३६ पार्वण-श्राद्ध-विकृति-भूत-श्राद्धेषु नित्यादि-श्राद्धविषयाः

अथ पार्वण-श्राद्ध-विकृति-भूत-श्राद्धेषु नित्यादि-श्राद्धविषयाणि

अथ श्राद्धभेदप्रकरणोक्तपार्वणविकृतिभूतनित्यश्राद्धविषयाणि कानिचिद् वचनानि लिख्यन्ते । तत्र पारस्करः ।

अहन्य् अहनि यच् छ्राद्धं तन् नित्यम् इति कीर्तितम् ।
वैश्वदेवविहीनं तु अशक्ताव् उदकेन च ॥

वैश्वदेवविहीनं तु पार्वणधर्मातिदेशतः प्राप्तस्य वैश्वदैविकस्य कर्मणोनुष्ठानेन (?) रहितम् । अनेन नित्यश्राद्धं पार्वणवन् न कार्यम् इति सूचितम् । अहन्य् अहनीत्य् एतद् अत्यन्तश्रद्धालुविषयं सुसमृद्धविषयं वा । यथाह देवलः ।

एतेन विधिना श्राद्धं कुर्यात् संवत्सरं सकृत् ।
त्रिश् चतुर् वा यथाश्रद्धं मासे मासे दिने दिने ॥ इति ।

एतेन विधिना पार्वणविधानेन प्रतिसंवत्सरम् एकवारं विशिष्टे ऽह्नि, प्रतिसंवत्सरं त्रिवारं वा त्रिषु मसेषु विशिष्टे ऽह्नि, प्रतिसंवत्सरं चतुर्वारं चतुर्षु मासेषु विशिष्टे ऽह्नि, मासे मासे वा विशिष्टे ऽह्नि, दिने दिने वा यथाश्रद्धं श्रद्धानुसारेण श्राद्धं नित्यश्राद्धं कुर्याद् इत्य् अर्थः । यथाश्रद्धम् इत्य् एतत् यथासामर्थम् इत्य् अस्यापि प्रदर्शनार्थम् । शक्त्यपेक्षयापि व्यवस्थाया उचितत्वात् । अस्य च नित्यश्राद्धस्य् कल्पः अस्माभिर् आह्निके सम्यक्प्रपञ्चित इति नेह प्रपञ्च्यते ।

नैमित्तिकं तु श्राद्धम् एकोद्दिष्टात्मकं पार्वणविकृतिभूतं आशौचकाण्डे ऽस्माभिर् वक्ष्यते । काम्यश्राद्धं तु शातातपेन निरूपितम् ।
कामाय तु हितं काम्यम् अभिप्रेतार्थसिद्धये ।
पार्वणेन विधानेन तद् अप्य् उक्तं यथाक्रमम् ॥ इति ।

तद् अपि काम्यश्राद्धम् अपि पार्वणविधानेन प्रतिपदोक्तधर्मान्तरसहितं विप्रनिमन्त्रणाद्युक्तक्रमानतिक्रमेण कार्यम् इति मुनिभिर् उक्तम् इत्य् अर्थः । तेन काम्यश्राद्धम् “काम्ये तु धुनिरोचनौ” इति वचनेन प्रतिपदोक्तधुनिरोचनसंज्ञिकविश्वदेवान्वितं कर्यम् ।

वृद्धिश्राद्धम् अपि प्रतिपदोक्तधर्मान्तरसहितं पार्वणवत् कार्यम् । तथा च विष्णुधर्मोत्तरम्,
वृद्धौ श्राद्धं नरः कुर्वन् नित्यं वृद्धिम् अवाप्नुयात् ।

इत्य् उक्त्वा,

वृद्धौ समर्चयेद् विद्वान् नित्यं नान्दीमुखान् पितॄन् ।
संपादितो विशेषस् तु शेषं पार्वणवद् भवेत् ॥

इत्य् उक्तम् । वृद्धौ पुत्रजन्मविवाहाद्यभिवृद्धिरूपनिमित्ते प्रस्तुत इत्य् अर्थः,

पुत्रजन्मविवाहादौ वृद्धिश्राद्धम् उदाहृतम् ।

इति वसिष्ठस्मरणात् । नरो ऽत्र पिता विवक्षितः । अत एव विष्णुपुराणे ।

जातस्य जातकर्मादिक्रियाकाण्डम् असेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥

कात्यायनो ऽपि ।

स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु ।
पिण्डान् ओद्वहनात् तेषां तस्याभावे तु तत् क्रमात् ॥

अस्यार्थः - सुतसंस्कारकर्मसु जातकर्मादिषु तेषां सुतानां ओद्वहनात् विवाहपर्यन्तेषु पिता स्वपितृभ्यः पिण्डान् दद्यात् । वृद्धिश्राद्धं कुर्याद् इत्य् अर्थः । तस्याभावे तु पितुर् अभावे तु तत्कर्मात् तेषु जातकर्मादिकर्मसु,

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।

इत्यादिवचनात् यो गम्यमानः कर्तृक्रमः तेन क्रमेण ज्येष्टभ्रात्रादिः स्वपितृभ्यो दद्याद् इति । समावर्तनस्यापि विवाहात् प्राचीनसुतसंस्कारत्वाज् जीवपितृकसमावर्तने पिता स्वपितृभ्यो दद्यात् । अजीवपितृकस् तु पूर्वसंस्कृतभ्रात्रसंभवे स्वयम् एव पितृभ्यो दद्यात् उपनयनेन कर्माधिकारस्य जातत्वात् । विवाहे ऽप्य् एवम् एव द्रष्टव्यम् ।

वृद्धौ समर्चयेद् विद्वान् नित्यं नान्दीमुखान् पितॄन् ।

इत्यादिविष्णुधर्मोत्तरवचनशेषस्यायम् अर्थः - वृद्धौ वृद्धिश्राद्धे नान्दीमुखसंज्ञिकान् पितॄन् समर्चयेत् । संपादितो विशेषस् तु नान्दीमुखसंज्ञारूपो वैशेषिको धर्मः संपादितः प्रतिपदितः । शेषं पार्वणवद् भवेत् । प्रतिपादितनान्दीमुखसंज्ञारूपवैशेषिकधर्माद् अन्यद् धर्मजातं पार्वणवद् इहाप्य् अवगन्तव्यम् इति ।

न चैवं पुरूरवार्द्रवसंज्ञिकरूपो धर्मः पार्वणवत् विश्वेषां देवानाम् अत्र स्याद् इति वाच्यं विष्णुधर्मोत्तरे नान्दीमुखसंज्ञारूपवैशेषिकधर्माभिधानस्य स्मृत्यन्तरोक्तवैशेषिकधर्मप्रदर्शनार्थत्वात् । तस्मात् “सत्यो नान्दीमुखो वसुः” इत्यदयः स्मृत्यन्त्रोक्ताः विशेषाः वृद्धिश्राद्धे ग्राह्याः । तत्र तावत् शातातपेन केचन विसेषा उक्ताः ।
मातृश्राद्धम् तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयम् स्मृतम् ॥ इति ।

मातामहश्राद्धं पार्वणवत् सपत्नीकम् एव । न तु मात्रादिश्राद्धवन् मातामहादिश्राद्धं पृथक् कार्यम् इति वक्तुं श्राद्धत्रयं स्मृतम् इत्य् उक्तम् । न तु मातृश्राद्धम् इत्य् अनेन मातुर् एव श्राद्धं पृथग्विहितं न पितामहीप्रपितामह्योर् अपि वाच्यम् । मातृशब्दस्यात्र लक्षणया मात्रादिपरत्वात् । अत एवोक्तं तेनैव ।

पित्रादित्रयपत्नीनां भोज्या मतॄः प्रति द्विजाः ।
स्त्रीणाम् एव तु तद् यस्मान् मतृश्राद्धम् इहोच्यते ॥ इति ।

मातॄः प्रति द्विजाः भोज्याः । मातृपितमहीप्रपितामहीर् उद्दिश्य भोज्याः द्विजा इत्य् अर्थः । पित्रादित्रयपत्नीनां स्त्रीणां इह पृथग् एवैतच् छ्राद्धं यस्मात् तस्मान् मातृश्राद्धम् इत्य् उच्यत इत्य् अन्वयः । उक्तश्राद्धत्रयस्य कालभेदम् आह गर्ग्यः ।

मातृश्राद्धं तु पूर्वेद्युः कर्माह्न्य् एव पैतृकम् ।
मातामह्यं चोत्तरेद्युर् वृद्धौ श्राद्धत्रयं स्मृतम् ॥

एवं दिनत्रयश्राद्धपक्षो यदा दुष्करः तदा त्व् आह वृद्धशातातपः ।

पृथग्दिने त्व् अशक्तश् चेद् एकस्मिन् पूर्ववासरे ।
श्राद्धत्रयं तु कुर्वीत वैशदेवं तु तान्त्रिकम् ॥ इति ।

फलदेशकालद्रव्यदेवतासाधारण्याद् अत्र वैश्वदैविकं तन्त्रेणैव कर्यम् इत्य् अर्थः । ननु कथम् अत्र कालसाधारण्यम्,

पूर्वाह्णे मातृकं श्राद्धं मध्याह्ने पैतृकं तथा।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥

इति शातातपेन मातृश्राद्धादिषु पूर्वाह्णादिकालभेदविधानात् । अतः कथम् अत्र तन्त्रता । सत्यं शातातपवचनासुसारेणानुष्ठाने कालभेदान् न तन्त्रता । किं तु

पूर्वाह्णे दैविकं कर्यं अपराह्ने तु पैतृकम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर् वृद्धिनिमित्तकम् ॥

इति प्राचेतसवचानौसरेणैकदिने प्रातःकाले यदा श्राद्धत्रयानुष्टानं तदैव वैश्वदैविकं तन्त्रं स्यात् कालैक्यात् । प्रतःशब्दो ऽत्र न सङ्गवाख्यकालनिवृत्तिपरः,

पूर्वाह्णे वै भवेद् वृद्धिर् विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कलिकं बुधः ॥

इत्य् अत्रिणाभिधानात् । लघुपक्षत्वाद् वैश्वदैविकतन्त्रपक्षेणैव संप्रत्य् अनुष्ठानम् । वृद्धशातातपो ऽपि विशेषान् आह ।

त्रिष्व् अप्य् एतेषु युग्मांस् तु ब्राह्मणान् नियतः शुचिः ।
प्रदक्षिणं तु सव्येन भोजयेद् देवपूर्वकम् ॥ इति ।

अयम् अर्थः - द्वौ दैवे ब्राह्मणौ । द्वौ मातृश्राद्धे । द्वौ पितृश्राद्धे । द्वौ सपत्नीकमातमहश्राद्धे एवम् अष्टावरान् ब्राह्मणान् निमन्त्रणादि विसर्जनान्तं प्रदक्षिणं यथा भवति तथा कुर्वन् सव्येन सव्यांसगतेनैव यज्ञसूत्रेणोत्तरवाससा चान्वितः श्राद्धकर्ता भोजयेद् इति । अत्र विष्णुपुराणोक्तविशेषः ।

युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर । इति ।

प्रचेता अपि विशेषम् आह ।

न जपत् पैतृकं जप्यं न मांसं तत्र दापयेत् ।
प्राङ्मुखो देवतीर्थेन क्षिप्रं देशविमार्जनम् ॥ इति ।

पैतृकं पितृलिङ्गकं जप्यं भोजनसमयादौ जप्यत्वेन विहितम् अत्र न प्रयोक्तव्यं जपस्यैवात्र निषेधात् । पितृलिङ्गो ऽपि करणमन्त्रः प्रयोक्तव्य एव । अत एव स्मृत्यन्तरम् ।

पितृलिङ्गेन मन्त्रेण यत् कर्म मुनिभिः स्मृतम् ।
तेनैव तद् विधातव्यम् अमन्त्रम् अकृतं यतः ॥ इति ।

प्राङ्मुखः कर्ता देवतीर्थेन पैतृकम् अप् कर्मजातं कुर्याद् इति तृतीयपादस्यार्थः । क्षिप्रं देशादिमार्जनं भुक्तवत्सु द्विजेषु तानि भोजनस्थानानि संमार्जनं कर्तुं कर्तुः प्राङ्मुखत्वं भोक्तृषूदङ्मुखेषु सत्सु कथंचिद् विप्राभिमुख्यसंभवाद् युज्यते । न तु प्राङ्मुखेषु भोक्तृषु । तेनोदङ्मुखान् ब्राह्मणान् भोजयेद् इति पक्षो ऽस्माद् वचनाद् गम्यत इत्य् अवगन्तव्यम् । विष्णुपुराणोक्ते तु प्राङ्मुखान् ब्राह्मणान् भोजयेद् इति पक्षे कथंचिद् विप्राभिमुख्यं कर्तुर् उदङ्मुखत्वे सति युज्यते न तु प्राङ्मुखत्व इति कर्तुर् उदङ्मुखत्वपक्षस् तद्वचनाद् गम्यत इति बोद्धव्यम् । एवं च यदा प्राङ्मुखा विप्रास् तदा कर्तोदङ्मुख आवहनादिकं कुर्यात् । यदा तु विप्रा उदङ्मुखाः तदा कर्ता प्राङ्मुख इत्य् अवगन्तव्यम् । अत एव आश्वलायनगृह्यपरिशिष्टम् - “आभ्युदयिके युग्माः ब्राह्मणाः । अमूला दर्भाः । प्राङ्मुखेभ्य उदङ्मुखो दद्यात् । उदमुखेभ्यः प्राङ्मुखः । द्वौ दर्भौ पवित्रे” इति । भविष्यत्पुराणे ऽपि विशेष उक्तः ।

मधुरं भोजनं दद्यान् न चाम्लं परिवेषयेत् ।
रक्तपुष्पं तिलांश् चैव ह्य् अपसव्यं च वर्जयेत् ॥

पार्वणे जलोद्भवानि रकपुष्पाणि विहितानि तदितररक्तपुष्पाणि प्रतिषिद्धानि इह् जलोद्भवरक्तपुष्पस्यापि प्रषेधार्थं रक्तपुष्पग्रहणम् । केन तर्हि तिलकार्यं कर्तव्यम् इत्य् अपेक्षिते कात्यायनः - “यवैस् तिलार्थः” इति ।

तिलार्थस् तिलकार्यं यवैः कर्तव्यम् इत्य् अर्थः । एवं च “तिलो ऽसि सोमदेवत्यः” इति मन्त्रे यवोसीत्य् ऊहः कार्य इत्य् अह स एव “तत्र यवो ऽसीत्य् ऊहः” इति । तत्र तथासति तिलकार्यार्थं यवोपादाने सतीय् अर्थः । अन्नत्यागादौ स्वधाशब्दो न प्रयोक्तव्य इत्य् आह स एव - “न स्वधां प्रयुञ्जीत” इति । एवं च “स्वधा नमः” इत्य् अत्र “स्वाहार्घ्याः” इत्य् एवं प्रयोगः कर्तव्यः,
सदा परिचरेद् भक्त्या पितॄन् अप्य् अत्र देववत् ।

इति तेनैवाभिधानात् । देववद् इत्य् अभिधानात्, सव्यजानुप्रपतनं पित्र्येषूपचारेषु न कर्तव्यम् । तथा चोक्तं तेनैव ।

निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । इति ।

एवं च यत्र यत्र पार्वणश्राद्धे दैविकप्रचाराद् अन्यथा पैतृकप्रचारः स्मृतः तत्र तत्र वृद्धिश्राद्धे दैविकप्रचार आश्रयणीयः । मत्स्यपुराणे विशेष उक्तः - “दद्याद् अर्घ्यं द्वयोर् द्वयोः” इति । अर्घ्यग्रहणं पाद्यादेर् अपि प्रदर्शनार्थम् । अत् एवानन्तरम् उक्तं तत्रैव ।

युग्मा द्विजातयः पूज्या नान्दीशब्दानुपूर्वकम् । इति ।

एवं चैवं प्रयोगः - नान्दीदैवे क्षणः क्रियताम् इति दैवे द्वयोर् द्वयोर् युगपद् एव निमन्त्रणं कृत्वा ॐ तथेति द्वाभ्यां विप्राभ्यां युगपद् उक्ते प्राप्नुतां भवन्ताव् इति कर्ता ब्रूयात् । विप्रौ तु प्राप्नवावेति युगपद् एव प्रतिवचनं ब्रूयाताम् । एवम् एव पित्र्यनिमन्त्रणं नान्दीमुखश्राद्धे क्षणः क्रियताम् इति तु विशेषः । आवाहनादौ तु प्रयोगप्रकारम् आह कात्यायनः - “ऽनान्दीमुखान् पितॄन् आवहयिष्येऽ इति पृच्छति, ऽअस्तु स्वधाऽ इत्य् अस्य स्थाने तु ऽनान्दीमुखाः पितरः पितामहाः प्रपितामहाः मातामहाश् च प्रीयन्ताम्ऽ इति प्रतिवचनम् । ऽस्वधां वाचयिष्येऽ इत्य् अस्य स्थाने ऽनान्दीमुखान् पितॄन् वाचयिष्येऽ इति पृच्छति, नान्दीमुखाः पितर इत्य् आदि प्रीयन्ताम् इत्यन्तं प्रतिवचनम्” इति । विप्रा ब्रूयुर् इत्य् अर्थः । तृप्ताः स्थेति प्रश्नस्थाने संपन्नम् इति पृच्छेद् इत्य् आह स एव - “संपन्नम् इति तृप्तिप्रश्ने” इति । पिण्डद्रव्ये तु विशेषम् आह स एव - “दधिबदराक्षतमिश्राः पिण्डाः” इति । कार्या इति शेषः । अत एव वृद्धवसिष्ठः ।

तृप्तिप्रश्ने तु संपन्नं दैवे रुचितम् इत्य् अपि ।
दधिकर्कन्धुसंमिश्राः पिण्डाः कार्या यथाक्रमम् ॥ इति ।

कर्कन्धूः बदरीफलम् । पिण्डदाने विसेषम् आह स एव ।

प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु च ।
दत्वा पिण्डाण् न कुर्वीत पिण्डपात्रम् अधोमुखम् ॥ इति ।

प्राक्कूलेषु प्रागग्रेषु । पिण्डदानम् अत्र नोच्छिष्तसमीपे । किं तु भोजनशालाया बहिः कार्य्म्,

प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धौ नाम्ना स बाह्यतः ।

इति वृद्धशातातपस्मरणात्, “बहिस् तु प्राक्कूलेषु च दध्यक्षतकर्कन्धूमिश्रान् पिण्डान् निधापयेत्” इति प्रचेतसाभिधानाच् च । चतुर्विंशतिमते ऽपि विशेष उक्तः ।

एकं नाम्ना परं तूष्णीं दद्यात् पिण्डान् पृथक् पृथक् ॥ इति ।

पृथक् पृथग् एकैकस्मिन् द्वौ द्वौ पिण्डौ दद्यात् । तत्र प्रथमपिण्डं नाम्ना गोत्रमन्त्रसहितेन दद्यात् । द्वितीयं तूष्णीं दद्याद् इत्य् अर्थः । भविष्यपुराणे तु पिण्डपानम् अत्र वैकल्पिकम् इत्य् उक्तम् ।

पिण्डनिर्वपणं कुर्यान् न वा कुर्यान् नराधिप ।
वृद्धिश्राद्धे महाबाहो कुलधर्मान् अवेक्ष्य तु ॥ इति ।

कुलधर्मान् अवेक्ष्येत्य् अभिधानात्, येषां कुले पिण्डदानादिविप्रविसर्जनान्तस्य कर्मकलापस्य अननुष्ठानं तेषां विप्रभोजनान्तम् एव वृद्धिश्राद्धं कार्यम् । विप्रविसर्जनान्तपक्षे ऽपि पितृभ्यो वरयाचनमन्त्रात् “दातारः” इत्यादेः पूर्वं मातृभ्यो वरयाचनमन्त्रो ऽत्र प्रयोज्यः । एतद् अपि तत्रैवोक्तम् ।

माता पितामही चैव तथैव प्रपितामही ।
एता भवन्तु मे प्रीताः प्रयच्छन्तु च मङ्गलम् ॥ इति ।

इति स्मृतिचन्द्रिकायां पार्वणश्राद्धविकृतिभूतश्राद्धेषु नित्यादिश्राद्धविषयाणि