३१ पिण्डदानविषयान्तरम्

अथान्यान्य् अपि पिण्डदानविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र बृहस्पतिः ।

सर्वस्मात् प्रकृताद् अन्नात् पिण्डान् मधुतिलान्वितात् ।
पितृमातामहादीनां दद्याद् गृह्यविधानतः ॥

एतद् उक्तं भवति । आपस्तम्बादिगृह्येषु यत्र पितृयज्ञविधानाद् विध्यन्तरेण पिण्डदाम् उक्तं तद्गृह्यानुसारिणां तदुक्तविध्यन्तरेणैव पित्रादिभ्यो मातामहादिभ्यश् च पिण्डदानं कार्यम् इति । यस्य च रवस्य (?) गृह्ये विधानान्तरं नोपदिश्यते पिण्डपितृयज्ञविधानं वा निर्दिश्यते तेनैव पिण्डपितृयज्ञकल्पेन पिण्डदानं कार्यं नान्येनेति मन्तव्यम् । गृह्योक्तविधानान्तरेषूदाहरणार्थम् आपस्तम्बगृह्योक्तं विध्यन्तरं प्रदर्श्यते तत्र ह्य् एवम् अभिहितम् - “भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैर् अपो दत्वोत्तरैः दक्षिनापवर्गान् पिण्डान् दत्वा पूर्ववद् उत्तरैर् अपो दत्वोत्तरैर् उपस्थायोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्य् उत्तरं यजुर् अनवानं (?) त्र्यवरार्धम् आवर्तयित्वा प्रोक्ष्य पात्राणि द्वंद्वम् अभ्युपाहृत्य” इति । अस्यार्थो विविच्यते । “भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य” इत्य् अनेन ब्राह्मणभोजनात्मकं प्रधानम् अनुव्रजनप्रदक्षिणीकरणान्तपाश्चात्याङ्गजातसहितं (?) परिसमाप्यानन्तरं पिण्डप्रदानात्मकं प्रधानं साङ्गम् अनुष्ठातव्यम् । न पुनर् ब्राह्मणभोजनात्मकं प्रधानम् अपरिसमाप्य अनन्तरम् इत्य् उक्तम् । ततश् च स्वकीयस्थानं प्रति गतेषु विप्रेषु पिण्डनिर्वापणम् अनुष्ठेयम्, न तु भुक्तव्त्स्व् आचान्तेषु अनाचान्तेषु तिष्ठत्सु विप्रेष्व् अवगन्तव्यम् । द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य द्विधाभूतं यथा भवति दक्षिणाग्रान् दर्भान् अनुपहतदेशस्य पूर्वभागे पश्चाद्भागे च पृथक् पृथक् संस्तीर्य तेषूत्तरैर् अपो दत्वा तेषु द्विधा संस्तीर्णेषु दर्भेषु उत्तरैः “मार्जयन्तां मम पितरः” इत्यादिभिर् मन्त्रैः एकस्मिन् पिण्डस्थाने एकैकेन मन्त्रेणापो निनयेत् । पूर्वभागस्थदर्भेषु प्रथमपिण्डस्थाने “मार्जयन्ताम् पितरः” इति मन्त्रेणापो निनयेत् । द्वितीयतृतीयपिण्डस्थानयोः “मार्जयन्तां पितामहाः प्रपितामहाः” इति मन्त्राभ्याम् अपो निनयेत् । पश्चाद्भागस्थदर्भेषु प्रथमपिण्डस्थाने “मार्जयन्तां मातरः” इति मन्त्रेण, द्वितीयतृतीयपिण्डस्थानयोः “मार्जयन्तां पितामह्यः प्रपितामह्यः” इति अपो निनयेत् । उत्तरैर् एव दक्षिणापवर्गान् पिण्डान् दत्वा “एतत् ते ततासौ ये च त्वाम् अनु” इत्यादिभिर् मन्त्रैः एकस्मिन् पिण्डस्थाने एकैकेन मन्त्रेण एकैकपिण्डं पित्रादीन् उद्दिश्य त्यागपूर्वं निवपेद् इत्य् अर्थः । तत्र पूर्वभागस्थदर्भेषूदकनिनयनक्रमेण “एतत् ते ततासौ ये च त्वाम् अनु” इति मन्त्रेण प्रथमपिण्डस्य निवपनम् । एवं पितामहप्रपितामहपिण्डयोर् निवपनम् । पश्चाद्भागस्थदर्भेषु “एतत् ते मातर् असौ याश् च त्वाम् अनु” इति मन्त्रेण प्रथमपीण्डस्य । एवं पितामहीप्रपितामह्योः पिण्डयोर् निवपनम् । “स्त्रीभ्यश् च पिण्डा इह पश्चिमाः स्युः” इति गृह्यभाष्यार्थसंग्रहकारेणाभिधानात् पश्चाद्भागस्थदर्भेषु स्त्रीणां पिण्डनिवपनम् इत्य् अवगन्तव्यम् । षट्स्व् अपि पिण्डमन्त्रेषु असाव् इत्य् अत्र संबोधनरूपेण पितृपितामहप्रपितामहानां मातृपितामहीप्रपितामहीनां च नामग्रहणं कर्तव्यम्,

अर्घ्यदाने च संकल्पे पिण्डदाने तथाक्षये ।
गोत्रसंबन्धनामानि यथावत् प्रैपादयेत् ॥

इति पारस्करस्मरणात् । पिण्डाश् च विप्रभोजनावशिष्टसर्वप्रकारान्नमया मधुतिलान्विता न देयाः । “सर्वस्मात् प्रकृताद् अन्नात्” इत्यादेर् आपस्तम्बेनानिबद्धत्वाद् ओदनमात्रेणैव पिण्डदानं कार्यम् इत्य् आहुः । पूर्ववद् उत्तरैर् अपो दत्वा पिण्डनिर्वपणात् पूर्वोदकनिनयनवद् दर्भेष्व् एव पिण्डसमीपे उत्तरैः “एतत् ते ततासौ” इत्यादिभ्यः षड्भ्यो मन्त्रेभ्यः परस्तात् पठितैः “मार्जयन्तां पितरः” इत्यादिभिर् एव मन्त्रैर् अपो निनयेद् इत्य् अर्थः । पूर्वोक्तोदकनिनयने पश्चादुक्तोदकनिनयने च तिलमिश्रम् उदकं ग्राह्यम् इति केचिद् वदन्ति । उत्तरैर् उपस्थाय “ये च वो ऽत्र” इत्यदिभिर् मन्तैर् उपस्थायेत्य् अर्थः । “ये च वो ऽत्र ये चास्मास्व् आशंसन्ते ते च वहन्तां तृप्यन्तु भवन्तः तृप्यत तृप्यत तृप्यत” इत्य् एतैर् मन्त्रैः पितृवर्गार्थपिण्डोपस्थानम् । “याश् च वो ऽत्र याश् चास्मास्व् आशंसन्ते ताश् च वहन्तां तृप्यन्तु भवत्यः तृप्यत तृप्यत तृप्यत” इत्य् एतैर् मन्त्रैः मातृवर्गार्थपिण्डोपस्थानं कार्यम् इति मन्त्रलिङ्गाद् अवगन्तव्यम् । उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य (?) उत्तरया “पुत्रान् पौत्रान्” इत्य् ऋचा उभयेषां पिण्डान् परिषिच्येत्य् अर्थः । न्युब्ज्य पात्राणि न्युब्ज्य अधोमुखतया स्थापयित्वेर्थ (?) । उत्तरं यजुरनवानं (?) त्र्यव्रार्धम् आवर्तयित्वा “तृप्यत तृप्यत तृप्यत” इत्य् एकं यजुस् त्रिवारं जप्त्वान्यपक्षावलम्बनेनानुच्छ्वस्वन् आवर्त्येत्य् अर्थः । प्रोक्ष्य पात्राणि द्वंद्वम् अभ्युदाहृत्य न्युब्जीकृतानि पात्राणि प्रोक्ष्य द्वे पात्रे युगपद् उद्धत्यान्यत्र स्थापयेद् इत्य् अर्थः । एवम् उक्तापस्तम्बगृह्यविधानतो गृह्यान्त्रोक्तविधानतो वा यथास्वगृह्यं पिण्डान् दद्यात् । गृह्योक्तविधाने ऽपि मातामहादीनां पिण्डनिवपनं कार्यम्,

पितृमातामहादीनां दद्याद् गृह्यविधानतः ।

इत्य् एतस्मिन्न् एव प्रकरणे बृहस्पतिवचनेन दर्शितत्वात् । तत्र आपस्तम्बगृह्यविधानतो मातामहादीनां पृथक्पिण्डनिवपनं कार्यं विकृतेः प्रकृतिवत् कर्तव्यत्वात् । विकृतित्वं च मातामहादिश्राद्धस्य भाष्यार्थसंग्रहकारेणोक्तम् ।

मातामहादेर् अप्य् एवं श्राद्धं कुर्यात् प्रयत्नतः । इति ।

ततश् च तद्गृह्यानुसारिणाम् एवं मातामहाद्यर्थपिण्डदानप्रयोगः । मातृवर्गार्थदर्भसंस्तरणं विधाय ततः पश्चाद् भागे मातामहवर्गार्थदर्भसंस्तरणं कृत्वा ततः पश्चाद्भागे मातामहीवर्गार्थदर्भसंस्तरणं कुर्यात् । मातृवर्गार्थम् अपो दत्वा मातामहवर्गार्थम् अपो दद्यात् । “मार्जयन्तां मातामहाः” इत्यादिमन्त्रा ऊह्याः । मातामहवर्गार्थम् अपो दत्वा मातामहीवर्गार्थम् अपो दद्यात् “मार्जयन्तां मातामह्यः” इति मन्त्रा ऊह्याः । मातृवर्गार्थपिण्डान् दत्वा मातामहवर्गार्थपिण्डान् दद्यात् “एतत् ते मातामह अमुकगोत्र अमुकशर्मन् ये च त्वाम् अनु” इति पिण्डदानमान्त्रा ऊह्याः । मातामहवर्गार्थपिण्डान् दत्वा मातामहीवर्गार्थपिण्डान् दद्यात् । “एतत् ते मातामही अमुकगोत्रे अमुकनाम्नि याश् च त्वाम् अनु” इति पिण्डदानमन्त्रा ऊह्याः । मातृवर्गार्थपिण्डसमीपे पुनर् अपो दत्वा मातामहवर्गार्थपिण्डसमीपे (?) पुनर् अपो दद्यात् । तदनन्तरं मातामहीवर्गपिण्डसमीपे पुनर् अपो निनयेत् । निनयनमन्त्राणाम् ऊहः पूर्ववद् एव कार्यः । मातृवर्गार्थपिण्डान् उपस्थाय पितृवर्गार्थपिण्डोपस्थानमन्त्रैर् एव मातामहवर्गार्थपिण्डोपस्थानं कार्यम् । ततो मातृवर्गार्थपिण्डोपस्थानमन्त्रैर् एव मातामहीवर्गार्थपिण्डोपस्थानं कार्यम् । “पुत्रान् पौत्रान्” इत्य् एतयर्चा द्वादशपिण्डानां युगपत् त्रिः प्रसव्यं परिषेचनं कार्यम्, शेषं यजुरावर्तनादि साधारणतया सकृद् एव कार्यम्, “मार्जयन्तां मातामहाः” इत्य् ऊहो भाष्यार्थसंग्रहकारेण सूचितः ।

योज्यः पित्रादिशब्दानाम् स्थाने मातमहादिकः ।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन् मे मातामहीत्यादि तत्रोदाहरणं भवेत् ॥ इति ।

अन्नहोमे “यन् मे माता प्रलुलोभ चरन्त्य् अननुव्रता” इत्यदिभिः मन्त्रैः अग्नौकरान्नहोमे । स्पर्शे “एष ते तत मधुमां ऊर्मिः सरस्वान्” इत्यादिभिर् मन्त्रैः ब्राह्मणभोजनार्थान्नस्पर्शे । जलपिण्डादिदानके “मर्जयन्तां पितरः” इत्यादिजलदानमन्त्रे, “एतत् ते ततासौ ये च त्वाम् अनु” इत्यादिपिण्डदानमन्त्रे च पित्रादिशब्दानां स्थाने मातामहादिशब्दो योज्यः प्रयोज्य इत्य् अर्थः । यन् मे मातामहीत्यादि तत्रोदाहरणं भवेद् इत्य् अस्यायम् अर्थः - तत्र पित्रादिशब्दस्थाने मातामहादिशब्दयोजनम् । “यन् मे माता प्रलुलोभ चरत्य् अननुव्रता तन् मे रेतः पिता वृङ्क्ताम्” इति मन्त्रेण मातामहार्थम् अन्नहोमे कर्तव्ये मन्त्रगतमातृपदस्थाने मातामहीपदप्रक्षेपेण यन् मे मातामहीत्य् एवं संपन्न ऊहः, तथा एतन्मन्त्रगतपितृपदस्थाने मातामहपदप्रक्षेपेण तन् मे रेतो मातामहो वृङ्क्ताम् इत्य् एवं संपन्न ऊहश् (?) चोदाहरणं भवेद् इति । नामाज्ञाने पिण्डदानं प्रकृत्य गृह्यान्तरं “यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भ्यः इति प्रथमपिण्डं दद्यात् स्वधा पितृभ्यो ऽन्तरिक्षसद्भ्य इति द्वितीयम्, स्वधा पितृभ्यो द्विषद्भ्य इति तृतीयम्” इति । एते मन्त्राः मातामहाद्यर्थपिण्डदानमन्त्रे ऽपि नामाज्ञानविषये प्रयोज्याः । गोत्राज्ञाने ऽप्य् आह व्याघ्रपात् - “गोत्रनाशे तु कश्यपः” इति । गोत्राज्ञाने कश्यपगोत्रग्रहणं कर्तव्यम्, कश्यपगोत्रस्य सर्वसाधारणत्वात् । तथा च श्रुतिः - “तस्माद् आहुः सर्वाः प्रजाः कश्यपः” इति । एवं च मातामहादिगोत्राज्ञाने ऽपि काश्यपगोत्रग्रहणं कर्तव्यम् ॥

इति स्मृतिचन्द्रिकायां पिण्डदानविषयाणि