०२ अष्टादशपद-निरूपणम्

अथाष्टादशपदनिरूपणम्

तत्र ऋणादानस्य स्वरूपं भेदाश् च केचिन् नारदेन दर्शिताः ।

ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्मश् च ऋणादानम् इति स्मृतम् ॥

द्यूतादिकुत्सितेतरकार्यार्थं पित्रादिकृतं ऋणं देयम् । कुटुम्बभरणाद्यावश्यकेतरकार्यार्थं पुत्रादिकृतम् ऋणं देयम् । पुत्रपौत्राद्यधिकारिणां बाल्यापगमनान्तरादिकाले द्वैगुण्यादिप्रकारेण ऋणं देयम् इति यत् तत् सर्वम्, तथा “बन्धग्रहणादिधनप्रयोगधर्माः शनैः” इत्यादि प्रयुक्तधनादानधर्माश् च यस्मिन् विवादविषय उक्ताः तत् पदम् ऋणादानम् इति स्मृतम् इत्य् अर्थः । द्वितीयपदस्यापि स्वरूपं भेदं चाह स एव ।

स्वद्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥
असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तज् जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥ इति ।

निक्षेपोपनिध्योर् गणितागणितत्वनिबन्धनो भेद इत्य् अर्थः । अविज्ञातम् इत्य् अस्यार्थो बृहस्पतिना प्रपञ्चितः ।

अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् दत्तं तद् औपनिधिकं स्मृतम् ॥ इति ।

दत्तं परहस्त इति शेषः । तथा च याज्ञवल्क्यः ।

भाजनस्थम् असंख्यातं हस्ते न्यस्य यद् अर्प्यते ।
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥

भाजनं निक्षेप्यस्याधारभूतं करण्डकादिपात्रम् । हस्त इत्य् उपलक्षणम् । अत एव नारदः ।

अन्यद्रव्यव्यवहितं द्रव्यम् अव्याकृतं च यत् ।
निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ॥

यत्र तल् लक्षणरहितं स्थाप्यते तन् न्यासाख्यम् इत्य् आह बृहस्पतिः ।

राजचोरारातिभयाद् दायादानां च बाधनात् ।
स्थाप्यते ऽन्यगृहे द्रव्यं न्यासस् तत् परिकीर्तितः ॥ इति ।

कात्यायनस् त्व् अस्यापवादम् आह ।

क्रयप्रोषितनिक्षिप्तबन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितं चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥

क्रयः क्रयधनम् । प्रोषितनिक्षिप्तम् इत्य् अत्र प्रोषितग्रहणं प्रवत्स्यत उपलक्षणार्थम् । बन्ध आधिः । अन्वाहितम् अन्यस्मै दातुम् अर्पितम् । याचितं परकीयम् अलंकाराद्यर्थम् आनीतम् । वैस्यवृत्त्यर्पितं वृत्त्यर्थम् अर्पितं कृष्यादिकर्माद्यर्थम् अन्यस्यार्पितम् । एवम् उक्तभेदो निक्षेपादिः पुनर् द्विविध इत्य् आह नारदः ।

स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥

प्रत्ययो दिव्यम् ।

तथा तृतीयपदस्यापि तेनैव स्वरूपभेदौ दर्शितौ –

वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत् संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥

वणिजो वाणिज्यम्, ऋत्विजो यज्ञम्, कृषीवलाः कृषिम्, हेमकारादयः शिल्पम्, नर्तकादयो नृत्तादिकम्, स्तेनाः स्तेयम्, यत्र संहत्य कुर्वते, तत् संभूय क्रियमाणं वाणिज्यादि संभूय समुत्तिष्ठन्ते समेधन्ते ऽनेनेति व्युत्पत्त्या संभूयसमुत्थानाख्यं व्यवहारपदम् इत्य् अर्थः । वणिक्प्रभृतय इत्य् अनेनैवैते भेदा दर्सिताः । तथा चतुर्थस्यापि पदस्य स्वरूपभेदौ (?) तेनैव दर्शितौ ।

दत्वा द्रव्यम् असम्यग् यत् पुनर् आदातुम् इच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥

यस्मिन् दाने दत्तं द्रव्यं कर्मकारादिवैगुण्यात् पुनः संप्रदानाद् अपहार्यं तद् दानम् । दत्तस्याप्रदानम् अस्मिन् विद्यत इति व्युत्पत्त्या दत्ताप्रदानिकाख्यं व्यवहारपदम् इति श्रौतो ऽर्थः । तथा कर्मकाराद्यवैगुण्याद् दत्तस्यानपाकर्मानपनयनम् अस्मिन्न् इति व्युत्पत्त्या दत्तानपाकर्माख्यम् अपीदम् एव पदम् इत्य् आर्थिको ‘र्थः । एवं श्रुत्यर्थाभ्याम् अस्य पदस्य द्वैविध्यम् अभिधाय पुनर् देयादेयादिकर्मकारकभूतद्रव्यभेदेन चातुर्विध्यम् आह स एव ।

अथ देयम् अदेयं च दत्तं चादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥

देयम् अनिषिद्धं दानक्रियायां निर्वर्तकं द्रव्यम् । अदेयं चानिर्वर्तकम् । दत्तं दाने सति संप्रदानाद् अनपहार्यम् । अदत्तं चापहार्यम् इत्य् एतैर् देयादेयदत्तादत्तैर् दानमार्गो दानप्रकारश् चतुर्विधो व्यवहारेषु विज्ञेय इत्य् अर्थः । तथानन्तरपदस्यापि स्वरूपभेदाव् उक्तौ ।

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥

यच्छिष्यादिशुश्रूषकस्याङ्गीकृतगुर्वाद्याज्ञाकरणं तद् अभ्युपेत्याशुश्रूषाख्यं विवादपदम् इत्य् अर्थः । य इति सामान्यशब्दोक्तशिष्यान्तेवासिभृतककर्मकृद्दासाख्यपञ्चशुश्रूषकवशात् पञ्चविधत्वम् अस्य पदस्यार्थात् सिद्धम् इति न तेन पृथग् भेदो दर्शितः । बृहस्पतिना पुनर् बहुधा भेदा दर्शिताः ।

अनेकधा त्व् अभिहिता जातिकर्मानुरूपतः ।
विद्याविज्ञानकामार्थनिमित्तेन चतुर्विधा (?) ॥
एकैकाः पुनर् एतेषां क्रियाभेदात् प्रभिद्यते ॥ इति ।

वेदविद्या हि शिष्यस्य शुश्रूषुकत्वे निमित्तम् । शिल्पविज्ञानम् अन्तेवासिनः । कामार्थौ भृतकादेः । अनन्तरपदस्य तु स्वरूपभेदौ नारदेनाभिहितौ ।

भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥

भृत्यानां भृत्यर्थं कर्म कुर्वतां वेतनस्य भृतेर् दानादानविधिक्रमः ईदृशस्य देयं ईदृशस्य न देयम्, दत्तम् अप्य् एवंविधात् प्रत्यादेयं क्वचिद् द्विगुणं देयम् इत्याद्युक्तं यत्र विवादपदे तद् वेतनस्य भृतेर् अनपाकर्म अनपनयनम् अननुरूपकरणं वात्र विद्यते इति व्युत्पत्त्या वेतनानपाकर्माख्यं विवादपदम् इत्य् अर्थः । अनेनैव देयादिसाध्यबेदाद् अस्य पदस्यानेकविधत्वम् उक्तम् । एवम् अन्तरपदस्याप्य् आह ।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥

असमक्षं स्वामिन इति शेषः । तथा च व्यासः ।

याचितान्वाहितन्यासं हृत्वा वान्यस्य यद् धनम् ।
विक्रीयते स्वाम्यभावे स ज्ञेयो ऽस्वामिविक्रयः ॥

स्वाम्यभावे स्वामिनो ऽसंनिधाव् इत्य् अर्थः । एवम् अनन्तरपदस्यापि स्वरूपविभागौ द्रष्टव्यौ । तथा च नारदः ।

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥

अस्य च पण्यभेदतो भेद इति तद् भेदम् आह ।

लोके ऽस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥
षड्विधस् तस्य तु बुधैः दानादानविधिः स्मृतः ।
गणितं तुलितं मेयं क्रियया रूपतः श्रिया ॥

अस्यार्थः - गणितं क्रमुकादि, तुलितं कनकादि, मेयं प्रस्थादिना व्रीह्यादि, क्रियया दोहनादिकया अश्वमहिष्यादि, रूपतः पण्याङ्गनादि, श्रिया कान्त्या रत्नादि । एवम् अनन्तरपदस्यापि स्वरूपम् आह ।

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीत्वानुशय इत्य् एतद् विवादपदम् उच्यते ॥

न बहु मन्यते न परामर्शपूर्वम् इति मन्यत इत्य् अर्थः । तथानन्तरपदार्थनिरूपणार्थम् आह ।

पाषण्डनैगमादीनां स्थितः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥

पाषण्डाः क्षपणादयः । नैगमाः सार्थिकाः वणिजः । आदिशब्देन त्रैविद्यब्राह्मणसमूहश्रेणीपूगव्रातगणगुल्मग्रामदेशादयो गृह्यन्ते । तेषां स्थितिः पारिभाषिकधर्मतो व्यवस्था समयः तस्यानपाकर्म अनुल्लङ्घनं यत् तत् समस्यानपाकर्म । तद् अन्यथा क्रियमाणं विरुद्धलक्षणयार्थवत् । समयस्यानपाकर्माख्यं विवादपदं स्मृतम् इत्य् अर्थः । संविद्व्यतिक्रम इति मुख्यम् आख्यान्तरम् अस्य पदस्य प्रसिद्धत्वान् नोक्तम् ।

अनन्तरपदम् अपि व्याचष्टे ।
सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर् विवादः क्षेत्रजः स्मृतः ॥

सेतुर् जलप्रवाहबन्धः । केदारः क्षुद्रवास्तुभिः कल्पितो देशः, क्षेत्रमात्रा वा । मर्यादा क्षेत्रादिसीमा । विकृष्टो लाङ्गलादिनोद्भेदितो देशः । अकृष्टः खिलो देशः । तेषां निश्चयाः क्षेत्राधिकाराः क्षेत्रविषया यत्र भवेयुः स क्षेत्रजो विवाद इत्य् अर्थः । स च षट्प्रकार इत्य् आह कात्यायनः ।

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
आभोगभुक्तिः सीमा च षट् भूवादस्य हेतवः ॥

अस्यार्थो विविच्योच्यते - किंचिद् भूभागम् अङ्गीकृत्य ततो ऽधिका भूर् अस्ति नेतीति विवाद आधिक्यनिबन्धनः । एतावती भूस् तव नेत्य् उक्ते ममैतावत्य् अस्तीत्य् एवंविधो न्यूनताहेतुकः । अस्यां भुवि ममांशो ऽस्तीत्य् उक्ते नेत्य् एवंविधो ऽंशो ऽस्तित्वकारितः । अत्र तवांशो नास्तीत्य् उक्ते विद्यत इत्य् एवंविधो ऽंशो नास्तित्वनिमित्तकः । मदीया भूस् त्वया प्राग् अभुज्यमानैवेदानीं भुज्यत इत्य् उक्ते प्राग् अपि भुक्तिर् अस्तीत्य् एवंविधो भोगभुक्तिबीजकः । इयं मर्यादा मदीया या भुव इत्य् उक्ते नेत्य् एवंविधः सीमासंभवः । स च यावत् सीमाभेदं भिद्यत इति भेदम् आह नारदः ।

ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥

ध्वजिनी वृक्षादिना लक्षिता । मत्स्यिनी जलेन । नैधानी निखातकृष्टादिना । भयवर्जिता वादिनोर् मिथः संप्रतिपत्तितः कृता । राजशासननीता राजेच्छया निर्मिता ।

अथ तेनैवानन्तरपदद्वयस्य निरूपणं संक्षेपेण कृतम् ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद् विवादपदम् उच्यते ॥
विभागो ऽर्थस्य पित्रादेः पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥

उभयत्रादिशब्देन बहुविधो भेदो दर्शितः । पुत्रैर् इति दायादोपलक्षणार्थम् । अनन्तरपदत्रयस्य तु प्रपञ्चेनैव निरूपणं कृतम् ।

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥

यत् किंचिन् मध्यगधनापहरणादिकम् इत्य् अर्थः । तथा च याज्ञव्ल्क्यः ।

सामान्यद्रव्यप्रसभहरणं साहसं स्मृतम् ॥ इति ।

सामान्यद्रव्यग्रहणं मनुष्यमारणादेर् उपलक्षणार्थम् । अत एव बृहस्पतिः ।

मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं पञ्चधा स्मृतम् ॥ इति ।

एवम् अनेकविधत्वम् अस्य पदस्य यत् किंचिच्छब्देन लक्षणश्लोकगतेनोक्त्वा पुनस् त्रैविध्यम् आह नारदः ।

तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मधयं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥

लक्षणम् अपि प्रपञ्चितं तेन ।

फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःपक्वान्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥ इति ।

विविधानाम् आपदां विपादिभिर् आपादनं व्यापादनम् । तथा वाक्पारुष्यस्य स्वरूपम् आह ।

देशजातिकुलादीनाम् आक्रोशन्यङ्गसंयुतम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥

यद् वचनं देशाद्याक्षेपार्थबोधकम्, यच् चात्यन्तदुःखकरार्थकं तद् वाक्पारुष्यम् । तद् अपि त्रिविधम् इत्य् आह ।

निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् ॥ इति ।

निष्ठुरादीनां स्वरूपम् आह ।

साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पतनीयैर् उपक्रोशैः तीव्रम् आहुर् मनीषिणः ॥

धिङ्मूर्खजाल्मेत्यादि साक्षेपम् । न्यङ्गं भगिनीसंबन्धाद्यवद्यम् । पतनीयैः सुरापो ऽसीत्यादिभिः । तथा च कात्यायनः ।

यत् त्व् असत्संज्ञितैर् अङ्कैः परम् आक्षिपति क्वचित् ।
अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक् स्मृता बुधैः ॥
न्यग्भावकरणं वाचा क्रोधात् तु कुरुते यदा ।
वृत्तेर् देशकुलादीनाम् अश्लीला सा बुधैः स्मृता ॥
महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वाक् ॥

बृहस्पतिस् त्व् अत्रापि साहसवत् प्रथममध्यमोत्तमभेदेन त्रैविध्यम् आह ।

देशग्रामकुलादीनां क्षेपः पापेन योजनम् ।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥
भगिनीमातृसंबन्धम् उपपातकशंसनम् ।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥
अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यम् उत्तमं प्रोक्तं तीव्रं मर्माभिघट्टनम् ॥ इति ।

द्रव्यं विना द्रव्यवैशिष्ट्यं विनेत्य् अर्थः । कात्यायनस् त्व् अन्यान् अपि वाक्पारुष्यभेदान् आह ।

हुङ्कारः कासनं चैव लोके यच् च विगर्हितम् ।
अनुकुर्याद् अनुब्रूयाद् वाक्पारुष्यं तथोच्यते ॥
यो ऽगुणान् कीर्तयेत् क्रोधान् निर्गुणे वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ॥ इति ।

व्यासस् तु दण्डपारुष्यस्वरूपम् आह ।

भस्मादीनां प्रक्षिपणं मोडनं च करादिना ।
आवेष्टनं चांशुकाद्यैर् दण्डपारुष्यम् उच्यते ॥

बृहस्पतिर् अपि ।

हस्तपाषाणलगुडैर् भस्मकर्दमपांसुभिः ।
आयुधैश् च प्रहरणं दण्डपारुष्यम् उच्यते ॥

प्रहरणं परगात्रेष्व् इति शेषः । तथा च नारदः ।

परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥

परगात्रेषु स्थावरजङ्गममूर्तिषु । दण्डो द्रोहः । पारुष्यं निष्ठुरता । एतद् अपि पदं त्रिविधम् इत्य् आह स एव ।

तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।
अवगूरणनिः शङ्कपातक्षतजदर्शनैः॥

हीनमध्यमोत्तमानां तु द्रव्याणां समतिक्रमाद् इति कर्तुर् व्यापारतारतम्यात्, कर्मीभूतद्रव्यवैशिष्ट्यतारतम्याच् च प्रथममध्यमोत्तमभावेन त्रैविद्यम् इत्य् अर्थः । ननु पारुष्यद्वयस्य साहसविशेषत्वात् पदान्तरत्वेनोक्तिर् अयुक्ता । सत्यम्, सहसा क्रियमाणस्य साहसविशेषत्वं छलेन पुनः क्रियमाणस्य पदान्तरत्वम् एव, साहसलक्षणाभावात् । तथा चोक्तं तेनैव ।

तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र तूच्यते ।
आधिः साहसम् आक्रम्य स्तेयम् आधिः छलेन तु ॥

आधिः क्लेशः, स आक्रम्यार्थहरणद्वारा क्रियमाणः साहसम् । छलेन पुनर् अर्थग्रहणद्वारा क्रियमाणं स्तेयम् इत्य् अर्थः । ननु अनेन स्तेयस्य भेद उक्तो न पारुष्यस्य । सत्यम्, अपृथगुद्दिष्टस्यापि भेद उक्ते पृथगुद्दिष्टस्य सुतराम् एव भेदो लक्ष्यत इति स्तेयमात्रस्योक्त इत्य् अविरोधः । अतः पदान्तरत्वेनाप्य् उक्तिर् युक्तैव । अत एव सङ्ग्रहकारः ।

मनुष्यमारणादीनि क्रियन्ते प्रसभं यदि ।
साहसानीति कथ्यन्ते यथाख्यान्य् अन्यथा पुनः ॥

अन्यथा पुनर् यद्य् अप्रसभं कृतानि तदा यथाख्यानि स्तेयस्त्रीसङ्ग्रहणवाक्पारुष्यदण्डपारुष्याख्यानीत्य् अर्थः । नन्व् एवं स्त्रीस्तेयसङ्ग्रहणयोर् अपि साहसात् पृथगुद्देशनं कार्यम् । सत्यम्, तत एव मनुना

स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ।

इति पृथगुद्दिष्टम् । नारदेन तु तयोश् छलेनैव क्रियमाणत्वात् पदान्तरत्वं स्फुटम् एवेति साहसान्तर्भाव एवोद्देशदशायां दर्शितः । पारुष्यद्वयस्य तु प्रायेण प्रसभं क्रियमाणत्वात् पदान्तरत्वम् अव्यक्तम् इति पृथग् अप्य् उद्देशः कृत इति सर्वम् अनवद्यम् । स्तेयस्य साहसात् भेदम् उक्त्वा त्रैविध्यम् अप्य् उक्तं नारदेन ।

तद् अपि त्रिविधं ज्ञेयं द्रव्यापेक्षे मनीषिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपहारतः ॥

क्षुद्रादिद्रव्याण्य् अपि तेनैव दर्शितानि ।

मृद्भाण्दासनखट्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रद्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्जं तु गोवर्जं पशवस् तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवादि च ॥
हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिनाम् ।
देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यम् उत्तमम् ॥
उपायैर् विविधैर् एषां वञ्चयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ इति ।

शमीधान्यं कोशवेष्टितं माषमुद्गादि । कौशेयं क्रिमिकोशजाततन्तुनिर्मितम् । स्त्रीसङ्ग्रहणस्य तु त्रैविध्यम् आह बृहस्पतिः ।

पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।
बलोपादिकृते द्वे तु तृतीयम् अनुरागजम् ॥

सङ्ग्रहणं परिस्त्रिया सह पुरुषस्य सम्बन्धः । तथा च नारदः ।

परिस्त्रिया सहाकाले ‘देशे वा पुरुषस्य तु ।
स्थानसंभाषणामोदास् त्रयः संग्रहणक्रमाः ॥ इति ।

स्वोक्तत्रिप्रकारलक्षणम् आह बृहस्पतिः ।

अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहश् च बलात्कारकृतं तु तत् ॥
छद्मना गृहम् आनीय दत्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यां तत् तूपाधिकृतं विदुः ॥
अन्योन्यचक्षूरागेण (?) दूतीसंप्रेषणेन वा ।
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥

कार्मणं वशीकरणम् । तथा प्रथममध्यमोत्तमभावेनापि त्रैविध्यलक्षणम् आह स एव ।

तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अपाङ्गावेक्षणं हास्यं दूतीसंप्रेषणं तथा ॥
स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ।
प्रेषणं गन्धमाल्यानां धूपमध्वन्नवाससाम् ॥
संभाषणं रहसि च मध्यमं संग्रहं विदुः ।
एकशय्यासनक्रीडचुम्बनालिङ्गनं तथा ॥
एतत् संग्रहनं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ॥ इति ।

व्यासो ऽपि ।

संग्रहस् त्रिविधो ज्ञेयः प्रथमो मधमस् तथा ।
उत्तमश् चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
अदेशकालसंभाषा निर्जने च परस्त्रिया ।
कटाक्षावेक्षणं हास्यं प्रथमः संग्रहः स्मृतः ॥
प्रेषणं गन्धमाल्यानां धूपभूषणवाससां ।
प्रलोभनं चान्नपानैर् मध्यमः संग्रहः स्मृतः ॥
शय्यासनं विविक्ते तु परस्परम् उपाश्रयः ।
केशाकेशिग्रहैश् चैव ज्ञेय उत्तमसंग्रहः ॥

विविक्ते रहसि । केशाकेशिग्रहैः परस्परकेशग्रहणपूर्वकक्रीडाभिः । कात्यायनो ऽपि संग्रहभेदान् आह ।

दूतोपचारयुक्तश् चेद् अवेलास्थानसंस्थितिः ।
कण्ठकेशाञ्चलग्राहः कर्णनासाकरादिषु ॥
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ।

अञ्चलं वस्त्रप्रान्तम् । तथा ।

परस्त्रियाभिभाषेत तीर्थे ऽरण्ये गृहे ऽपि वा ।
नदीनां चैव संभेदे स संग्रहणम् आप्नुयात् ॥

संभेधः संगमः । तथा ।

उपकारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सहखट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥

उपकारक्रिया ताम्बूलादिदानेनोपकारकरणम् । केलिः परिहासः । तथा च ।

स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥

अदेशः स्तनादिप्रदेशः । नारदो ऽपि ।

पाणौ यां च निगृह्णीयात् वेण्यां वस्त्राञ्चले ऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रूयात् सर्वं संग्रहणं स्मृतम् ॥ इति ।

तथा द्यूतसमाह्वयाख्यस्यापि पदस्य स्वरूपभेदबोधनार्थम् आह स एव ।

अक्षवर्धरशलाकाद्यैः देवनं जिह्मकारितम् ।
पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥

वर्ध्रः चर्ममयपट्टिका । आद्यशब्देन कपार्दिकादयो गृह्यन्ते । अक्षादिभिः पणपूर्वकं देवनं क्रीडनं जिहमकारितं कौटिल्येन कृतं यत् तत् द्यूताख्यम् । तथा वयोभिः कुक्कुटादिभिः पणपूर्वकं देवनं समाह्वयाख्यम् । तद् द्वयं मिलितं द्यूतसमाह्वयाख्यम् एकम् एव पदम् इत्य् अर्थः । वयोग्रहणं प्राण्युपलक्षणार्थम् । अत एव मनुः ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूत उच्यते ।
प्राणिभिः क्रियमाणस् तु स विज्ञेयः समाह्वयः ॥

बृहस्पतिर् अपि ।

अन्योन्यं परिगृहीताः पक्षिमेषवृषादयः ।
प्रहरन्ते कृतपणाः तद् वदन्ति समाह्वयम् ॥ इति ।

प्रकीर्णकस्य लक्षणाभेदौ तु नारदेनोक्तौ ॥

प्रकीर्णके पुनर् ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञाम् आज्ञाप्रतीघातः तत् कर्मकरणं तथा ॥
पुरप्रधानसंभेदः प्रकृतीनां तथैव च ।
पाषण्डिनैगमश्रेणीगणधर्मविपर्ययाः ॥
पितापुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश् च लोप आश्रमिणाम् अपि ॥
वर्णसंकरदोषश् च तद्वृत्त्यनियमस् (?) तथा ।
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् प्रकीर्णकम् ॥ इति ।

नृपेण यद् यत् स्वाज्ञाव्यतिक्रमादौ प्रतिवादित्वम् आस्थाय निर्णेतव्यम्, यच् च ऋणादानादिपूर्वोक्तपदेषु नोक्तम्, तत् सर्वं प्रकीर्णकाख्यं पदम् इत्य् अर्थः । बृहस्पतिः ।

कुसीदनिध्याधेयाख्यं संभूयोत्थानम् एव च ।
भृत्यादानम् अशुश्रूषा भूवादो ऽस्वामिविक्रयः ॥
क्रयविक्रयानुशयः समयातिक्रमस् तथा ।
स्त्रीपुंसंयोगः (?) स्तेयं च दायभागो ऽक्षदेवनम् (?) ॥
एतान्य् अर्थस्मुत्थानि पदानि तु चतुर्दश ।
पुनर् एवं प्रभिन्नानि क्रियाभेदाद् अनेकधा ॥
पारुष्ये द्वे वधश् चैव परस्त्रीसंग्रहस् तथा ।
हिंसोद्भवानि चत्वारि पदान्य् आह बृहस्पतिः ॥
हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक् पृथक् ।
विशेष एषां निर्दिष्टः चतुर्णाम् अप्य् अनुक्रमात् ॥
पदाण्य् अष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस् ते परीक्षकाः ॥

इति स्मृतिचन्द्रिकायाम् अष्टादशपदनिरूपणम्