३९ कर्माङ्गश्राद्धविषयान्तरम्

अथ कर्माङ्गश्राद्धविषयाणि

अथ वृद्धिश्राद्धविकृतिभूतकर्माङ्गश्राद्धविषयाणि । तत्र पारस्करः ।

निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिमत् स्मृतम् ॥ इति ।

निषेककालो भार्याया ऋतुस्नानकालाद् आरभ्य षोडशरात्रपर्यन्तः । तत्र पूर्णनक्षत्रान्वितदिने गर्भाधानाख्यकर्माङ्गश्राद्धं कार्यम् । सोमे सोमयागकाले तत्र दीक्षादिदिने तदङ्गश्राद्धं कार्यम् । सोमशब्दो ऽत्र आधानाग्निहोत्रादिकर्मणाम् उपलक्षणार्थः । कर्माङ्गवचनम् अकरणे कर्मवैगुण्यज्ञापनार्थम् । अत एवैतत् कृत्वैव कर्म कर्तव्यम् इति वचोभङ्ग्या शातातपेन दर्शितम् ।

तान् इष्ट्वा तु पितॄन् यज्ञे कर्म वैदिकम् आचरेत् । इति ।

पितॄन् नान्दीमुखसंज्ञिकान् । वैदिकं कर्म गर्भाधानपुंसवनसीमन्तोन्नयनसोमयागाग्निहोत्रादिकम् । एतच् च कर्माङ्गश्राद्धम् असकृत्क्रियमाणाग्निहोत्रादिकर्मणां प्रथमम् एकदैव कर्तव्यम् । यत् आह कात्यायनः ।

असकृद् यानि कर्माणि क्रियेरन् कर्मकारिभिः ।
प्रतियागं न चैताः स्युः मातरः श्राद्धम् एव च ॥ इति ।

एताः “कर्मादिषु च सर्वेषु मातरः सगणाधिपाः पूजनीयाः प्रयत्नेन” इत्य् अनेन या गणाधिपसहिताः मातर उक्ता इत्य् अर्थः । श्राद्धं कर्माङ्गश्राद्धम् । अत एवानन्तरम् उक्तं तेनैव ।

आधाने होमयोश् चैव वैस्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पूर्णमसे तथैव च ॥
सर्वयज्ञेषु यज्ञज्ञाः वदन्त्य् एवं मनीषिणः ।
एकम् एव भवेच् छ्राद्धम् एतेषु न पृथक् पृथक् ॥ इति ।

होमयोर् इत्य् अनेनाधानसमभिव्याहाराद् द्विवचनात् सायंप्रातर् अग्निहोत्रावृत्तौ कर्माङ्गश्राद्धं कर्यम् । यतो ऽनन्तरम् आह ।

नाष्टकासु भवेच् छ्राद्धं न श्राद्धे श्राद्धम् इष्यते । इति ।

अष्टकाश्राद्धविषयाः विशेषधर्मास् तत्तद्गृह्योक्ता द्रष्टव्याः । गोष्ठीश्राद्धशुद्ध्यर्थश्राद्धयात्राश्राद्धपुष्ट्यर्थश्राद्धविषयाणि विशेषवचनानि अस्मिन्न् एव काण्डे श्राद्धभेदनिरूपणप्रकरणे दर्शितान्य् अनुसंधेयानि । सपिण्डीकरणश्राद्धविषयाणि तु विशेषवचनान्य् आशौचकाण्डे दर्शयिष्यामः ॥

इति स्मृतिचन्द्रिकायां कर्माङ्गश्राद्धविषयाणि