३४ यथाशक्ति पार्वणानुष्ठानविधिः

अथ यथाशक्ति पार्वणानुष्ठानविधिः

तत्र शातातपः ।

यथा कथंचिन् नित्यानि कुर्याद् इन्दुक्षयादिषु ।
पात्रद्रव्यादिसंपत्सु सर्वकामफलं लभेत् ॥

अमावास्यादिकालेषु चोदितानि नित्याधिकाराणि पार्वणश्राद्धादीनि पात्रद्रव्यादिसंपत्त्यलाभे ऽपि यथा कथंचित् कुर्यात् यथाशक्ति कुर्याद् इति पूर्वार्धस्यार्थः । तत्र पात्रासंपत्तौ देवलेनोक्तम् ।

एकेनापि च विप्रेण षट्पिण्डं श्राद्धम् आचरेत् ।
षडर्घ्यान् दापयेत् तस्मै षड्भ्यो दद्यात् तथासनम् ॥
पिता भुङ्क्ते द्विजकरे मुखे भुङ्क्ते पितामहः ।
प्रपितामहस् तु तालौ च कण्ठे मातामहः स्मृतः ॥
प्रमातामहस् तु हृदये वृद्धो नाभौ तु संस्थितः ॥ इति ।

वृद्धः प्रमातामहस्य पिता । अत्र वसिष्ठः ।

यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येद् अग्नौ तद् अन्नं तु दद्याद् वा ब्रह्मचारिणे ॥ इति ।

देवतायतनं वैश्वदैविकब्राह्मणोपवेशनस्थानम् । तत्र ब्राह्मणार्चनात् पूर्वं स्थण्डिले विश्वान् देवान् आवाह्यासनकल्पनादिधूपदीपाच्छादनान्तम् आराधनं कृत्वा पश्चात् पित्रर्थम् उपविष्टं ब्राह्मणम् अभ्यर्च्य अन्नपरिवेषणकाले प्रकृतस्य श्राद्धार्थं संपादितस्य सर्वस्य संबन्धि किंचिद् अन्नं पात्रे समुद्धृत्याभ्घार्याराधितस्थाने पुरतो निधायान्नत्यागकाले पूर्वम् एतद् अन्नं विश्वान् देवान् उद्दिश्य त्यक्त्वानन्तरं श्राद्धं प्रवर्तयेत् । पितॄन् उद्दिश्य ब्राह्मणस्य पुरतः परिविष्टम् अन्नं त्यजेद् इत्य् अर्थः । एकस्यापि ब्राह्मणस्यालाभे देवलेनोक्तम् ।

पात्राभावे परं कृत्वा पितृयज्ञविधिं नरः ।
निर्दिश्याप्य् अन्नम् उद्धृत्य यत्र पात्रं ततो गतिः ॥
निधाय वा दर्भवटून् आसनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥
पात्राभावे क्षिपेद् अग्नौ गवे दद्याद् अथाप्सु वा ।
न तु प्राप्तस्य लोपो ऽस्ति पैतृकस्य विशेषतः ॥

अस्यार्थः - पात्राभावे ऽनुकल्पतयोक्तविप्रस्याभावे पितृयज्ञविधिं पिण्डपितृयज्ञधर्मकम् अग्नौकरणं परं केवलं (?) कृत्वा अमावास्यायाम् (?) अन्नं भाजनादाव् उद्धृत्य निर्दिश्य चतुर्थ्यन्तशब्देन देवान् पितॄन् उद्दिश्य उद्धृतम् अन्नं त्यक्त्वा यत्रात्यन्तानतिदूरे पात्रलक्षणान्वितो विप्रो ऽस्ति, तत्र नीत्वा तस्मै तद् अन्नं समर्पयेत् । यद् वा - पितृयज्ञधर्मकम् अग्नौकरणं कृत्वा दर्भवटून् कुशमयान् विप्रप्रतिनिधीन् वटून् अत्यन्ताल्पपरिमाणान् आसनेषु संस्थाप्य दैवे क्षणः क्रियतां श्राद्धे क्षणः क्रियताम् इत्यादिप्रैषसंयुक्तम् ॐ तथेत्याद्यनुप्रैषसंयुक्तं कृत्स्नं श्राद्धविधानं कृत्वा देवपित्रर्थं त्यक्तम् अन्नं पूर्ववत् पात्रलणयुक्तविप्रेभ्यः (?) प्रतिपादयेत् समर्पयेत् । अतिदूरस्थे तु पात्रे पक्षद्वये ऽपि त्यक्तम् अन्नम् अग्नौ क्षिपेत् । अथ वा गवे बक्षणार्थं प्रयच्छेत् । नद्याद्युदके वा क्षिपेत् । न तु पात्राभावमात्रेण कर्मणो लोपः कार्य इति । पक्वद्रव्यसंपादनासंभवे तु सुमन्तुः ।

पाकाभावे ऽधिकारः स्याद् विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणाम् आमश्राद्धं विदुर् बुधाः ।
आत्मनो देशकालाभ्यां विषमे समुपागते ॥
आपद्य् अनग्नौ तीर्थे च प्रवासे पत्न्यसंभवे ।
चन्द्रसूर्यग्रहे चैव दद्याद् आमं विशेषतः ॥ इति ।

विप्रादीनां त्रैवर्णिकादीनां पत्नीरहितानां विदेशगमनादिभिश् च कारणैः पाकसंपादनासंभवे आमश्राद्धे अधिकारः स्यात् । चन्द्रसूर्यग्रहे ऽपि यस्य पाकासंभवः स आमं दद्यात् । यस्य वा भोक्तुर् ब्राह्मणस्यालाभः सो ऽप्य् आमं दद्यात् । शूद्रस् तु सर्वश्राद्धेषु पार्वणविधानेनामम् एव दद्यात् । तथा च मर्कण्डेयः ।

सर्वं श्राद्धं तथा कार्यं शूद्रेणाप्य् एवम् एव तु ।
मन्त्रवर्जं तु शूद्रस्य सर्वम् एवं विधीयते ॥

एवम् एव पार्वणविधिनैव । तथा च प्रचेताः ।

स्त्री (?) शूद्रः स्वपचश् चैव जातकर्मणि चाप्य् अथ ।
आमश्राद्धं तदा कुर्याद् विधिना पार्वणेन तु ॥

स्वयं पवतीति स्वपचः । वायुपुराणे ।

न पक्वं भोजयेद् विप्रान् सच्छूद्रो ऽपि कदाचन ।
भोजयेत् त्व् अश्नतां पापं तस्यापि प्रभवेत् सताम् ॥

सतां शूद्रान्नभोजने भोक्तृणां शूद्रस्य च पापं भवेत् । कः पुनः सच्छूद्र इत्य् अपेक्षिते व्याघ्रः ।

संस्कृतानां तु शूद्रायां ब्रह्मवीर्यसमुद्भवः ।
स्वकर्मनिरतश् चैव सच्छूद्रः संप्रकीर्तितः ॥

उशनसा तु लब्धक्रीतादिपक्वान्नसद्भावे ऽप्य् आमश्राद्धम् एव द्विजैः कार्यम् इत्य् उक्तम् ।

अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते ॥

सिद्धान्नेन कार्यान्तरार्थं यथा कथंचित् सिद्धानेन । अपत्नीकादिग्रहणं पाकसामग्र्यादिरहितपुरुषोपलक्षणार्थम् । अत एव जमदग्निः ।

न भवेद् यस्य सामग्री दारा वा गृहम् एव वा ।
आमश्राद्धं प्रकुर्वीत वृद्धो बालश् च यो भवेत् ॥

पाकसामग्रीसद्भावे कस्यचिद् आमश्राद्धं कर्तव्यम् इत्य् आह स एव ।

यावत् स्यान् नाग्निसंयुक्तः उत्सन्नाग्निर् अथापि वा ।
आमश्राद्धं तदा कुर्याद् धस्ते ऽग्नौकरणं भवेत् ॥

पक्वेन श्राद्धं क्वचिद् आवश्यकम् इत्य् आह हारीतः ।

श्राद्धविघ्ने द्विजातीनाम् आमश्राद्धं प्रकीर्तितम् ।
अमावास्याद्यनियतं माससंवत्सराद् ऋते ॥

अनेन मासिकम् आब्दिकं च श्राद्धम् अवश्यं पक्वान्नेन कार्यम् इति वचोभङ्ग्योक्तम् इति मन्तव्यम् । यत् पुनर् जमद्गनिनोक्तम्,

श्राद्धज्ञः श्रद्धया श्राद्धं श्राद्धकाले यथाविधि ।
पक्वेन वाश्रितेनापि नूनं कुर्यात् पितुः सुतः ॥

इति, तत् मासिके साम्वत्सरिके ऽपि सर्वथा पक्वान्नासिद्धौ आमद्रव्यविधानार्थम् इति न पूर्वोक्तजमदग्निवचनेन गतार्थम् । आमश्राद्धे विशेषम् आह व्यासः ।

आमं तद् अनु कौन्तेय दद्याद् अन्नं चतुर्गुणम् ।
सिद्धान्ने तु विधिर् यः स्याद् आमश्राद्धे ऽप्य् असौ विधिः ॥
आवाहनादि सर्वं स्यात् पिण्डदानं च भारत ।
दद्याद् यच् च द्विजातिभ्यः शृतं वाशृतम् एव वा ॥
तेनाग्नौकरणं कुर्यात् पिण्डांस् तेनैव निर्वपेत् ॥

अन्नम् आमरूपं पुरुषापेक्षया चतुर्गुणं दद्याद् इत्य् अर्थः । अग्नौकरण्म् अत्र पाणाव् एव,

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धस् तदा ।
हस्ते ऽगनुकरणं कुर्याद् ब्राह्मणः स्वविधानतः ॥

इति तेनैवोक्तत्वात् । षट्त्रिंशन्मते ऽपि ।

आमश्राद्धं यदा कुर्यात् पिण्डदानंकथं भएत् ।
गृहपाकात् समुद्धृत्य सक्तुभिः पायसेन वा ॥ इति ।

पिण्डदानं भवेद् इति शेषः । आमद्रव्यगृहपाकसक्तुपायसेषु यथालाभं व्यवस्था । एत चामश्राद्धं पूर्वाह्ने कार्यम्, “आमश्राद्धं तु पूर्वाह्ने” इति शातातपस्मरणात् । यत् तु तेनैवोक्तम्

मध्याह्नात् परतो यत् तु कुतपः समुदाहृतः ।
आममात्रेण तत्रैव पितॄणां दत्तम् अक्षयम् ॥

इति, तत् श्राद्धकर्तुः आमश्राद्धविषयम् इत्य् अपरार्केण साधितम् । आमद्रव्यासंभवे तु व्यासेनोक्तम् ।

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥

अत्राप्य् आमश्राद्धविशेषो यथासंभवम् अनुसंधेयः । आमश्राद्धे हेमश्राद्धे च भोजनप्रयुक्तापोशनकर्मादीनां “यथासुखं जुपध्वं तृप्ताः स्थ” इत्यादीनां च द्वारकार्यलोपान् निवृत्तिर् अवगन्तव्या । केषुचिन् मन्त्रेषूहो ऽप्य् एव्वम् अवगन्तव्यः । तथा च मरीचिः ।

आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने ।
अन्नकर्मण्य् अनूहाः स्युर् आमश्राद्धविधिः स्मृतः ॥

आवाहने आवाहनमन्त्रे । “पितॄन् हविषे अत्तवे” इत्य् अत्र अत्तव इति पदस्थाने स्वीकर्तव्य इत्य् ऊहः कार्यः । स्वधाकारे “नमो वः पितर इषे” इत्याद्मन्त्रे इष इति पदस्थाने आमद्रव्यायेत्य् ऊहः कर्तव्यः । विसर्जने विप्रविसर्जनमन्त्रे “वाजे वाजे” इत्यदिके तृप्ता इति पदस्थाने उद्धृत्य आमेन तर्पयन्त इत्य् ऊहः कार्यः । अन्नकर्मणि ब्राह्मणाङ्गुष्ठनिवेशनादौ “विष्णो हव्यं रक्षस्व” इत्यादयो मन्त्रा अनूह्याः स्युः । आमश्राद्धविधिः स्मृतः इत्य् आमश्राद्धग्रहणं हेमश्राद्दोपलक्षणार्थम् । हेमद्रव्यालाभे ऽपि स्मृत्यन्तरोक्तम् ।

तृणानि वा गवे दद्यात् पिण्डान् वाथापि निर्वपेत् ।
तिलोदकैः पितॄन् वाथ तर्पयेत् स्नानपूर्वकम् ॥
अग्निना वा दहेत् कक्षं श्राद्धकाले समागते ॥
तस्मिंश् चोपवसेद् अह्नि जपेद् वा श्राद्धसंहिताम् ॥ इति ।

अत्रापि यथासंभवं व्यवस्था । अङ्गसंपादनासंभवे ऽपि स्मृथन्तरोक्तम् ।

अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स यदा वाचयेद् विप्रान् सकला सिद्धिर् अस्त्व् इति ॥

पितृयज्ञस्य श्राद्धस्य सकला सिद्धिः सकलाङ्गसिद्धिर् अस्त्व् इति भवन्तो ब्रुवन्तु इति प्रार्थनेति । निमन्त्रितान् विप्रान् सकलाङ्गसिद्धिर् अस्य श्राद्धस्यास्त्व् इति वाचयेद् इत्य् अर्थः । विस्मृतपार्वणानुष्ठानासंभवे तु व्यासेनोक्तम् ।

त्यक्ताग्नेः पार्वणं नैव नैकोद्दिष्टं सपिण्डनम् ।
अत्यकाग्नेस् तु पिण्डोक्तिस् तस्मात् संकल्प्य भोजयेत् ॥

अयम् अर्थः - त्यक्ताग्नेर् अविधिनोत्सृष्टाग्नेः पार्वणैकोद्दिष्टसपिण्डीकरणात्मकश्राद्धकर्मणि नैवाधिकारः । पिण्डोक्तिः श्राद्धं कर्तव्यम् इत्युक्तिः अत्यक्ताग्नेः त्यक्ताग्निव्यतिरिक्तस्यैव अत्यक्तागेर् एव श्राद्धाधिकार इति यावत् । तस्मात् त्यक्ताग्निर् एव संकल्प्य भोजयेत् । संकल्पविधानेन श्राद्धं कुर्याद् इति । संकल्पविधानस्य पार्वणविधानात् को भेद इत्य् अपेक्षिते स एवाह ।

संकल्पं तु यदा कुर्यान् न कुर्यात् पात्रपूरणम् ।
नावाहनाग्नौकरणं पिण्डांश् चैव न दापयेत् ॥

पात्रपूरणम् अर्घ्यदानम् । आवाहनस्य समन्त्रकस्य निषेधः, न त्व् आवाहनमात्रस्य तदभावे देवपितृसांनिध्याभावात् । ततश् चावाहनमन्त्रम् अनुक्त्वैव पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् आवाहयामीत्य् एतावन्मात्रम् उक्त्वा देवावाहनं कार्यम् । पित्राद्यावाहने ऽप्य् एवम् एव । पिण्डांश् चैवेत्य् अत्र चैवशब्देन उच्छिष्टपिण्डस्यापि निषेधः । अत एव स्मृत्यन्तरे,

संकल्पं तु यदा श्राद्धं न कुर्यात् पात्रपूरणम् ।
विकिरं च न दातव्यम् ।

इति स्पष्टम् उक्तम् । एवम् अनुकल्पानुष्ठाने ऽपि शाठ्याभावे सति मुख्यकल्पानुष्ठानफलं भवति । तथा च स्मृत्यन्तरम् ।

श्राद्धानुकल्पं यः कुर्याज् जात्यवस्थाद्यपेक्षया ।
श्राद्धांशे सर्वम् आप्नोति मुख्यकल्पफलं नरः ॥ इति ।

श्राद्धांशे श्राद्धप्रधानांशे ब्राह्मणभोजनमात्रे पिण्डप्रदानमात्रे ऽपि वा कृते, अङ्गांशे यथाशक्ति कतिपयानुष्ठाने ऽपि कृत इत्य् अर्थः ॥

**इति स्मृतिचन्द्रिकायां यथाशक्तिपार्वणानुष्ठानविधिः **