३८ आभ्युदयिककर्मनिरूपणम्

अथ आभ्युदयिककर्मनिरूपणम्

अथाभ्युदयिकश्राद्धनिरूपणप्रसङ्गाद् अन्यद् आभ्युदयिकं कर्म निरूप्यते } तत्र चतुर्विंशतिमतम् ।

श्राद्ध आभ्युदये प्राप्ते देवतास्थापनं स्मृतम् ।
जातिधर्मकुलश्रेणीलोकानां वृद्धिकारणम् ॥
तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा ।
इत्य् एता मातरः प्रोक्ताः पितृमातृष्वसाष्टमी ॥
ब्राह्म्याद्याश् च तथा सप्त दुर्गाक्षेत्रगणाधिपान् ।
वृद्ध्यादौ पूजयित्वा तु पश्चान् नान्दीमुखान् पितॄन् ॥
मातृपूवान् पितॄन् पूज्य ततो मातामहान् अपि ।
मातामही ततः केचिद् युग्मा भोज्या द्विजातयः ॥ इति ।

आभ्युदये अभ्युदयनिमित्ते श्राद्धे प्राप्ते कर्तव्यतया प्रस्तुते ततः प्राग् एव मात्रादिपूजनार्थं देवतास्थपनं स्थण्डिलादौ मात्रादिगणाधिपान्तदेवतावाहनं स्मृतम् इति प्रथमार्धस्यार्थः । पितुः पक्षे पितृवर्गे तिस्रः मातृपितामहीप्रपितामह्यः पूज्याः । तथा मातामहे मातामहवर्गे तिस्रः मातामहीमतुःपितामहीमातुःप्रपितामह्यः । “पितृमातृस्वसाष्टमी” इति पितृष्वसा सप्तमी मातृष्वसा अष्टमी पूज्याः इत्य् अष्टौ मनुष्यमातरः प्रोक्ता इति द्वितीयश्लोकस्यार्थः । ब्राह्म्याद्यास् तथा सप्त ब्राह्मी वैष्णवी माहेश्वरी ऐन्द्री वाराही कौमारी चामुण्डा इत्य् एताः सप्त देवमातरः । तथा दुर्गाक्षेत्रगणाधिपान् । दुर्गां क्षेत्राधिपं गणाधिपं च वृद्ध्यादौ वृद्धिश्राद्धात् प्राक् षोडशोपचारैः पूजयित्वा पश्चान् नान्दीमुखान् पितॄन् श्राद्धे पूजयेद् इति तृतीयश्लोकस्यार्थः । शेषं व्यक्तम् । अथ वा वृद्धिश्राद्धात् प्राक् कात्ययनोक्तदेवताः पूज्याः । तास् तु तृतीयश्लोके प्रदर्श्यन्ते ।

कर्मादिषु च सर्वेषु मातरः सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
प्रतिमासु च शुद्धासु लिखिता वा पटादिषु ।
गन्धपुष्पाक्षतैश् चैव नैवेद्यैश् च पृथग्विधैः ॥
(कुल)कुड्यालग्ना वनोद्धारा पञ्चधारा घृतेन तु ।
कारयेत् सप्तधारा वा नातिनीचा न चोच्छ्रिताः ॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यः तदनु श्राद्धदानम् उपक्रमेत् ॥
वसिष्ठोक्तो विधिः कृत्स्नः द्रष्टव्यो ऽत्र निरामिषः ।
गौरी पद्मा शची मेधा सावित्री विजया जया ॥
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।
धृष्टिः पुष्टिस् तथा तुष्टिः आत्मदेवतया सह ॥
आभ्यो ऽर्घ्यं गन्धपुष्पं च धूपदीपं निवेदयेत् ॥ इति ।

कर्मादिषु नान्दीश्राद्धप्रयोजककर्मोपक्रमेषु आयुष्याणि “आ नो भद्राः क्रतवः” इत्यादिनोक्तानि । षड्भ्यः पितृभ्यः पित्रादिभ्यो मातामहादिभ्यश् च मातृश्राद्धपूर्वकं श्राद्धदानम् उपक्रमेत् । वसिष्ठोक्तोप् विधिः वसिष्ठादिस्मृतिकारोक्तविधिः । आत्मदेवता आत्मनो ऽभीष्टदेवता ।

कर्मादिषु च सर्वेषु मातरः सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥

इत्य् अनेनोक्तमात्रादयः पूजनीयाः ।

कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः ।
नामकर्मणि बालानाम् अन्नप्राशनकर्मणि ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥
कर्मण्य् अथाभ्युदयिके माङ्गल्यवति शोभने ।
जन्मन्य् अथोपनयने विवाहे पुत्रकन्ययोः ॥
पितॄन् नान्दीमुखान् नाम तर्पेयेद् विधिपूर्वकम् ॥

इत्यादिवचनेनोक्तनान्दीमुखश्राद्धस्य चानुष्ठानं क्वचिद् विषये तन्त्रेण कार्यम्, न त्व् आवृत्त्या इत्य् अत्राह स एव ।

गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृद् एव भवेच् छ्राद्धम् आदौ न पृथगादिषु ॥

अस्यार्थः - देशान्तरगतस्य चिरकालम् अश्रूयमाणसद्भावस्य मृत इति बुद्ध्या पुत्रादिना कृतप्रेतकार्यस्य कालान्तरे आगतस्य यानि जातकर्मादीनि संस्कारकर्माणि पुनः संभूय क्रियन्ते तथा तस्य कृतप्रायश्चित्तस्य यानि जातकर्मादीनि कर्माणि संभूय क्रियन्ते तथोपनयनात् प्राक् स्वस्वकाले कथंचिद् अकृतचौलपर्यन्तसंस्करस्य यानि कर्माण्य् उपनयनात् पूर्वं संभूय क्रियन्ते तेषु गणशः संभूय क्रियमाणेषु जातकर्मादिसंस्कारेषु मात्रादिपूजाया नान्दीश्राद्धस्य च सकृत् तन्त्रेण प्रथमं क्रियमाणस्य कर्मण आदौ अनुष्ठानं न पृथगादिषु नावृत्त्या सर्वसंस्कारकर्मादिष्व् इति । यत् तु तेनैवोक्तम्,

मातृयागक्रियां पूर्वं कृत्वा शेषं तु मङ्गलम् ।
ऋतुत्रयात् तु कर्तव्यं न चान्यल् लघु मङ्गलम् ॥

इति, तत् पूर्वोक्तव्यतिरिक्तविषये क्रमेण यथाकालक्रियमाणसर्वसंस्कारकर्मणां षण्मासातिक्रमे ऽपि कालात्ययाभावे सति द्रष्टव्यम् ॥

इति स्मृतिचन्द्रिकायां आभ्युदयिककर्मनिरूपणम्