३२ ब्राह्मण-भोजनात्मक-प्रधान-पाश्चात्याङ्गम्

अथ ब्राह्मण-भोजनात्मक-प्रधान-पाश्चात्याङ्गविषयाणि

तत्र मत्स्यः ।

अथाचान्तेषु चाचम्य वारि दद्यात् सकृत् सकृत् ॥ इति ।

ब्राह्मणेष्व् आचान्तेषु स्वयम् अप्य् आचान्तो भुक्तवद् ब्राह्मणदक्षिणहस्तेषु सकृत् सकृद् अपो दद्याद् इत्य् अर्थः । एतद् अनाचान्तेषु विप्रेषु पिण्डदानपक्षे द्रष्टव्यम् । आचान्तेषु पिण्डदानपक्षे आचम्य पिण्डं दद्यात् ततो विप्रहस्तेषु सकृत् सकृद् अपो दद्यात् । तेषां पवित्रपाणित्वाय दर्भाश् च देयाः, भोजनसमयपवित्राणाम् उच्छिष्टत्वेन त्यक्तत्वात् । पद्मपुराण्ē ऽपि ।

आचान्तेषूदकं दद्यात् पुष्पाणि सयवानि च । इति ।

ऽवैश्वदैविकब्राह्मणहस्तेष्व् इति शेषः, सयवानि चेत्य् अभिधानात् । पैतृकब्राह्मणहस्तेषु तु यवस्थाने तिला देयाः, अर्घ्यादौ तथा दर्शनात् । सयवानि चेति चशब्दात् पुनर् अप्य् उदकं देयम् इति सूच्यते । हस्तेषु दत्तानां यवादीनां दर्भाणाम् इव धारणप्रयोजनकार्याभावात् कृतकार्यत्वेन क्वचित् शुचौ देशे प्रक्षेपणं विप्राः कुर्युः । प्रक्षेपणानन्तरं पुनः मत्यः ।

आचान्तेषु पुनर् दद्याज् जलपुष्पाक्षतोदकम् ।
दत्वाशीः प्रतिगृह्णीयात् द्विजेभ्यः प्राङ्मुखो बुधः ॥

पुनःशब्देन पद्मपुरानोक्तं सयवपुष्पं जलं प्रथमं देयम् इति सूचितम् । जलपुष्पाक्षतोदकं दद्यात् प्रथमं जलं दद्यात् साक्षतपुष्पं प्रदाय पुनर् अपि जलं दद्याद् इत्य् अर्थः । आशीः प्रतिगृह्णीयाद् आशिषः प्रतिगृह्णीयाद् इत्य् अर्थः । काः पुनर् आशिषः कथं च तासां प्रतिग्रहः, प्रतिगृह्य किं कर्तव्यम् इत्य् अपेक्षिते तेनैवानन्तरम् उक्तम् ।

अघोराः पितरः सन्तु सन्त्व् इत्य् उक्ते पुनर् द्विजैः ।
गोत्रं तथा वर्धतां नस् तथेत्य् उक्तश् च तैः पुनः ॥
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ।
श्रद्धा च नो मा व्यपगात् बहुदेयं च नो ऽस्त्व् इति ॥
एताः सत्याशिषः सन्तु सन्त्व् इत्य् उक्तश् च तैः पुनः ।
स्वस्तिवाचनकं कुर्यात् ॥॥॥॥॥॥॥॥॥। ॥ इति ।

अघोराः पितरः सन्त्व् इति श्राद्धकर्त्रा वर्तव्यम् । शिवाः पितरः सन्त्व् इति तस्यार्थः । सन्त्व् इत्य् उक्ते पुनर् द्विजैः सन्त्व् अधोराः पितर इत्य् उक्ते गोत्रं वर्धतां न इति कर्त्रा वक्तव्यम् । तथेत्य् उक्तश् च तैः पुनः तैर् द्विजैः वर्धतां गोत्रम् इत्य् उक्ताः कर्ता दातारो नो ऽभिवर्धन्तां इत्यादिश्लोकं पठित्वा एताः सत्या आशिषः सन्त्व् इति ब्रूयात् । सन्त्व् इत्य् उक्तश् च तैः पुनः स्वस्तिवाचनं कुर्यात् । तैर् द्विजैः सन्त्व् एताः सत्या आशिष इत्य् उक्तः कर्ता द्विजैदत्तम् (?) अक्षतपुष्पं शिरसा प्रतिगृह्य स्वस्तिवाचनं कुर्यात् । कात्यायनगृह्ये तु दातार इत्यादिकं नोक्तम् । अघोराः पितरः सन्त्व् इत्य् उक्ते गोत्रं नो वर्धताम् इत्य् एतावन्मात्रम् उक्तम् । यद्य् अप्य् आशीःप्रतिग्रहानन्तरम् एव स्वस्तिवाचनं कार्यम् इति मत्स्यवचनमात्रात् प्रतिभाति । तथाप्य् आशिषं परिगृह्यानन्तरं भोजनपात्राणि चालयित्वा स्वस्तिवाचनं कुर्यात् । अन्यथा दोषश्रवणात् । तथा च नारायणः ।

अचालयित्वा तत्पात्रं स्वस्ति कुर्वन्ति ये द्विजाः ।
निराशाः पितरस् तेषां शप्त्वा यान्ति यथागतम् ॥

बृहस्पतिर् अपि ।

भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः ।
तद् दत्तम् असुरैर् भुक्तं निराशाः पितरो गताः ॥

तस्मात् स्वस्तिवाचनात् प्राक् पात्रचालनम् अवश्यं कार्यम् इत्य् अभिप्रायः पात्रचालनकर्तृविषये विधिप्रतिषेधौ जातूकर्ण्येन दर्शितौ ।

पात्राण्य् उच्चालयेच् छ्राद्धे स्वयं शिष्यो ऽथ वा सुतः ।
न स्त्रीभिर् न च बालेन नासजात्या कथंचन ॥

स्वस्तिवाचनप्रकारस् तु पारस्करेण दर्शितः - “स्वस्तीति भगवन् ब्रूहीति वाचनम्” इति । अक्रोदकं दत्वा स्वस्तिवाचनम् इति कात्यायनेनोक्तो विशेषः । अत्रैवं प्रयोगः - यज्ञोपवीती वैश्वदैविकहस्ते उदकं दत्वा पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः स्वस्तीति भगवन् ब्रूहीति कर्ता ब्रूयात् । विप्रेण च तेभ्यः स्वस्तीति वक्तव्यम् । प्राचीनावीती पित्र्यब्राह्मणहस्तेषूदकं दत्वा पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः अमुकगोत्रेभ्यः अमुकशर्मभ्यः स्वस्तीति भगवन् ब्रूहीति कर्ता ब्रूयात् । विप्रेण च तेभ्यः स्वस्तीति वक्तव्यम् । एवं मातामहादिब्राह्मणहस्तेषूदकं दत्वा मातामहमातुःपितामहमातुःप्रपितामहेभ्यो ऽमुकगोत्रेभ्यो ऽमुकशर्मभ्यः स्वस्तीति भगवन् ब्रूहीति कर्ता ब्रूयात् । विप्रेण च तेभ्यः स्वस्तीति वक्तव्यम् । स्वस्तिवाचनानन्तरं याज्ञवल्क्यः - “ततः कुर्याद् अक्षय्योदकम् एव च” इति । ततः स्वस्तिवाचनानन्तरम् अक्षय्योदकं कुर्यात् । अक्षय्यम् अस्त्व् इत्य् उक्त्वा विप्रहस्ते जलं निनयेद् इत्य् अर्थः । पित्र्यविप्रहस्ते तु सतिलं जलं निनयेत्, अक्षय्यम् अस्त्व् इति च तिलोदकं दत्वेति कात्यायनेनोक्तत्वात् । अस्त्व् अक्षय्यम् इति विप्रैर् वाच्यम् । तथा च मार्कण्डेयपुराणम् ।

पितॄणां नामगोत्रेण जलं देयम् अनन्तरम् ।
ब्राह्मणानां द्विजैर् वाच्यम् अक्षय्यम् इदम् अस्त्व् इति ॥

ब्राह्मणानां हस्तेष्व् इति शेषः । अत्रैवं प्रयोगः - पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानाम् अक्षय्यम् अस्त्व् इति वैश्वदैविकब्राह्मणहस्तेषु केवलं जलं यज्ञोपवीती निनयेत् । पितृपितामहप्रपितामहानाम् अमुकगोत्राणाम् अमुकशर्मणां सपत्नीकानाम् अक्षय्यम् अस्त्व् इति पित्र्यब्राह्मणहस्तेषु सतिलं जलं प्राचीनावीती निनयेत् । एवं मातामहादीनाम् अमुकगोत्राणाम् अमुकशर्मणां सपत्नीकानां अक्षय्यम् अस्त्व् इति मातामहादिब्राह्मणहस्तेषु सतिलं जलं निनयेत् । वैश्वदैवादिद्विजैः तत्प्रदानानन्तरम् अक्षय्यम् इदम् अस्त्व् इति वक्तव्यम् । अक्षय्योदकदानानन्तरं दक्षिणां दद्यात् । तथा च मत्यः ।

अक्षय्योदकम् एव च ।
सतिलं नामगोत्रेण दद्याच् छक्त्या च दक्षिणाम् ॥ इति ।

सतिलम् अक्षय्योदकं पित्रादिनामगोत्रेण दद्यात् । तदनन्तरं शक्त्यनुसारेण दक्षिणां दद्याद् इत्य् अर्थः । अत्र देयवस्तूनि निर्दिश्य व्यास आह ।

गोभूहिरण्यवासांसि नव्यानि शयनानि च ।
दद्याद् यद् इष्टं विप्राणाम् आत्मनः पितुर् एव च ॥
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिम् आचरन् ॥ इति ।

वित्तशाठ्येन रहितो गवादिकं पितृभ्यो दद्यात् । तेषां प्रीतिम् आचरन्न् इत्य् अन्वयः । पारस्करो ऽपि - “हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्यो ऽन्यच् च गोकृष्णाजिनादिकं यावच् छक्नुयात्” इति । वायुपुराणे ।

लोके श्रेष्ठतमं यत् तु आत्मनश् चापि यत् प्रियम् ।
सर्वं पितॄणां दातव्यं तेषाम् एवाक्षयार्थिना ॥

पितॄणां पितृभ्य इत्य् अर्थः । पितृभ्यो दक्षिणादाने प्रकारम् आह जमदग्निः ।

सतिलं नामगोत्रेण दद्याच् छक्त्या च दक्षिनां ।
हिरण्यरत्नवासांसि हर्म्याणि शयनानि च ॥ इति ।

हिरण्यादि द्रव्यं तिलोपेतं पितृभ्यो गोत्रनामसहितेभ्यः प्रतिपदयामीति संकल्प्य पैतृकब्राह्मणानां भुक्तवतां समर्पयेद् इत्य् अर्थः, “ब्राह्मणान् भोजयित्वा तु दद्याच् छक्त्या च दक्षिणाम्” इत्युक्तत्वात् । यत् तु वायुप्राणे ऽभिहितम्,

यद् यद् इष्टतमं लोके यच् चान्यद् विद्यते गृहे ।
तत् तद् गुणवते देयं तदैवाक्षयम् इच्छता ॥

इति, तत् देवेभ्यः पितृभ्यश् च संकल्पितं दक्षिणाद्रव्यम्, न भक्ष्यभोज्यादिकम् । भक्ष्यभोज्यं तु भोक्तृविप्रेभ्यः समं देयम् । दक्षिणादिद्रव्यम् अपि भोक्तृविप्रगुणानुसारेण विषमं देयम् इत्य् एवंपरम्, न तु गुणवन्तं ब्राह्मणम् उद्दिश्य देयपरम् इत्य् अवगन्तव्यम् । पारस्पकरः ।

एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि ।
भक्ष्य्भोज्यं समं देयं दक्षिणा त्व् अनुसारतः ॥ इति ।

समं देयं गुणतारतम्यनिबन्धनवैषम्यं हित्वा देयम् इत्य् अर्थः । दक्षिणादौ तारतम्यनिबन्धनवैषम्ये कृते ऽपि न दोषः । अनुसारतः निमन्त्रितविप्रगुणानुसारेणेत्य् अर्थः । एवं चेत्थं दक्षिणादानप्रयोगः - यज्ञोपवीती पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो देवेभ्यो हिरण्यादिदक्षिणां प्रतिपादयामीति संकल्प्य वैश्वदैविकब्राह्मणहस्ते समर्पयेत् । ततः प्राचीनावीती पितृपितामहप्रपितामहेभ्यो ऽमुकगोरेभ्यो ऽमुकशर्मभ्यः सपत्नीकेभ्यः रजतादिदक्षिणां प्रतिपादयामीति संकल्प्य पितृवर्गार्थविप्रहस्ते समर्पयेत् । एवं मातामहादिभ्यः समर्पयेत् । ननु यदि पित्राद्युद्देशेन द्रव्यत्यागः न पुनर् ब्राह्मणोद्देशेन, कथं तर्हि ब्राह्मणानां दक्षिणाद्रव्ये स्वाम्यम् । उच्यते - यथा दर्शपूर्णमासयोर् दक्षिणादाने “ब्राह्मणा अयं व ओदनः” इत्य् उक्त्वा यजमानेन ओदने समर्पिते ब्राह्मणोद्देशेन ओदनत्यागाभावे ऽपि ऋत्विजां कर्मकर्त्वेनैव ओदनस्वाम्यम् उत्पद्यते, तथेहापि हिरण्यरजतादिसर्मर्पणे तत्र स्वाम्यं ब्राह्मणानां कर्मकर्त्वेनैव सिध्यति । यथा वा — प्रतिष्ठादौ प्रातिष्ठाप्यदेवतायै संकल्पितवस्त्राभरणादिषु आचार्यस्य स्वाम्यम् “प्रतिष्ठान्ते तु सर्वम् उपकरणम् आचार्यो गृह्णाति” इति वचनानुगृहीतकरकरत्वेनैव भवति, तथेहापि “ब्राह्मणान् भोजयित्वा तु दद्याच् छक्त्या च दक्षिणाम्” इत्यनुगृहीतेन कर्मकर्त्वेन ब्राह्मणानां पित्राद्युद्देशेन संकल्पितरजतादौ स्वाम्यं संपद्यत इति न कश्चिद् विरोधः । अथ वा ब्राह्मणोद्देशेन त्यागाद् एवात्रापि ब्राह्मणानां स्वाम्यं भविष्यति,

आचान्तेभ्यो द्विजेभ्यस् तु प्रयच्छेद् अथ दक्षिणाम् । इति ।

देवलेन द्विजान् उद्दिश्य दक्षिणा देयेत्य् अभिहितम् ।

दक्षिणां पितृविप्रेभ्यो दद्यात् पूर्वं ततो द्वयोः । इति ।

द्वयोर् वैश्वदैविकविप्रयोर् इति यावत् । द्वयोर् इति षष्ठी पितृविप्रेभ्य इति चतुर्थीसमभिव्यागारात् चतुर्थ्यर्थे द्रष्टव्या । एवाम् चायम् अर्थः - पूर्वं पितृविप्रेभ्यो दक्षिणां दत्वा पश्चाद् वैश्वदैविकब्राह्मणाभ्यां दद्याद् इति । अस्मिन् पक्षे दक्षिणादानस्यापैतृकत्वात् पितृविप्रेभ्यो ऽपि यज्ञोपवीत्य् एव दद्यात् । अत एव जमदग्निः ।

सर्वं कर्मापसव्येन दक्षिणादानवर्जितम् । इति ।

यत् पुनस् तेनोक्तम्,

अपसव्यं तु तत्रापि मत्स्यो भगवान् हि मेने ।

इति, तत् पितॄन् उद्धिश्य दक्षिणादानपक्षे द्रष्टव्यम् । बृहस्पतिस् तु अनिमन्त्रितविप्रेभ्यो ऽपि दक्षिणादानम् आह ।

ज्ञातयो बान्धवा निःस्वास् तथा वातिथयो ऽपरे ।
प्रदद्याद् दक्षिणां तेषां सर्वेषाम् अनुरूपतः ॥ इति ।

ज्ञातयः पितृसंबन्धाः । बान्धवा मातृसंबन्धाः । दक्षिणादानानन्तरं याज्ञवल्क्यः ।

दत्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् । इति ।

दक्षिणादानानन्तरं स्वधां वाचयिष्ये इति विप्रान् अनुज्ञापयेद् इत्य् अर्थः । अत्रिर् अपि ।

वाचयिष्ये स्वधां प्रश्नम् इत्थं कुर्याद् द्विजातिषु । इति ।

स्वधां वाचयिष्ये इतीत्थं स्वधाप्रश्नं द्विजातिष्व् आसीनेष्व् एव कुर्याद् इत्य् अर्थः । ततो द्विजातयः वाच्यताम् इत्य् अनुज्ञां दद्युः,

वाच्यताम् इत्य् अनुज्ञां तु प्रीता दद्युः समाहिताः ।

इति तेनैवानन्तरम् अभिधानात् । एवम् अनुज्ञातः किं कुर्याद् इत्य् अपेक्षिते याज्ञवल्क्यः ।

वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् । इति ।

अनेनेदम् उक्तम् - पितृभ्य पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यो मातुःपितामहेभ्यो मातुःप्रपितामहेभ्यः सपत्नीकेभ्यः स्वधोच्यताम् इति कर्ता ब्रूयाद् इति । अस्तु स्वधेति विप्रा ब्रूयुः । ततः कर्ता कमण्डलुना पिण्डसमीपभूमौ जलं सिञ्चेत् । कात्यायनस् तु दर्भान् आस्तीर्य तस्यां भूमौ समन्त्रकं सेचनं कार्यम् इत्य् आह - “सपवित्रान् कुशान् आस्तीर्य स्वधां वाचयिष्ये इति पृच्छति वाच्यताम् इत्य् उक्ते पितृभ्यः पितामहेभ्यः प्रपितामहेभ्याह् स्वधोच्यतं अस्तु स्वधेत्य् उच्यमाने ऊर्जं वहन्तीर् इत्य् अपो निषिञ्चेत् सपवित्रेषु कुशेषु” इति । सपवित्रेषु अर्घ्यसंस्कारार्थपवित्रसहितेषु । सपवित्रेष्व् इति वदन् न्युब्जीकृतार्घ्यपात्रम् उत्तानं कृत्वा तत्र पवित्राणि ग्राह्याण्य् अस्मिन् काल इति सूचयति । अत एव संग्रहकारः ।

याज्ञवल्क्यो विसर्गात् प्राक् पात्रम् उत्तानम् इच्छति ।
यमो विसर्जनं कृत्वा गृह्यकर्तापि शौनकः ॥
प्रीतिप्रश्णात् तु देवानां पूर्वं कात्यायनादयः ॥ इति ।

विसर्जनात् प्राग् विप्रविसर्जनात् पूर्वम्, देवानां प्रीतिप्रश्नात् पूर्वं विश्वेदेवाः प्रीयन्ताम् इत्य् अभिधानात् पूर्वम्, स्वधावाचनकाले इत्य् अर्थः । अत्र यथास्वगृह्यं व्यवस्था,

सर्वेषाम् अपि पक्षाणां स्वस्वगृह्यात् तु गृह्यते ।

इति स्मरणात् । स्वस्वगृह्योक्तपक्षस्याभावे तु स्वेच्छैव पक्षविशेषग्रहणे नियामिका,

स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेत् ।

इत्य् अपि स्मरणात् । सपवित्रकुशवत्यां भूमौ उदकधारानिषेचनानन्तरं स्वधा संपद्यताम् इति कर्ता ब्रूयात् । विप्रैश् च संपद्यतां स्वधा इति स्वधाकारात्मिका पितॄणाम् आशीर् वक्तव्या । तथा च अत्रिः ।

अस्तु स्वधेति तैः प्रोक्ते निषिच्योदीर्य नित्यशः ।
स्वधाकारः परा प्रोक्ता पितृष्व् आशीः स्वयंभुवा ॥
आयुःपुत्रदनारोग्यशान्त्यर्थं वाचयेद् द्विजान् ॥ इति ।

तैर् विप्रैर् अस्तु स्वधेत्य् उक्ते कर्ता “ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति (?) सरितः” इत्यादिकम् “स्वधां दुहाना अमृतस्य धाराम्” इत्यन्तं मन्त्रं सामर्थ्यरूपलिङ्गाद् एवात्र प्राप्तम् उदीर्योदकधारां निषिच्य स्वयंभुवा ब्रह्मणा प्रोक्ता पितृस्वधाकारात्मिका परा उत्कृष्टा या आशीस् ताम् आयुरादिफलसिद्ध्यर्थं द्विजान् वाचयेद् इत्य् अर्थः । स्वधावाचनानन्तरं याज्ञवल्क्यः ।

विश्वेदेवाश् च प्रीयन्तां विप्रैश् चोक्ते इदं जपेत् । इति ।

विश्वेदेवाः प्रीयन्ताम् इति पूर्वं श्राद्धकर्ता, पश्चात् प्रीयन्तां विश्वेदेवा इति वैश्वदैविकविप्रैश् चोक्ते, चशब्दात् पितरः प्रीयन्ताम् इति पूर्वं कर्ता, पश्चात् प्रीयन्तां पितर इति पित्र्यविप्रैश् चोक्ते इदं वक्ष्यमाणं जपेत् “दातारो नो ऽभिवर्धन्ताम्” इत्यादिकम् आशीःप्रार्थनावाक्यवृन्दं कर्ता पठेद् इत्य् अर्थः । अत्र संग्रहकारः ।

दातार इति याज्ञोक्त्या पादार्थः प्रार्थना स्मृता ।
तां सुरप्रीतिसंप्रश्नान् प्राक् प्रचेतनास् तु मन्यते ॥
पारस्करः स्वस्ति वाच्यं कृत्वाशीर् ग्रहणं जगौ ।
विसर्जितेषु विप्रेषु बहिष्ठेषु मनुर् जगौ ॥
यान्य् अत्र कालभेदेन कर्माणि मुनयो जगुः ।
स्वस्वगृह्यानुसारेण विकल्पस् तेषु युज्यते ।
न गृह्यादिस्मृतिर् येषां श्राद्धादाव् उपलभ्यते ॥
कर्तुम् अर्हन्ति ते कृत्स्नं यस्य कस्य मुनेर् इति ॥

वैकल्पिकेषु स्वगृह्याद्युक्तपक्षाभावे यस्य कस्यचिद् एकस्य मुनेः पक्षं स्वेच्छानुगुणं कुर्याद् इत्य् अर्थः । विश्वेदेवाः प्रीयन्ताम् इत्य् उक्त्वा वैश्वदैविकब्राह्मणपाणौ अपो दत्वा पितरः प्रीयन्ताम् इत्य् उक्त्वा पैतृकब्राह्मणपाणौ अपो दत्वा अनन्तरं सर्वब्राह्मणपाणिषु सपुष्पाः साक्षतास् चापो दद्यात् । तथा च अत्रिः ।

विप्रपाणौ तु दत्वापः सपुष्पाः साक्षतास् ततः । इति ।

अपो दद्याद् इति शेषः । अत्र बृहस्पतिः ।

वाजे वाज इति प्रोच्य ब्राह्मणांस् तान् विसर्जयेत् ।
विप्रान् प्रदक्षिणीकृत्य पितृभ्यः प्रार्थयेद् वरान् ॥

तान् पाणिधृतपुष्पाक्षतान् विसर्जयेत् । स्वस्थानं प्रति गमनार्थं आसनेभ्य उत्थापयेत्,

वाजे वाज इत्य् उत्थाप्य कृत्वा चैतान् प्रदक्षिणम् ।

इति मार्कण्डेयस्मरणात् । उत्थापने च साक्षाद्विप्रहस्तग्रहणं न कुर्यात्, किं तु हस्तसंसृष्टदर्भद्वारा,

वाजे वाजे इति जपन् कुशाग्रेण विसर्जयेत् ।

इति मत्स्येनाभिधानात् । कुशाग्रेण कुशेन हस्तस्पर्शनं कृत्वेत्य् अर्थः । अग्रेण तु हस्तस्पर्शने क्रियमाणे एकदा एकस्यैव हस्तसंस्पर्शो न बहूनाम् । ततश् च “तृप्ता यात” इति बहुवचनम् “अदितिः पाशान्” इतिवद् अविवक्षितं स्यात् । एवं च कुशेन यावतां हस्तसंस्पर्शनं युगपत् कर्तुं शक्यं तावतां सकृन् मन्त्रोच्चारणम्, यातेति बहुवचनतो बहुविप्रविसर्जनलक्षणकार्यस्य सकृदुच्चारणाद् एव सिद्धेः । असंभवे मन्त्रावृत्तिः । विनोत्थानं विप्राणां यानं च संभवतीत्य् अर्थाद् उत्तिष्ठतेत्य् अपि यातेत्य् अनेनैवोक्तं भवति । विप्राणाम् उत्थापनेनैव तत्रावाहितदेवपितॄणाम् अप्य् उत्थापनं सिद्धम् इति स्मृतिषु तत् पृथन्ङोक्तम् (?) । तथापि तस्य स्पष्टानुसंधानार्थं दर्भेण संस्पर्शनात् पूर्वम् उत्तिष्ठत पितरो विश्वैर् देवैः सहेत्य् उक्त्वा विप्रविसर्जनं कार्यम् । एवं च द्विजविसर्जनसंपातायातं पित्रादिविसर्जनं नाहत्यानुष्ठेयम् इति न विसर्जने प्राचीनावीतिना भवितव्यम् । अत एव “उपवीती विसर्जनम्” इत् शौनकेनोक्तम् । विप्रविसर्जने क्रमः पुराणे दर्शितः ।

पश्चाद् विसर्जयेद् देवान् पूर्वं पैतामहान् द्विजान् ।
मातामहानाम् अप्य् एवं सह देवैः क्रमः स्मृतः ॥

देवान् वैश्वदैविकद्विजान् । पैतामहान् पित्रादिस्थानेषूपविष्टान् । विप्रोत्थापनानन्तरं कात्यायनः - “आमा वाजस्य, इत्य् अनुव्रज्य प्रदक्षिणीकृत्य” इति । प्रदक्षिणीकरणानन्तर दातार इत्यादिश्लोकद्वयेन पितृसकाशाद् वरयाचनं कार्यम् । तथा च मत्स्यः ।

विसृज्य ब्राह्मणांस् तांस् तु तेषां कृत्वा प्रदक्षिणम् ।
दक्षिणां दिशम् आकांक्षन् पितॄन् याचेत मानवः ॥
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्तु ॥
अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि ।
याचितारश् च नः सन्तु मा च याचिष्म कंचन ॥ इति ।

दक्षिणां दिशम् आकांक्षन् दक्षिणाभिमुखः श्लोकद्वयेन प्रतीयमानान् वरान् श्लोकद्वयपादेनैव पितॄन् याचेत न् विप्रान् इत्य् अर्थः । बृहस्पतिर् अपि ।

विप्रान् प्रदक्षिणीकृत्य पितृभ्यः प्रार्थयेद् वरान् । इति ।

वरयाचनानन्तरं वृद्धशातातपः ।

एवम् अस्त्व् इति तैर् वाच्यं मूर्ध्ना ग्राह्यं च तेन तत् । इति ।

तैः भूतपूर्वगत्या पित्रधिष्ठानभूतैर् विप्रैर् एवम् अस्त्व् इति वाच्यम्, साक्षात् पितृभिर् एवम् अस्त्व् इति वचनासंभवात् । एवम् अस्त्व् इत्य् उक्त्वा तैः स्वहस्तगतं पुष्पाक्षतं प्रदेयम् । तेन श्राद्धकर्त्रा च तत्पुष्पाक्षतं मूर्ध्ना ग्राह्यम् । एवम् आशीर् ग्रहणानन्तरं स एवाह ।

ततः प्रदक्षिणं कृत्वा पुनस् तेषां कृताञ्जलिः ।
उक्त्वा चैव प्रियां वाचं प्रणिपत्य प्रसादयेत् ॥ इति ।

प्रियां वाचम् - “धन्या वयं युष्मदनुग्रहेण पितॄणाम् अनृणा जाताः” इत्येवमादिकाम् । प्रसादनार्थं यद् वक्तव्यं तद् आह बृहस्पतिः ।

अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् ।
अद्य मे वंशजाः सर्वे याता वो ऽनुग्रहाद् दिवम् ॥
पत्रशाकादिदानेन क्लेशिता युयम् ईदृशाः ।
तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुम् अर्हथ ॥ इति ।

एवं प्रसाद्यानन्तरं सर्वं संपूर्णम् अस्त्व् इति विप्राः प्रार्थयितव्याः । तथा च विष्णुः ।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः ।
श्राद्धं संपूर्णतां यातु प्रसादाद् भवतां मम ॥ इति ।

विप्रैर् अपि सर्वं संपूर्णम् अस्त्व् इत्य् उक्त्वा हविर्गुणस्तुतिः कर्तव्या,

श्राद्धावसाने कर्तव्या द्विजैर् अन्नगुणस्तुतिः ।

इति वृद्धवसिष्ठस्मरणात् । ततो विप्रान् स्वस्थानगमनार्थं विसर्जयेत् । तथा च पुराणम् ।

विसर्जयेत् प्रीतिमतः संमान्याभ्यर्च्य तांस् ततः । इति ।

मार्कण्डेयो ऽपि ।

जानुभ्याम् अवनीं गत्वा प्रणिपत्य विसर्जयेत् । इति ।

मदालसावाक्यम् अपि ।

वसर्जयेत् प्रियाण्य् उक्त्वा प्रणिपत्य च भक्तितः ।
आद्वारम् अनुगच्छेत आगच्छेतानुमोदितः ॥ इति ।

अनुमोदितो ब्राह्मणैर् इति शेषः ।

इति स्मृतिचन्द्रिकायां ब्राह्मभोजनात्मकप्रधानपाश् चात्याङ्गविषयाणि