त्रादीन् पादशो व्याप्नोतीत्य् अर्थः । चतुष्कारिणम् आह ।

धर्मस्यार्थस्य यशसो लोकसक्तेस् तथैव च ।
चतुर्णां करणादेषां चतुष्कारी प्रकीर्त्यते ॥

लोकसक्तिः लोकानुरागः । अष्टाङ्गम् आह ।

राजा सपुरुषाः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गं समुदाहृतम् ॥

एतेषां तूपयोगम् उपरिष्टाद् वक्ष्यामः । अष्टादशपदशतशाखयोर् व्याख्यानं पूर्वप्रकरणयोर् दर्शितम् इहानुसंधेयम् । त्रियोनिम् आह ।

कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥

यथासंभवं सर्वत्रेति शेषः । द्व्यभियोगम् आह ।

द्व्यभियोगस् तु विज्ञेयः शङ्कातत्वाभियोगतः ।

अत्रैवोदाहरणम् आह ।

शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥

कितवस् तेनाद्यसद्भिः संसर्गात् साधाव् अपि स्तेयादिशङ्का भवति । होढादिदर्शनम् अपहृतैकदेशादिलिङ्गोपलम्भः, प्रत्यक्षदर्शनं वा । उदाहरणमात्रम् असतां संसर्गः सताम् अप्य् आढ्यानां संसर्गे सति निक्षेपादिशङ्खासंभवात् । अतो नैतल् लक्षणं शङ्खाभियोगस्य । द्विद्वारम् आह ।

पक्षद्वयाभिसंबन्धात् द्विद्वारः समुदाहृतः ।
पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरः ॥

वाद इति शेषः । द्वारं कार्यारम्भप्रवृत्तिः । द्विगतिम् आह ।

भूतछलानुसारित्वात् द्विगतिः समुदाहृता ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ इति ।

हारीतो ऽपि कांश्चिद् भेदान् आह ।

एकमूलो द्विरुत्थानो द्विस्कन्धो द्विफलस् तथा ॥ इति ।

कात्यायनस् त्व् एतान् व्याचष्टे ।

साध्यवादस्य मूलं स्याद् वादिना यन् निवेदितम् ।
देयाप्रदानं हिंसा चेत्य् उत्थानद्वयम् उच्यते ॥
धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयम् उदाहृतम् ।
जयश् चैवावसायश् च द्वे फले समुदाहृते ॥ इति ।

अवसायः पराजयः । तथान्यो ऽपि भेदस् तेनैव दर्शितः ।

पूर्वपक्षश् चोत्तरश् च प्रत्याकलितम् एव च ।
क्रियापादश् च तेनायं चतुष्पात् समुदाहृतः ॥ इति ।

प्रत्याकलितम् उत्तराङ्गीकारानन्तरम् अपि विवदमानयोः कस्य अत्र क्रियोपन्यसनं न्याय्यम् इति प्राड्विवाकादीनां विमर्शनम् । क्रिया लिखितादिप्रमाणं, तन्निर्देशः क्रियापादः । विवादात्मकव्यवहारपर्यवसानभागतया प्रत्यकलितक्र्ययोर् अपि व्यवहारत्वाच् “चतुष्पात् समुदाहृतः” इत्य् उक्तम् ।

अत एव संग्रहकारेणापि पर्यवसानभागस्यापि व्यवहारत्वम् उक्तम् ।
परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यान् न्याय्यव्यवस्थानं व्यवहार उदाहृतः ॥ इति ।

केचिद् उपन्यस्ते प्रमाणे प्रमाणाभावशङ्कापनोदकं जयपराजयनिर्णयफलकं विमर्शनं प्रत्याकलितम् आहुः । तन्मते पादसंख्यैव हि विवक्षिता, न तु क्रमः, प्रत्याकलितपादस्य तुरीयत्वापातात् । यत् तु याज्ञवल्क्येनोक्तम्,

तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ।

इति, तत्रापि सिद्धिशब्देन सिद्धिफलकं प्रत्यकलितम् उच्यते, न पुनर् जयपराजयावधारणरूपम्, तस्य संप्रतिपत्त्युत्तरे ऽपि सत्त्वात्, “द्विपात्संप्रतिपत्तिषु” इति वचनविरोधप्रसङ्गात् । तस्मात् तत्कात्यायनवचनसमानार्थतैव याज्ञवल्कीयस्य ।

अन्ये पुनर् अस्य वचनस्य,
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवर्तिभिः ।
आक्षिप्तचतुरंशस् तु चतुष्पाद् अभिधीयते ॥

इति स्मृत्यन्तरवचनेन समानार्थतां वर्णयन्ति । संप्रतिपत्त्युत्तरे तु साधनानिर्देशात्, प्रतिज्ञातार्थस्य असाध्यत्वाच् च न साध्यसिद्धिलक्षणः पादो ऽस्तीति “द्विपात् संप्रतिपत्तिषु” इति वचनविरोधो ऽपि नास्तीति च वदन्ति । अत्र मते पादक्रमो ऽपि स्मृत्यन्तरे दर्शितः ।

भाषापादस् तु तत्राद्यो द्वितीयश् चोत्तरस् तथा ।
क्रियापादस् तथा चान्यः चतुर्थो निर्णयः स्मृतः ॥ इति ।

इति स्मृतिचन्द्रिकायां व्यवहारभेदाः