३७ कात्यायनाद्युक्त-वृद्धि-श्राद्ध-प्रयोग-पद्धतिः

अथ कात्यायनाद्युक्त-वृद्धि-श्राद्ध-प्रयोग-पद्धतिः

अथ वृद्धिश्राद्धस्यैव् प्रयोगसौकर्यायै कात्यायनाद्युक्तप्रयोगपद्धतिः लिख्यते । तत्र तावत् कात्यायन आह ।

अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ।
प्रातर् आमन्त्रितान् विप्रान् युग्मान् उभयतस् तथा ॥
उपवेश्य कुशान् दद्याद् ऋजून् एव हि पाणिना ॥ इति ।

पूर्वेद्युर् निमन्त्रितान् विप्रान् उत्तरेद्युः प्रातः पूर्वाह्ने प्रक्षालितपादान् आसनेषूपवेश्य प्रक्रान्तं कर्म करिष्ये इत्यादि पार्वणवत् कुर्यात् । विशेषस् तु वैश्वदैविकार्थं पित्रार्थम् अपि युग्मान् एव ब्राह्मणान् उपवेश्य ऋजून् द्विगुणभङ्गरहितान् युग्मान् समूलान् कुशान् आसनार्थं विप्राणां प्राक्मुकानाम् उदङ्मुखानां वा दक्षिणोरुसमीपे पूर्वकॢप्तासनस्योपरि प्राङ्मुख उदङ्मुखो वा दद्यात् । ततो नान्दीदैवे क्षणः क्रियताम् इत्यादिपूर्वप्रकरणोक्तप्रकारेण दैवे पित्र्ये च पुनर् आमन्त्रणं च कुर्यात् । ततः पार्वणवद् विश्वान् देवान् विप्रद्वये सकृद् आवाह्य मातृपितामहीप्रपितामहीर् आवाहयिष्ये इति मातृवर्गार्थविप्रौ पृष्ट्वा, “उशन्तस् त्वा हवामहे” इति मन्त्रेण विप्रद्वये मातृवर्गं सकृद् आवाह्य नन्दीमुखान् पितॄन् आवाहयिष्ये इति पितृवर्गार्थविप्रौ पृष्ट्वा विप्रद्वये ऽपि पितृवर्गम् आवाहयेत् । नात्र सपत्नीकानाम् आवाहनम् । ततो नान्दीमुखान् मातामहान् सपत्नीकान् आवाहयिष्ये इति मातामहवर्गार्थविप्रौ पृष्ट्वा सपत्नीकं मातामहवर्गं विप्रद्वये सकृद् आवाहयेत् । ततो ऽर्घ्योदकसंस्कारं कुर्यात् । तत्र विशेष आश्वलायनगृह्यपरिशिष्टे ऽभिहितः - “द्वौ दर्भौ पवित्रे पात्राणि चत्वारि ऽशं नो देवीःऽ इत्य् अनुमन्त्रितासु यवान् आवपति “यवो ऽसि सोमदैवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्नः ॥॥॥॥॥।॥ इति दृष्ट्वा नान्दीमुखान् पितॄन् इमान् लोकान् प्रीणयाहि नः स्वाहेति स्वधार्घ्याः” इति । समीपनयनमन्त्रो ऽपि स्वाहार्घ्या इत्य् ऊह्यः । अर्घ्यप्रदाने तु विशेषः कात्यायनेन दर्शितः ।

गोत्रनामभिर् आमन्त्र्य पितृभ्यो ऽर्घ्यं निवेदयेत् ।
नात्रापसव्यकरणं न पित्र्यं तीर्थम् इष्यते ॥
पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ।
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान् ॥
कृत्वार्घ्यं संप्रदातव्यं नैकस्यात्र प्रदीयते ॥ इति ।

ज्येष्ठोत्तरकारान् इत्यादेर् अयम् अर्थः - द्वयोर् द्वयोर् ब्राह्मणयोर् हस्तौ मेलयित्वार्घ्यदानं कार्यं तत्र ज्येष्ठस्य ब्राह्मणस्य हस्ते उत्तरः कार्य इति । “या दिव्या आपः” इत्याद्यर्घ्यदानमन्त्रान्ते विशेष आश्वलायनगृह्यपरिशिष्टे दर्शितः - “विश्वेदेवा इदं वो अर्घ्यं नान्दीमुखाः पितर इति यथालिङ्गम् अर्घ्यदानम्” इति । विश्वेदेवा इदं व इत्य् अत्र सत्यवसुसंज्ञका विश्वेदेवा इति पूर्वप्रकरणोक्तो विशेषो द्रष्टव्यः । एवं यत्र यत्र विशेषां देवानां नामनिर्देशः क्रियते तत्र तत्रायं विशेषो ऽनुसंधेयः । अर्घ्यदानवत् ब्राह्मणयोर् हस्तौ मेलयित्वा न गन्धादिदानं किं तु पार्वणवद् एकैकस्य हस्त एव, अर्घ्यवद् विशेषानभिधानात् । एकैकस्य हस्ते ऽपि द्विर् द्विर् गन्धादिदानं कार्यम्, “गन्धादिदानं द्विर् द्विः” इति गृह्यपरिशिष्टे ऽभिधानात् । अग्नौकरणविशेषस् तेनैवोक्तः - “पाणौ होमो ऽग्नये कव्यवहनाय स्वाहा सोमाय पितृमते स्वाहा” इति । “नित्यं चाग्नौकरणं स्वाहाकारेण होमश् च” इति गृह्यपरिशिष्टे पाठान्तरम् । पूर्ववद् इति वक्तव्ये नित्यम् इति तत्र तत्र परिशिष्टकारादिभिर् उच्यते । ततश् चायम् अर्थः - नित्यं चाग्नौकरणं पूर्ववद् एवाग्नौकरणं इति । पार्वणवद् अग्नौ पाणौ वा करणम् इति । “इदं विष्णुः” इत्य् अङ्गुष्ठग्रहणमन्त्रस्थाने मन्त्रान्तरम् उक्तं तत्रैव - “अतो देवा अवन्तु न इत्य् अङ्गुष्ठग्रहणम्” इति । अपोशनदानानन्तरं जपे विशेषः कात्यायनेन दर्शितः ।

मधु मध्व् इति यस् तत्र त्रिर् जपेच् छ्रेय इच्छता ।
गायत्र्यान्नं तत्र सो ऽत्र मधुमन्त्रविवर्जितः ॥ इति ।

मधुमन्त्रः “मधु वाता” इत्यादिमन्त्रः । भुञ्जानेषु विप्रेषु जप्यमन्त्रविशेषस् तेनैवोक्तः ।

न चाश्नत्सु जपेद् अत्र कदाचित् पितृसंहिताम् ।
अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥ इति ।

गृह्यपरिशिष्टे - “पावमानीः शंवतीर् ऐन्द्रीर् अप्रतिरथं च श्रावयेत्” इति । पावमानीः “स्वादिष्ठया” इत्य् एवमाद्याः । शंवतीः “शं न इन्द्राग्नी भवताम् अवोभिः” इत्याद्याः । ऐन्द्रीः “इन्द्र त्वा वृषभं वयम्” इत्याद्याः । अप्रतिरथम् “आशुः शिशानः” इति सूक्तम् । “मधु वाताः” इत्यृचःस्थाने “उपास्मै गायता नरः” इति पञ्च मधुमतीश् च श्रावयेत् । “अक्षन्न् अमी मदन्त इति षष्ठीं” इति गृहपरिशिष्टे पाठान्तरम् । तृप्तिप्रश्नादौ विसेषः कात्यायनेन दर्शितः ।

संपन्नम् इति तृप्ताःस्थप्रश्नस्थाने विधीयते ।
सुसंपन्नम् इति प्रोक्ते शेषम् अन्नं निवेदयेत् ॥
यस् तत्र विकिरो ऽन्नस्य तिलवान् यवमांस् तथा।
उच्छिष्टसंनिधौ सो ऽत्र तृप्तेषु विपरीतकः ॥ इति ।

तत्र पार्वणे तृप्तेषु विप्रेषु उच्छिष्तसंनिधौ यो ऽन्नादेः विकिरः तृप्तिप्रश्न उत्तराभ्यां प्रागनुष्ठेयतया तदीयगृह्यसूत्रे उक्तः, सो ऽत्र वृद्धिश्राद्धे विपरीतकः तृप्तिप्रश्न उत्तराभ्याम् ऊर्ध्वम् अनुष्ठेय इत्य् अर्थः । पिण्डदाने ऽपि विशेषस् तेनैव दर्शितः ।

प्रागग्रेषु तु दर्भेषु आद्यम् आमन्त्र्य पूर्ववत् ।
अपः क्षिपेन् मूलदेशे ऽवनेनिङ्क्ष्वेति निस्तिलाः ॥
द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस् तु एतेषाम् एव वामतः ॥
सर्वस्वाद् अन्नम् उद्धृत्य व्यञ्जनैः सूपपायसैः ।
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस् ततः ॥
अवनेजनवत् पिण्डान् दत्वा बिल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनर् अप्य् अवनेजयेत् ॥
उत्तरोत्तरदानेन पिण्डानाम् उत्तरोत्तरः ।
भवेद् अधश् च करणाद् अधरः श्राद्धकर्मसु ॥
तस्माच् छ्राद्धेषु सर्वेषु वृद्धिमत्स्व् इतरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तांश् च निर्वपेत् ॥
गन्धादि निर्वपेत् तूष्णीं ततश् चाचमयेद् द्विजान् ॥ इति ।

मातामहप्रभृतींस् तु एतेषाम् एव वामत इत्य् अस्यायम् अर्थः । एतेषां मातृवर्गार्थम् अवनेजनस्थानानाम् उत्तरतः कृतपितृवर्गार्थावनेजनस्थानाम् उत्तरतः मातामहप्रभृतीन् अवनेजयेद् इत्य् अर्थः । एतद् उक्तं भवति । पिण्डस्थाने संस्तीर्णेषु प्रागग्रेषु दर्भेषु मूलमध्याग्रदेशेषु प्रथमं मातृवर्गपिण्डदानार्थम् अपः क्षिपेत् । तत उत्तरतः पितृवर्गपिण्डदानार्थम्, तत उत्तरतो मातामहवर्गार्थम् एवम् अपः क्षिपेद् इति । पिण्डान् दत्वेत्य् अत्र मातृभ्यः पितृभ्यो मातामहेभ्यश् चेति शेषः । ईषत्सक्तान् परस्परम् ईषत्स्पृष्टान् मात्रादिषु पित्रादिषु च प्रत्येकं द्वौ द्वौ पिण्डौ देयौ । तत्र प्रथमः पिण्डः समन्त्रकनामगोत्रेण देयः । द्वितीयस् तूष्णीम् इति । शेषः प्राचीनप्रकरणोक्तो ऽनुसंधेयः । पिण्डार्चनानन्तरं कर्तव्यविशेषस् तस्मिन्न् एव दर्शितः ।

तद्वद् द्विर् भूमिम् आसिञ्चेत् सुष्ठुप्रोक्षितम् अस्त्व् इति ।
शिवा आपस् सन्त्व् इति च युगमान् एवोदकेन हि ॥
सौमनस्यम् अस्त्व् इति च पुष्पदानम् अनन्तरम् ।
अक्षतं चारिष्टं चास्त्व् इत्य् अक्षतान् प्रतिपादयेत् ॥ इति ।

स्वस्तिवाचने ऽपि विशेषस् तेनैव दर्शितः - “युग्मान् एव स्वस्ति वाच्यम्” इति । अक्षय्ये स्वधावचने च विशेषो नान्दीमुखाः पितरः प्रीयन्ताम् इति । अक्षय्यस्थाने नन्दीमुखान् पितॄन् वाचयिष्य इति पृच्छति । नन्दीमुखाः पितरः पितामहाः प्रपितामहाश् च प्रीयन्ताम् इति वचनेन प्राचीनप्रकरणोक्तम् अनुसंधेयम् । शेषं पार्वणवद् एव । पार्वणं च द्विविधं विस्तृतपर्वणम् अविस्तृतपार्वणं चेति । तत्राविस्तृतपर्वणं संकल्पविधानेन क्रियमाणम् । पिण्डनिर्वापणादिदेसिकवचनेन द्विविधपर्चणधर्मातिदेशाद् विस्तृतपार्वणधर्मानुष्ठानासंभवे संकल्पविधानपर्वणधर्मकम् अपि वृद्धिश्राद्धाद्यनुष्ठेयम् इत्य् अवगन्तवयम् ॥

इति स्मृतिचन्द्रिकायां कात्यायनाद्युक्तवृद्धिश्राद्धप्रयोगविधिः