३५ मृताहश्राद्धविधिः

अथ मृताहश्राद्धविधिः

एवं प्रतिमासं कर्तव्यं पार्वणश्राद्धम् उक्तम् । अथ प्रतिसंवत्सरं कर्तव्यं सांवत्सरिकश्राद्धम् उच्यते ।

अत्र लोकाक्षिः ।

श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृकः स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दम् एव च ॥

स्वयंग्रहणम् आदरार्थं न पुनः पुत्रशिष्यर्त्विगादिनिवृत्त्यर्थम्, यजमानस्य पितः असाव् एतत् ते तत इत्य् अन्यकर्तृकपिण्डनिर्वपणदर्शनात् । असाव् एतत् ते तत इति मन्त्रेण यजमानस्य पित्रे ऋत्विगादिः पिण्डान् दद्याद् इति । तत्रामुकगोत्रामुकशर्मन्न् एतत् ते तत इति मन्त्रम् उक्त्वामुकगोत्रायामुकशर्मणे यजमानस्य पित्रे असाव् एतत् ते, इत्य् अयं पिण्डो न यजमानयजमानस्य । स्मृत्यन्तरे यजमानस्येत्य् उक्त्या बर्हिषि पिण्डस्थापनम् इति विशेषो ऽवगन्तव्यः । एतच् चान्यकर्तृकत्वं यजमानस्यासामर्थ्ये गुरुतरकार्यान्तरव्यग्रत्वेन कालातिपत्तिविषये वा द्रष्टव्यम् । प्रत्यब्दं श्राद्धं कथं कर्तव्यम् इत्य् अपेक्षिते जातूकर्णः ।

पितुः पितृगणस्थस्य कुर्यात् पार्वणवत् सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर् ज्ञेयः सनातनः ॥

पितृगणस्थः सपिण्डितः तस्य प्रत्यब्दं प्रतिमासं च पार्वणवद् आब्दिकं मासिकं च श्राद्धं सुतो मृताहे कुर्याद् इत्य् अर्थः । एतद् उक्तं भवति - यथा अमावास्याश्राद्धे अर्घ्यदानादौ पितृपितामहप्रपितामहानां त्रयाणाम् उद्देशः तथा पितुर् आब्दिकश्राद्धे ऽपि त्रयाणाम् उद्देशः कार्यः । इति ।

दर्शवत् स्यात् त्रयोद्देशः सपिण्डीकरणे कृते । इति ।

प्रतिमासं चेति तावत् । “तान्य् एव तु पुनः कुर्यात्” इति वचनात् सपिण्डीकरणाद् ऊर्ध्वम् अपि प्रथमसंवत्सरे क्रियमाणानुमासिकेषु पार्वणवत् त्रिदेवताकं कुर्याद् इति विधानार्थम् उक्तम् इति मन्तव्यम् । न च वाच्यम्,

पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।

इति वचनात्, पितृमृताहे (?) मातामहादीनाम् अपि श्राद्धं कार्यम् इति । यद् आह पारस्करः ।

पितुर् गतस्य देवत्वम् औरसस्य त्रिपूरुषम् । इति ।

देवत्वं गतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य । त्रिपुरुषग्रहणं षट्पुरुषनिवृत्त्यर्थम् । तेन मृताहे मातमहश्राद्धं न कार्यम् । कात्यायनो ऽपि ।

कर्षूसमन्वितं मुक्त्वा तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकम् अशेषेषु पिण्डाः स्युः षड् इति स्थितिः ॥ इति ।

कर्षूसमन्वितं सपिण्डीकरणम् । अनेनार्थात् कर्षूसमन्वितादिषि मातामहश्राद्धं न विद्यत इत्य् उक्तम् । संग्रहकारस् तु पितृमृताहे मातामहादिश्राद्धं न कार्यम् इति न्यायेनैवोपपादयति ।

याज्ञवल्क्येन कालस् तु अमावास्यादिनोदितः ।
अविशेषेण पित्र्यस्य तथा मातामहस्य च ॥
युगपच् च स विज्ञेयो वचनाद् वक्ष्यमाणकात् ।
कालभेदेन तन्त्रं स्याद् देशभेदेन चैव हि ॥
तस्मात् तन्त्रविधानात् तु यौगपद्यं प्रतीयते ।
अमावास्यादिकालेषु तद् ज्ञेयं न मृते ऽहनि ॥
अमावास्यादिकालेषु कालैकत्वात् सहक्रिया ।
मृताहनि तु तद्भेदान् न युज्येत सहक्रिया ॥ इति ।

प्रथमश्लोकस्यायम् अर्थः - अमावास्यादिना

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।

इत्यादिवचनेन श्राद्धकालः अविशेषेण सामान्येन पित्र्यस्य पितृश्राद्धस्य मातामहसंबन्धिश्राद्धस्य च याज्ञवल्क्येनोदित इति । युगपच् च स विज्ञेय इति पादस्यायम् अर्थः - स याज्ञवल्क्येनोदितः कालः पिण्डपितृयज्ञदर्शश्राद्धयोर् इव न भागक्रमेण । किं तु पितृश्राद्धमातामहश्राद्धयोर् युगपद् (?) एकदा भागक्रमम् अन्तरेणैव ज्ञेय इति । ननु कालविधायके पूर्वोक्तवचने युगपदादिपदाभावात् कथम् एवम् अवगतिर् इत्य् आशङ्क्योक्तम् “वचनाद् वक्ष्यमाणकात्” इति । अस्यायम् अर्थः - यद्य् अपि न कालविधायकात् पूर्वोक्तवचनाद् एवम् अवगतिः तथापि,

मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदैविकम् ।

इत्य् अस्मिन्न् एव श्राद्धप्रकरणे वक्ष्यमाणाद् वचनाद् एवम् अवगतिर् भविष्यतीति । नन्व् अस्माद् अपि वचनात् कथं यौगपद्यावगतिर् इत्य् आशङ्क्य कालभेदेनेत्यादिना समर्थयते स्पष्टार्थो ऽयं श्लोक इति । एवं च यत्र पैतृकस्य मातामहश्राद्धस्य चामावास्यादिकाले यौगपद्यं प्रतीतं तत्रैवनयोः समानतन्त्रत्वं न पुनर् मृताह इत्य् आह -

अमावास्यादिकालेषु तद् ज्ञेयं न मृते ऽहनि । इति ।

मृते ऽहनि यौगपद्यस्याप्रतीतेर् इत्य् अभिप्रायः । कथं पुनर् यौगपद्यस्याप्रतीतिर् मृताह इत्य् आशङ्क्याह - अमावास्यादिकालेष्व् इत्यादि । तस्यायम् अर्थः - अमावास्यादिकालेषु पैतृकमातामहश्राद्धयोर् अविशेषेण प्राप्तयोः कालैकत्वाद् एकस्मिन्न् एव कालभगे कर्तव्यत्वावगमात् समानतन्त्रता युज्यते । मृताहे तु प्रतिपुरुषम् आयुःप्रमाणभेदात् पितृमातामहयोर् भिन्नकालत्वान् मातामहश्राद्धस्य पितृमृताहो न काल इति, तद्भागरूपकालैक्यस्य दूरोत्सारितत्वात् तन्निबन्धेनानयोः समानतन्त्रतात्यन्तं न युज्यत इति । अनेनैव न्यायेन मात्रादिश्राद्धस्यापि पितृमृताहो न काल इति, तत्र तस्य प्राप्त्यभावात् । पितृमृताहे केवलपितृपितामहप्रपितामहानाम् एव देवतात्वम्, न पुनः सपत्नीकानाम् इति मन्तव्यम् । यद्य् अप्य् अनेनैव न्यायेन पितृमृताहः पितामहश्राद्दस्यापि न कालः, मातृमृताहश् च पितामह्यादिश्राद्धस्य न कालः, तथापि पार्वणवद् इति वचनात् पितामहप्रपितामहयोर् अपि पितृमृताहे, पितामहीप्रपितामह्योर् अपि मातृमृताहे देवतात्वं न तु न्यायत इति सर्वम् अनवद्यम् । यदा पितुः सांवत्सरिकश्राद्धकालः, मातुः सांवत्सरिकश्राद्धकालश् च दैवद् एको जातः तदापि न सपत्नीकं पितृसांवत्सरिकश्राद्धम् । किं तु मातापित्रोर् मरणपौर्वापर्यानुसारिक्रमेण तयोः सांवत्सरिकश्राद्धद्वयं विप्रनिमन्त्रणादितद्विसर्जनान्तं पृथग् एव कार्यम् । यदा तु मातापित्रोर् युगपन्मरणे पौर्वापर्यम् अज्ञातम्, तदा पूर्वं पितुः सांवत्सरिकं कृत्वा पश्चान् मातुः साम्वत्सरिकश्राद्धं कार्यं पितुर् मुख्यत्वात् । एवंभूतविषये भ्रात्रादिसांवत्सरिकश्राद्धदिनैक्ये श्राद्धम् अनेकं ज्येष्ठादिक्रमेण पृथग् एव कार्यम् । यत् तु प्रचेतसोक्तम्,

नैकः श्राद्धद्वयं कुर्यात् समाने ऽहनि कुत्रचित् ।

इति, तद् एकस्मिन्न् एव श्राद्धे पुनः पुनः श्राद्धं न कुर्याद् इत्य् एवंपरम् । तेन नानानिमित्तकानेकश्राद्धम् एकस्मिन्न् अहनि कुर्वतो न प्रचेतसो वचनविरोधः । यत् तु लोकाक्षिणोक्तम्,

मृते ऽहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं च दम्पत्योर् अन्वारोहण एव तु ॥

इति, अनेनापि न मृताहे सपत्नीकं श्राद्धम् उक्तं येन पूर्वोक्तविरोधः स्यात् । किं तर्ह्य् अनेनोक्तम् । उच्यते - दम्पत्योर् मृताहैक्ये समासेन संक्षेपेण पिण्डनिर्वपणं यथा द्वैपितृकश्राद्धे एकस्मिन् पिण्डे द्वयोः पित्रोर् अमुकनाम्ने अमुकनाम्ने च इत्य् उद्दिश्यैक एव पिण्डो दीयते तथेहाप्य् एकस्मिन् पिण्डे द्वयोर् मातापित्रोर् अमुकायामुकायै चेत्य् उद्देशं कृत्वा एक एव पिण्डो देयः । ब्राह्मणाश् चायुग्माः पिण्डदानवद् एव द्वाव् एवोद्दिश्य भोजयितव्याः । पिण्डनिर्वपणग्रहणस्य श्राद्धोपलक्षणपरत्वात् । एवं चैतच् छ्राद्धम् अनेकोद्देश्यसाहित्यरूपचोदनालिङ्गात् पार्वणधर्मकं तन्त्रेण कार्यम् । नवश्राद्धं तु दम्पत्योः पृथक् कार्यम् । ततश् चैकोद्दिष्टरूपं श्राद्धद्वयं प्राग्द्वादशाहान् नवश्राद्धदिनेषु पितुर् मातुश् च कार्यम् । एवम् उक्तविधं सांवत्सरिकश्राद्धं नवश्राद्धं चैकचित्याम् अन्वारोहणे मात्रा कृते कर्तव्यम् । नान्यत्रेत्य् अवधारयितुम् अन्वारोहण एवेत्य् उक्तम् । यत् तु स्मृत्यन्तरम्,

एकचित्यां समारुढौ दम्पती निधनं गतौ ।
पृथक् छ्राद्धं तयोः कुर्याद् ओदनं च पृथक् पृथक् ॥

इति—ओदनं ओदनपिण्डः—तद् एतन् नवश्राद्धमात्रविषये योजयेत् । प्रत्यब्दं तद् येषाम् एकोद्दिष्टविधानेनैव मासिकम् आब्दिकं च श्राद्धं मातापित्रोर् मृताहे भेदेनोदितं तद्विषयम् इति न पूर्वोक्तसांवत्सरिकश्राद्धविशेषेण सहास्यापि विरोधः । यत् पुनर् भृगुणैव “प्रत्यब्दं च” इत्य् उक्त्वानन्तरम् उक्तं “नवश्राद्धं युगपत् तु समापयेत्” इति, तस्यायम् अर्थ - मातापित्रोर् मृताहैक्ये मात्रा चैकचित्यन्वारोहणे कृते सति पितुर् नवश्राद्धं चैककालम् एकपाकेन (पाकाभावस्यैव?) तन्त्रेण प्रधानात् पूर्वाङ्गकलापं कृत्वा प्रथमं पित्रे पश्चान्मात्रे च श्राद्धं कृत्वा पाश्चात्याङ्गकलापं च कृत्वा तन्त्रेण कुर्याद् इति । अनेकमातृभिर् एकचित्याम् अन्वारोहणे कृते ऽप्य् एवम् एव । पितुर् अनन्तरं साक्षान् मातुस् तदनन्तरम् उपमातृषु ज्येष्ठादिक्रमेण नवश्राद्धं कुर्यात् तथा च स एव ।

एककाले गतासूनां बहूनाम् अथ वा द्वयोः ।
तन्त्रेण श्रपणं क्र्त्वा कुर्याच् छ्राद्धं पृथक् पृथक् ॥
पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात् संनिपातेष्व् अयं क्रमः ॥ इति ।

श्रपणं प्रदेयान्नपाकः पूर्वकस्य मुख्यस्य द्वितीयस्य मुख्यापेक्षा जघन्यस्य तृतीयस्य जघन्यतरस्येत्य् अर्थः । भिन्नचित्याम् अन्वारोहणे तु सर्वं पृथग् एव कर्यम् । एवम् उक्तविधिष्व् अन्यतमविधिना यथोक्तव्यवस्थानुसारिणा मृताहश्राद्धम् अवश्यं कर्तव्यम् । तथा च कार्ष्णाजिनिः ।

ऊषरेषु यथा क्षिप्तं बीजं न प्रतिरोहति ।
तथा च तद् भवेत् तेषां यन् न दत्तं मृते ऽहनि ॥

एतेन मृताहे अन्नम् अवश्यं दातव्यम् इत्य् अभिप्रायः । “तच् च पार्वणवत् स्मृतम्” इति जातूकर्णादीनां बहुतराणां पक्षः । “एकोद्दिष्टविधानेन” इति याज्ञवल्क्यादीनां बहूनाम् । अत एव सुमन्तुः ।

कर्तव्यं पर्वणं राजन् नैकोद्दिष्टं कथंचन ।
सुबहून्य् अत्र वाक्यानि मुनिगीतानि चक्षते ॥
अल्पेतराणि राजेन्द्र एकोद्दिष्टं पर्चक्षते ॥ इति ।

अत्र पार्वणपक्षे चक्षते प्रचक्षते धर्मशास्त्रज्ञाः । अल्पेतराणि बहूनि कतिपयानि वाक्यान्य् एकोद्दिष्टपक्षं प्रचक्षत इत्य् अर्थः । तेन एकोद्दिष्टपक्षं परित्यज्य पार्वणपक्ष एव परिग्राह्य इत्य् आह स एव ।

तस्माद् वचनसामर्थ्यात् पार्वणं स्यान् मृते ऽहनि ॥ इति ।

वचनसामर्थ्याद् बहुतराणां वचनानां सामर्थाद् इत्य् अर्थः । अयम् एवार्थो जैमिनिनाप्य् उक्तः - “विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् सधर्मत्वम्” इति । प्रत्यक्षश्रुतिमूलत्वात् जातूकर्ण्यादिवचनान्य् एव बलवन्ति । प्रत्यक्षश्रुतिश् चेयम् - “मासि मासि ऋताव् ऋतौ हेमन्तग्रीष्मवर्षासु प्रतिसंवत्सरे च दैवाश् च पितरश् च सहासताम्” इति । प्रतिसंवत्सरे मृताहे देवाश् च पितरश् च सहासतां विश्वेदेवाः पितृपितामहप्रपितामहाश् च श्राद्धं भोक्तुं सह तिष्ठन्त्व् इत्य् अर्थः । अनया श्रुत्या सदैवं श्राद्धं कार्यं मृताह इत्य् उक्तम् । तस्मात् सर्वैर् एव पार्वणपक्षो ग्राह्यः । पार्वणविधायकवचनैः एकोद्दिष्टविधायकवचनानां बाधितत्वात् । अथ वा कतिपयैर् एव पर्वणपक्षः परिग्राह्यः । तथा च स्मृत्यन्तरम् ।

पितुः पितृगणस्थस्य कुर्यातां दर्शवत् सुतौ ।
प्रत्यब्दं प्रतिमासं च विधिज्ञौ क्षेत्रजौरसौ ॥

एकोद्दिष्टवद् इतरे सुताः कुर्युर् इति शेषः । अत एव सुमन्तुः ।

प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥

उक्ता चैवं परस्परविरुद्धानां स्मृतीनां विषयभेदेन व्यवस्था,

श्र्रुतिद्विधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।
स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥

इति जाबालस्मरणात् । एवम् एव विषयव्यवस्था मातृमृताहे ऽपीत्य् आह कात्यायनः ।

प्रत्यब्दं यो यथा कुर्यात् पुत्रः पित्रे सदा द्विजः ।
तथैव मातुः कर्तव्यं पार्वणं वान्यद् एव वा ॥

यत् तु तेनैवोक्तम् ।

पितृव्यभ्रातृमातॄणां एकोद्दिष्टं सदैव तु ।

इति, तत्र मातृशब्दो गौणमुख्यमातृसपत्नीपर इति पितृव्यादिसमभिव्याहाराद् अवगम्यते । अतो न पूर्वोक्तवचनेन सह विरोधः । एतच् च मातृग्रहणं मुख्यमातृव्यतिरिक्तस्त्रीणाम् उपलक्षणार्थम् । अत एव विष्णुधर्मोत्तरम् ।

प्रतिसंवत्सरं कार्यम् एकोद्दिष्टं नरैः स्त्रियाः ।
मृते ऽहनि यथान्यायं नॄणां यद्वद् इहोदितम् ॥

यद्वत् पुरुषाणां समन्त्रकं श्राद्धं तद्वत् द्विजातिस्त्रीणां कृतविवाहानां समन्त्रकम् एव श्राद्धं कार्यम् । इत्य् अन्त्यपादस्यार्थः । अपरिणीतानां तु स्त्रीणां संस्कारहीनत्वाद् अमन्त्रकम् एव । स्त्रिया इत्य् एतद् अपुत्रायाः स्त्रिया इत्य् अभिप्रायकम् । अत एव गर्गः ।

अपुत्रा या मृताः काश्चित् स्त्रियो वा पुरुषाश् च ये ।
तेषाम् अपि च देयं स्याद् एकोद्दिष्टं न पार्वणम् ॥ इति ।

स्त्रियः मातुः सपत्न्यादयः । पुरुषाः पितृव्यादयः । यद् वा,

येनास्य पितरो याताः येन याताः पितामहाः ।
तेन यायात् सतां मार्गं। तत्र गच्छन् न रिष्यति ॥

इति स्मृत्यन्तरोक्तपूर्वपुरुषाचारेणैकोद्दिष्टपार्वणपक्षयोर् उदितानुदितहोमवत् अन्योन्यनिन्दार्थवादेन सह विहितयोः मातापितृमृताहश्राद्धविषये व्यवस्था बोद्धव्या । अत्र पैठीनसिः ।

विभक्तैस् तु पृथक् कार्यं प्रतिसांवत्सरादिकम् ।
एकेनैवाविभक्तेषु कृते सर्वैस् तु तत्कृतम् ॥

इति स्मृतिचन्द्रिकायां मृतहश्राद्धविधिः