३० पितृ-यज्ञ-धर्मक-पिण्ड-दान-प्रयोगः

अथ पितृ-यज्ञ-धर्मक-पिण्ड-दान-प्रयोगः

अथोपदेशातिदेशसंकलनतया संपन्नः पिण्डदानप्रयोग उच्यते । श्राद्धार्थपाकसिद्धात् सर्वविधाद् अन्नात् षट्पिण्डपर्याप्तं किंचिद् अभ्यधिकम् अन्नं पात्रान्तरे समुद्धृत्य शेषम् अप्य् अस्ति किं क्रियताम् इति पृष्ट्वा इष्टैः संहोपभुज्यताम् इत्य् एवंविधम् अनुज्ञारूपम् उत्तरं विप्रदत्तं श्रुत्वा अनन्तरं स्फ्येन दर्भैर् वा “अपहता असुरा रक्षांसि पिशाचा वेदिषदः” इति मन्त्रेण सव्योत्तराभ्यां पाणिभ्यां पिण्डस्थाने दक्षिणाप्राचीम् एकां रेखां कृत्वा ततो दक्षिणतो द्वितीयां रेखां प्रथमरेखावत् कुर्यात् । ततो रेखाद्वयसमीपभूमाव् उद्धननं कृत्वा तूष्णीं द्विर् अभ्युक्ष्य सकृदाच्छिन्नम् उपमूललूनं बर्हिर् दक्षिणाप्रागग्रं दक्षिणाग्रं वा पृथक् पृथग् रेखाद्वये संस्तीर्य दक्षिणेन हस्तेन पितृतीर्थेन प्रथमरेखागतबर्हिषि पिण्डस्थाने “शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः” इति त्रिभिर् मन्त्रैस् तिलमिश्रम् उदकं निनीय द्वितीयरेखागतबर्हिषि पिण्डस्थानेषु “शुन्धन्तां मातामहाः शुन्धन्तां मातुःपितामहाः शुन्धन्तां मातुःप्रपितामहाः” इति मन्त्रैर् तिलमिश्रम् उदकं निनयेत् । अथ वा प्रथमरेखायाम् “पितर् अमुकगोरामुकशर्मन् अवनेनिङ्क्ष्व, पितामहामुकगोत्रामुकशर्मन्न् अवनेनिङ्क्ष्व, प्रपितामहामुकगोरामुकशर्मन्न् अवनेनिङ्क्ष्व” इति मन्त्रैर् निनयेत् । द्वितीयरेखायां “मातामहामुकगोत्रामुकशर्मन्न् अवनेनिङ्क्ष्व, मतुःपितामहामुकगोत्रामुकशर्मन्न् अवनेनिङ्क्ष्व, मातुःप्रपितामहामुकगोत्रामुकशर्मन्न् अवनेनिङ्क्ष्व” इत् मन्त्रैर् निनयेत् । ततो दक्षिणामुखः सव्यं जान्व् आच्य घृतमधुतिलमिश्रम् अन्नं पूर्वप्रकरणोक्तार्द्रामलकाद्यन्यतमप्रमाणकं पिण्डं कृत्वा “एतत् ते पितर् अमुकगोत्रामुकशर्मन् ये च त्वाम् अनु” इत्य् उक्त्वा पित्रे ऽमुकगोत्रायाम् अमुकशर्मणे वसुरूपाय सपत्नीकायेदम् अन्नं न ममेत्य् उक्त्वा प्रथमपिण्डस्थाने अवाचीनपाणिना प्रक्षिपेत् । एतत् ते पितामहामुकगोत्रामुकशर्मन् ये च त्वम् अन्व् इत्य् उक्त्वा पितामहायामुकगोत्रायामुकशर्मणे प्रजापतिरूपाय सपत्नीकायेदम् अन्नं न ममेत्य् उक्त्वा द्वितीयस्थाने द्वितीयपिण्डं प्रक्षिपेत् । एवम् एतत् ते प्रपितामह अमुकगोत्रामुकशर्मन् ये च त्वाम् अन्व् इत्य् उक्त्वा प्रपितामहायामुकगोत्रायामुकशर्मणे ऽग्निरूपाय सपत्नीकायेदम् अन्नम् इत्य् उक्त्वा तृतीयस्थाने त्र्तीयं पिण्डं प्रक्षिपेत् । एते च पिण्डाः दक्षिणापवर्गा दक्षिणाप्रागपवर्गा वा बर्हिःस्तरणानुसारेण कार्याः । ततो द्वितीयरेखायाम् एवम् एव पिण्डस्थानेxउ पिण्डान् प्रक्षिपेत् । एतत् ते मातामह अमुकगोत्रामुकशर्मन् ये च त्वाम् अनु इत्य् उक्त्वा मातामहायामुकगोत्रायामुकशर्मणे वरुणरूपाय सपत्नीकायेदं न ममेति प्रथमपिण्डे विशेषः । मातुःपितामहमातुःप्रपितामहयोः प्रजापत्यग्निरूपाभ्याम् इदं न ममेति पिण्डान् प्रक्षिपेत् । एते च पिण्डः दक्षिणावपर्गाः दक्षिणाप्रागपवर्गा वा बर्हिःस्तरणानुसारेण कार्याः । एवम् आश्वलायनमतानुसारेण पिण्डदानमन्त्रा दर्शिताः । कात्यायनादिमतानुसारेण पिण्डदान्मन्त्राः पूर्वप्रकरण् एव दर्शिताः । तन्मतानुसारिभिर् इहाप्य् अनुसंधेयाः । एवं पिण्डान् दत्वा रेखायाम् आस्तीर्णे बर्हिषि “अत्र पितरो मादयध्वम्” इत्य् एतावन्मात्रेण हस्तलेपनिर्मार्जनं कृत्वा “अत्र पितरो मादयध्वं यथाभागम् आवृषायध्वम्” इत्य् उक्त्वा, अप्रदक्षिणावर्तनेनोदङ्मुखो भूत्वा यथाशक्त्य् अनुच्छ्वसन्न् आसित्वाभिषर्यावृत्य “अमी मदन्त पितरो यथाभागम् आवृषायीषथ” इति षट्पिण्डान् सकृद् एव अनुमन्त्र्य उच्छ्वसेत् । ततस् तूष्णीं पिण्डपात्रस्थशेषम् अवघ्राय प्रक्षालनोदकेन “शुन्धन्ताम् पितरः” इत्यादिभिः षड्भिर् मन्त्रैः पितः अमुकगोत्र अमुकशर्मन् अवनेनिङ्क्ष्व इत्यादिभिः षड्भिर् मन्त्रैः षट्सु पिण्डेषु पूर्ववद् अवनेजनं क्र्त्वा पिण्डपात्रम् अधोमुखं कुर्यात् । ततो ऽमुकगोत्र अमुकशर्मन् अभ्यङ्क्ष्वेति यथानामधेयं षट्सु पिण्डेषु तैलं दत्वा अमुकशर्मन् अङ्क्ष्वेत्य् यथानामधेयं षट्सु पिण्डेषु अञ्जनं दद्यात् । “एतद् वः पितरो वासो मानोतोन्यत् पितरो युङ्ध्वम्” इतिमन्त्रेण वासोदशादिकं षट्पिण्डेषु दद्यात् । ततस् तूष्णीम् अर्घ्यगन्धमाल्यधूपदीपसार्ववर्णिकान्नोपहारैर् मधुघृततिलसहितोदपात्रेण प्रतिपिण्डम् अर्चनं कुर्यात् । ततः पात्रपूर्णम् उदकं तेनैव पात्रेण सर्वेषां पिण्डानाम् उपरि निनयेत् । दक्षिणं पाणिम् उत्तानं कृत्वा तदुपरि सव्यपाणिनाधोमुखेन नमस्काराञ्जलिं बध्वा “नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं वो जीवन्त इह सन्तः स्याम मनो ऽन्वाहुवामहे नाराशंसेन सोमेन पितॄणां च मन्वभिः” इति तिसृभि ऋग्बिश् च सर्वान् पिण्डान् सकृद् एवोपतिष्ठेत् । ततः “परेत पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः । दत्वायास्मभ्यं द्रविणेह भद्रं रयिं च न स्मर्ववीरं नियच्छत” इति मन्त्रेण पिण्डांश् चालयेत् । ततः “अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदि स्पृशम् । ऋद्धामात ओहैः” इत्य् एतरर्चाग्नौकरणाग्निं प्रतिगच्छेत् । “यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम्” इति मन्त्रेण गार्हपत्यं प्रतिगच्छेत् । एवम् अभ्यञ्जनादिकम् आश्वलायनमतानुसारेणोक्तम् । येषां स्वगृह्ये प्रकारान्तरम् अनुक्तं तेषाम् आश्वलायनोकतम् अभ्यञ्जनादिकम् अनुष्ठेयम्, विष्णुस्मृतिपरिग्रहेण स्मार्ततया सर्वसाधारणत्वात् ॥

**इति स्मृतिचन्द्रिकायां पितृयज्ञधर्मकपिण्डदानप्रयोगः **