४० तीर्थश्राद्धम्

अथ तीर्थश्राद्धविषयाणि

तत्र मत्स्यपुराणम् ।

स्नात्वा नदीषु सर्वासु पितॄन् देवांश् च तर्पयेत् ।
तत्र तत्र यथावित्तं कुर्याच् छ्राद्धादिकं तथा ॥
अकाले ऽप्य् अथ वा काले तीर्थश्राद्धे तथा नरैः ।
प्राप्तैर् एव सदा कार्यं कर्तव्यं पितृतर्पणम् ॥
तीर्थे तु ब्राह्मणान् नैव परीक्षेत कथंचन ।
अन्नार्थिनम् अनुप्राप्तं भोजयेन् मनुशासनात् ॥
सक्तुभिः पिण्डदानं स्यात् संयावैः पायसेन वा ।
कर्तव्यम् ऋषिभिर् दृष्टं पिण्याकेनैङ्गुदेन वा ॥
पिण्याकेन तिलानां वा तत्र सद्भिर् नरैः सह ।
श्राद्धं च तत्र कर्तव्यम् अर्घ्यावहनवर्जितम् ॥
श्वध्वाङ्क्षगृधकङ्काद्या घ्नन्ति दृष्टा न ते क्रियाः ॥ इति ।

ऐङ्गुदेन पिण्याकेन इङ्गुदफलनिष्पन्नेन पिण्याकेन । श्वध्वाङ्क्षादयः श्राद्धकर्त्रादिभिर् दृष्टा अपि तीर्थे क्रियमाणाः श्राद्धक्रियाः न घ्नन्तीत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां तीर्थश्राद्धविषयाणि

श्राद्धकाण्डस्य रचना वचनैर् मुनिभिः कृतैः ।
कृता गदाधरप्रीत्यै श्रीमद्याज्ञिकवेदणैः ॥

इति सकलविद्याविशारद-श्रीकेशवादित्यभट्टोपाद्यायसूनु-याज्ञिकदेवणभट्टोपाध्यायसोमयाजिचिरचितायां स्मृतिचन्द्रिकायां श्राद्धकाण्डः समाप्तः ॥

श्रीः