०१ व्यवहारस्वरूपम्

इदानीं व्यवहारकाण्डम् आरभ्यते । तत्रादौ व्यवहारस्वरूपं निरूप्यते । तत्र बृहस्पतिः -

धर्मप्रधानाः पुरुषाः पूर्वम् आसन्न् अहिंसकाः ।
लोभद्वेषाभिभूतानां व्यवहारह् प्रकीर्तितः॥

अस्यार्थो नारदेन विवृतः -

धर्मैकतानाः पुरुषाः यदासन् सत्यवादिनः ।
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ॥
नष्टे धर्पे (धर्मे?) मनुष्याणां व्यवहारः प्रकीर्तितः ॥ इति

मनुष्याणां ऋणादानादिविषयका विवादा व्यवहारः प्रकीर्तित इत्य् अर्थः। तथा च कात्याय्नः

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥

अयम् अर्थः । “सम्यग् भाषणाहिंसननिमित्तम्” इत्यादिप्रयत्नसाध्ये धर्माख्ये पदार्थे लोभद्वेषादिवशाद् विच्छिन्ने सति यत्र ऋणादानादौ साधनप्राप्त्यर्थं समयधर्मादौ च परधर्मवर्जनार्थं न्यायविस्तरणम् क्रियते, तत्र साध्यमूलो यो मनुष्याणां विवादः स व्यवहार उच्यते इत् । अत एव हारीतः ।

स्वधनस्य यथा प्राप्तिः परधर्मस्य वर्जनम् ।
न्यायेन क्रियते यत्र व्यवहारः स उच्यते ॥

धनापह्नवविवादः पाषण्डादीनां स्वधर्मसमयविवादो ऽपि व्यवहार इत्य् अर्थः । न चैवं चौर्यपारुष्यादिविवादो न व्यवहार इति शङ्कनीयम् । यत आह याज्ञवल्क्यः ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ इति ।

कात्यायनो ऽपि ।

शिष्यं क्रोधेन हन्याच् चेद् आचार्यो लतया विना ।
येनात्यर्थं भवेत् पीडा वादः स्याच् छिष्यतः पितुः ॥

बृहस्तपतिर् अपि ।

प्रयच्छेच् चेद् भृतिं स्वामी भृत्यानां कर्म कुर्वताम् ।
न कुर्वन्ति च भृत्याश् चेत् तत्र वादः प्रवर्तते ॥
हिंसां वा कुरुते कश्चिद् देयं वा न प्रयच्छति ।
द्वे हि स्थाने विवादस्य तयोर् बहुतरा गतिः ॥

उशना अपि ।

कार्यम् उद्दिश्य यत् किंचित् क्वचिद् राज्ञे निवेदयेत् ।
पदं तद् अष्टादशधा विवादानां प्रकीर्तितम् ॥

एवं चाष्टादशविधविषयाणाम् अन्यतमविषयको विवादो व्यवहार इति याज्ञवल्क्यादिवचनानाम् आर्थिको ऽर्थः प्रत्येतव्यः । अत एव नारदः ।

ऋणादानं ह्य् उपनिधिः संभूयोत्थानम् एव च ।
दत्तस्य पुनर् आदानम् अशुस्रूषाभ्युपेत्य च ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीतासंप्रदानं च कृईत्वानुशय एव च ॥
समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।
स्त्रीपुंसयोश् च संबन्धो दायभागो ऽथ साहसम् ॥
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।
द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदः स्मृतः ॥

ऋणादानाद्यष्टादशविषयान्यतमविषयो व्यवहारः स्मृत इत्य् अर्थः । न च वाच्यम् - निक्षेपादिपदान्तरव्यवहारस्मरणाद् “अष्टादशपदः स्मृतः” इत्य् एतद् विरुद्धम् इति । यत आह स एव ।

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ इति

कात्यायनो ऽपि ।

अष्टादशक्रियाभेदाद् भिन्नान्य् अष्टसहस्रशः ॥ इति ।

क्रियाभेदात् साध्यभेदाद् इत्य् अर्थः । अनेन व्यवहारा अप्य् अष्टसहस्रशो भिन्ना इत्य् अर्थाद् उक्तम् । शतम् अष्टोत्तरम् अष्टसहस्रश इत्य् एतयोर् बहुत्वप्रतिपादनपरत्वाद् अविरोधः ।

इति स्मृतिचन्द्रिकायां व्यवहारस्वरूपनिरूपणम्